कण्ड्वादिभ्यो यक्

3-1-27 कण्ड्वादिभ्यः यक् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Kashika

Up

index: 3.1.27 sutra: कण्ड्वादिभ्यो यक्


कण्डूञित्येवमादिभ्यो यक् प्रत्ययो भवति। द्विवधाः कण्ड्वादयो, धातवः प्रातिपादिकानि च। तत्र धात्वधिकाराद् धातुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते। धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि। आह च अयम् इमं दीर्घं मन्ये धतुर्विभाषितः। कण्डूञ् कण्डूयति, कण्डूयते। ञित्वात् कर्त्रभिप्राये क्रियाफले 1.3.72 इत्यात्मनेपदम्। कण्डूञ्। मन्तु। हृणीङ्। वल्गु। अस्मनस्। महीङ्। लेट्। लोट्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। चुरण। भुरण। तुरण। गद्गद। एला। केला। खेला। लिट्। लोट्।

Siddhanta Kaumudi

Up

index: 3.1.27 sutra: कण्ड्वादिभ्यो यक्


॥ अथ तिङन्तकण्ड्वादिप्रकरणम् ॥

एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च ।{$ {!1944 कण्डूञ्!} गात्रविघर्षणे$} । कण्डूयति । कण्डूयते ।{$ {!1945 मन्तु!} अपराधे$} । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते ।{$ {!1946 वल्गु!} पूजामाधुर्ययोः$} । वल्गूयति ।{$ {!1947 असु!} उपतापे$} । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते ।{$ {!1948 लेट्!} {!1949 लोट्!} धौर्त्ये पूर्वभावे स्वप्ने च$} । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ।{$ {!1950 लेला!} दीप्तौ$} ।{$ {!1951 इरस्!} {!1952 इरज्!} {!1953 इरञ्!} ईर्ष्यायाम्$} ॥ इरस्यति । इरज्यति । हलि च <{SK354}> इति दीर्घः । ईर्यति । ईर्यते ।{$ {!1954 उषस्!} प्रभातीभावे$} ।{$ {!1955 वेद!} धौर्त्ये स्वप्ने च$} ।{$ {!1956 मेधा!} आशुग्रहणे$} ॥ मेधायति ।{$ {!1957 कुषुभ!} क्षेपे$} ॥ कुषुभ्यति ।{$ {!1958 मगध!} परिवेष्टने$} । नीचदास्य इत्यन्ये ॥{$ {!1959 तन्तस्!} {!1960 पम्पस्!} दुःखे$} ।{$ {!1961 सुख!} {!1962 दुःख!} तत्क्रियायाम्$} । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ।{$ {!1963 सपर!} पूजायाम्$} ।{$ {!1964 अरर!} आराकर्मणि {!1965 भिषजू!} चिकित्सायाम्$} ।{$ {!1966 भिष्णज्!} उपसेवायाम्$} ।{$ {!1967 इषुध!} शरधारणे$} ।{$ {!1968 चरण!} {!1969 वरण!} गतौ$} ।{$ {!1970 चुरण!} चौर्ये$} ।{$ {!1971 तुरण!} त्वरायाम्$} ।{$ {!1972 भुरण!} धारणपोपणयोः$} ।{$ {!1973 गद्गद!} वाक्स्खलने$} ।{$ {!1974 एला!} {!1975 केला!} {!1976 खेला!} विलासे$} ।{$ {!1977 इला!} इत्यन्ये$} ।{$ {!1978 लेखा!} स्खलने च$} । अदन्तोऽयमित्यन्ये । लेख्यति ।{$ {!1979 लिट!} अल्पकुत्सनयोः$} । लिट्यति ।{$ {!1980 लाट!} जीवने$} ।{$ {!1981 हृणीङ्!} रोषणे लज्जायां च$} ।{$ {!1982 महीङ्!} पूजायाम्$} । महीयते । पूजां लभत इत्यर्थः ।{$ {!1983 रेखा!} श्लाघासादनयोः$} ।{$ {!1984 द्रवस्!} परितापपरिचरणयोः$} ।{$ {!1985 तिरस्!} अन्तर्धौ$} ।{$ {!1986 अगद!} नीरोगत्वे$} ।{$ {!1987 उरस्!} बलार्थः$} । उरस्यति । बलवान् भवतीत्यर्थः ।{$ {!1988 तरण!} गतौ$} ।{$ {!1989 पयस्!} प्रसृतौ$} ।{$ {!1990 संभूयस्!} प्रभूतभावे$} ।{$ {!1991 अंबर!} {!1992 संवर!} संभरणे$} । आकृतिगणोऽयम् ॥। इति तिङन्तकण्ड्वादिप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 3.1.27 sutra: कण्ड्वादिभ्यो यक्


एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे । ॥ {$ {! 1 कण्डूञ् !} गात्रविघर्षणे $} ॥ कण्डूयति । कण्डूयत इत्यादि ॥ इति कण्ड्वादयः ॥

Balamanorama

Up

index: 3.1.27 sutra: कण्ड्वादिभ्यो यक्


कण्ड्वादिभ्यो यक् - अथ कण्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति । आशुग्रहणँ त्वरया बोधः । 'सुग्रहणे' इति पाठान्तरम् । सुख्यतीति । यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति । आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म । भिषज् चिकित्सायाम् । जान्तोयऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति.लेख्यतीति । अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति । कण्ड्वादिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसङ्ग्रहः ।समिधाऽग्न दुवस्यते॑ । इति कण्ड्वादयः ।अथ कारकप्रकरणम् । — — — — — — -

Padamanjari

Up

index: 3.1.27 sutra: कण्ड्वादिभ्यो यक्


कण्डवादिभ्यो यक्॥ यदीमे कण्ड्वादयो धातव एव स्युस्ततो वाग्रहणमनुवर्तते वा? न वा? अनुवृतौ यगभावपक्षे लडादिषु सत्सु कण्डवतीत्याद्यनिष्ट्ंअ प्रसज्येत्, कण्डूअरित्यादि च न स्यात्; धातो- सुबभावात्। क्विबन्तात्सुप्सम्भवेऽपि कण्डूअरिति न वेदनामात्रं गम्यते; कर्तरि क्विपो विधानात्? संपदादित्वाद्भावे क्विब्भविष्यति। एवमिप कण्ड्वौ कण्ड्वः, ठचिश्नुधातुऽ इत्युवङ् प्राप्नोति, कण्ड्वा, कण्ड्वे'नोङ्धात्वोः' इति विभक्तेरुदातनिषेधः स्यात्, मन्तुवल्गुरित्यत्र च तुक् प्रसङ्गः? अथ नानुवर्तते, कण्डूअरिति न सिध्यति, यगन्तात्सम्पदादित्वाद्भावे क्विप्यल्लोपयलोपयोः कृतयोर्भविष्यति? न चैवमल्लोपस्य स्थानिवत्वादुवङ्'क्वौ लुप्तं न स्थानिवत्' इति वचनात्। ननु च क्वौ विधि प्रति स प्रतिषेधः, अन्यथा लवमाचक्षाणो लौरित्यत्र क्वौ लुप्तस्य णेः स्थानिवत्वाभावेऽपि स्थानिवत्वाभावेऽपि णौ कृतस्य टिलोपस्य स्थानिवत्वादूठ न स्यात्, अतोऽत्र स्थानिवत्वे सत्युवङ् स्यादेव? च्छस्तु'च्छवोः शूङ्' इत्यूठ करिष्यते। न चोठ।ल्पि कर्तव्ये स्थानिवत्वम्; तस्यक्वौ विधित्वाद् आदिष्टादचः पूर्वत्वाच्च, अत एवोठि कृते पुनरुवङेऽप्रसङ्गः। एवमपि कण्ड्वौ, कण्ड्वः, कण्ड्वे - धातुविधिः प्राप्नोति, मन्तुर्वल्गुरिति च न सिद्ध्यति, यकि दीर्घे कृते मन्तूर्वल्गूरिति स्यात्। अथ प्रातिपदिकान्येव? तत्रापि वाग्रहणाननुवृतौ स एव दोषो यो धातुपक्षे। अनुवर्ततां तर्हि वाग्रहणम्, सन्तु च प्रातिपदिकान्येव, तत्राप्ययमर्थः - -ककारो नानुबन्धव्यो भवति अनार्द्धधातुकत्वादेव गुणो न भविष्यति? नैवं शक्यम्; इह हि सुख्यति, दुःख्यति, मगध्यतीत्यतो लोपो न स्याद्; अनार्धधातुकत्वादेव। न च व्यञ्जनान्त एव शक्यः पठितुम्, यगभावपक्षेऽपि तथा प्रयोगप्रसङ्गदत उभये कण्ड्वादय इत्याह - द्विविधाः कण्ड्वादय इति। धातुभ्य एव प्रत्ययो विधीयत इति। नित्यमिति भावः। तेन पक्षे कण्डवतीत्यादि न भवति। न तु प्रातिपदिकेभ्य इति। तेन कण्ड्वौ, कण्ड्वः, मन्तुरित्यादिप्रयोगसिद्धिः। न चास्मिन्नपि पक्षे यगन्तात्सम्पदादिक्विब्विधीयते तदा पूर्वोक्तदोषानुषङ्गः, किं कारणम्? द्दशिग्रहणादेतेभ्यः क्विब् स्याद्, न चैतेभ्य इदानीं क्विब् द्दश्यते। पूर्वत्र तु पक्षे कण्डूअरित्यादिसिद्ध्यर्थमेव क्विब् द्रष्टव्यः। कथं पुनर्ज्ञायते - उभये कण्ड्वादय इति? तच्चलोकेन दर्शयति - घातुप्रकरणादिति। अनुवृतेन धातुग्रहणेन विशेषणात्ककारासञ्जनाच्च धातुत्वमेषाभिमतमिति विज्ञायत इत्यर्थः। यतस्तु खल्वयमाचार्यः क्वचिद्दीर्घमुच्चारयति - कण्डूअञ् हृणीञ् महीङिति, ततो मन्ये - धातुर्विभाषित इति। धातुत्वमेषां विभाषितमिति मन्य इत्यर्थः। अथ कण्ड्वादीनार्थनिर्देशः। कण्डूअञ् गात्रविकर्षणे। मन्तु अपराधे। हृणीङ् रोषे। वल्गु पूजामाधुर्ययोः। अस्मनस् उपतापे। महीङ् वृद्धिपूजनयोः। लेट लोट् धौर्त्ये पूर्वभावे स्वप्ने। इरस इरज् इरञ् ईर्ष्यायाम्। द्रवस् परिचरणे। मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। तन्तस् पम्पस् दुःखे। सुख दुः ख तत्क्रियायाम्। सपर पूजायाम्। अरर आराकर्मणि। भिषज् चिकित्सायाम्। भिष्णजुपसेवायाम्। इषुध शरधारणे। चरण भुरण गतौ। चुरण चौर्ये च। तुरण त्वरायाम्। भुरण धारणपोषणयोः। गद्गद वाक्स्स्वलने। एला केला खेला विलासे। लिट् अल्पार्थे कुत्सायां च। लोट् दीप्तौ॥