भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः

3-1-12 भृशादिभ्यः भुवि अच्वेः लोपः च हलः प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ्

Kashika

Up

index: 3.1.12 sutra: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः


भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः। अच्वेः इति प्रत्येकमभिसम्बध्यते। किमर्थं पुन रिदमुच्यते, यावता भवति योगे च्विर्विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते। अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः। अभृशो भृशो भवति भृशायते। शीघ्रायते। भृश। शीघ्र। मन्द। चपल। पण्डित। उत्सुक। उन्मनस्। अभिमनस्। सुमनस्। दुर्मनस्। रहस्। रेहस्। शश्वत्। बृहत्। वेहत्। नृषत्। शुधि। अधर। ओजस्। वर्चस्। भृशादिः। अच्वेः इति किम्? भृशीभवति।

Siddhanta Kaumudi

Up

index: 3.1.12 sutra: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः


अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च <{SK269}> इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥

Balamanorama

Up

index: 3.1.12 sutra: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः


भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः - भृशादिभ्यो । भवनं भूः, भावे क्विप् । तदाह — भवत्यर्थे इति । भवने इत्यर्थः । क्यङ् स्यादिति ।कर्तुः क्यङ् स लोपश्चे॑त्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः, क्यङ् चेत्यर्थः । ननु 'अभूततद्भावे' इतिकुतो लब्धमित्यत आह — अच्वेरिति पर्युदासबलादिति ।अभूततद्भावग्रहण॑मिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशाऽतिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति — सुमनसिति । सुमनायते इति । असुमनाःसुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारेअप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितं, तथापि तद्देवादिपर्यायरूढविषयम् । सु = शोभनं मनो यस्येति सुमना इति बहुव्रीहिर्यौगिक इति भावः । सुमनायते इति । क्यङि सलोपेअकृत्सार्वे॑ति दीर्घः । ननु लङि मनश्शब्दात्प्रागटिस्वमनायते॑ति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात्सुमनश्शब्दस्य समस्तस्यैव लङं प्रत्यङ्गत्वात्,प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहण॑मिति न्यायादित्याशङ्क्याह — चुरादौ सङ्ग्राम युद्धे इति पठते इति । ततश्च क्वचित्सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौसङ्ग्रामे॑ति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवं चास्य प्रातिपदिकत्वाऽभावात्सोपसर्गात्क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमकमित्यत आह — तत्र सङ्ग्रामेति प्रातिपदिकमिति ।ग्रसेरा॑चे॑त्यौणादिके मन्प्रत्ययेनिष्पन्नस्य ग्रामशब्दस्यकृत्तद्धिते॑ति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षेअर्थवदधातु॑रिति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादकणिजर्थः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह — तस्मादिति । तस्मात्सङ्ग्रामेति प्रातिपदिकाच्चौरादिकणिजसंभवेऽपितत्करोती॑त्यर्थे णिच् सिद्ध इत्यर्थः । ननुतत्करोती॑त्यनेनैव सङ्ग्रामशब्दात्प्रातिपदिकाण्णिच्सिद्धे किमर्थमिह चुरादौ तस्य पाठ इत्यत आह — तत्संनियोगेनेति । णिच्संनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाऽभावादससङ्ग्रामत्येत्यत्र 'णौ चङ्युपधायाः' इत्युपधाह्रस्वः स्यादिति वाच्यं, सङ्ग्रामेत्ययं हि कथादित्व#आददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणाऽदन्तत्वलाभायैवाऽस्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्यतत्करोती॑ति णिचि परे अस्त्वनुबन्धाऽऽसङ्गः, तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यतर् कथमस्य ज्ञापतेत्यत आह — युद्धे इति । सामर्थ्यादिति । 'ग्राम युद्धे' इत्येतावतैव सङ्ग्रामशब्दो लभ्यते, केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादित्यर्थः । विशिष्टपाठ इति । सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह — सामानाकारमिति । सङ्ग्रामशब्दे युद्धवाचिनिस॑मित्यस्य क्रि#आययोगाऽभावात्समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ।क्विबादा॑विति शेषः । पृथक्क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह — तेनेति ।स॑मित्यस्य धातुसंज्ञाप्रवेशाऽभावेनेत्यर्थः । तथा च सुमनश्शब्दादाचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्तः प्रागेव अट्, न तु सुमनसिति समुदायात्प्रागित्यर्थः । एतेनसङ्ग्रामयतेरेव सोपसर्गान्नाऽन्यास्मा॑दित्यादि भाष्यं 'भृषादिभ्य' इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्याआचारेऽवगल्भे॑ति क्विब्विधावपि अवेत्यस्य पृथक्करमाद्गल्भशब्दात्प्रागेव अडित्यर्थः । ननु आ ऊढः ओढः ।कुगती॑ति समासः । अस्माद्भृशादित्वात्क्यङि 'ओढायते' इत्यादि रूपम् । अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात्, तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्रागाटि न रूपे विशेषः, उभयथापि औढायतेत्येव रूपं सिद्धमेव । तथापि ओढायेति क्यङन्तात्क्वाप्रत्ययेअतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वापत्र्ययान्तेन समासे सतिसमासेऽनञ्पूर्वे क्त्वो ल्य॑बिति ल्यप् स्यादित्यत आह — ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति — तेनेति । चुरादौसङ्ग्राम युद्धेट इति सङ्ग्रहणस्य उक्तार्थे पृथक्कृतिरिति ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपमविकृतं श्रूयते नत्वेकादेशेनापह्मतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, सङ्ग्रामे सङ्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत आह — एवं चेति । ओढायित्वेति । ओढशब्दाद्भृशादित्वात् क्यङि ओढायेत्यस्मात्क्यङ्नतात्क्वाप्रत्यये अतो लोपे रूपम् । अत्रेति । अत्र न ल्यबित्यन्वयः । क्यङि विवक्षिते आङ एकादेशेनापह्मत्वेन पृथक्करणाऽभावे सति तस्य आङः क्त्वाप्रत्ययान्तेन समासाऽभावान्न ल्यबिति भावः । उन्मनाय्य, अवगल्भ्येतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद्भृशादित्वादाचारे क्यङि सकारलोपेअकृत्सार्वे॑ति दीर्घे उन्मनायेत्यस्मात्क्त्वोल्यपि, अतो लोपे, उन्मनाय्येति रूपम् । अवगल्भशब्दादाचारेऽवगल्भेति क्विबन्तात्क्वो ल्यपि रूपम् । अत्रउ॑दित्यस्यअवे॑त्यस्य च उपसर्गस्वरूपस्य अनपगृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु ओढायित्वेत्यत्र न ततेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति — ज्ञापकस्येति । षाष्ठं वार्तिकं दर्शयति — उस्योमाङ्क्ष्विति । उसि, ओम्, आङ् एषां द्वन्द्वः । षष्ठ्स्य प्रथमे पादेओमाङोश्चे॑ति सूत्रे इदं वार्तिकं पठतिम् । तद्व्याचष्टे — उस्योमाङोश्च परयोरिति ।एङि पररूप॑मित्यत#ः पररूपग्रहणानुवृतिंत मत्वा आह — पररूपं नेति । उसि तावदुदाहरति — औरुआईयदिति । उरुआआमात्मन ऐच्छदित्यर्थे 'सुप आत्मनः' इति क्यजन्ताल्लङि उरुआईयशब्दादङ्गात्प्रागटि कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तमनेन निषिध्यते । अर्थवद्गर्हणपरिभाषा त्वनित्या, अस्मादेव भाष्योदाहरणात् । अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात्, क्यजन्ताल्लङि अङ्गस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । आङि उदाहरति — औढीयदिति । आ ऊढः ओढः, तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात्तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याऽप्रसक्कतेराङि पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात्पृथक्करणाऽभावादोढशब्दात् प्रागाडागमे सति आङि पररूपप्राप्तेस्तन्निषेधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमाङ्क्षु' इत्याङ्ग्रहणम्, औढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह — आटश्चेति चशब्देनेति ।आटश्चे॑ति सचकारः पुनर्वृद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यता स्यान्नाऽन्यत्पररूपमितिलभ्यते इत्यपि षष्ठाध्यायेओमाङोश्चे॑ति सूत्रे,आटश्चे॑ति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चाऽत्र ज्ञापकमित्युक्तं भवति ।