पुच्छभाण्डचीवराण्णिङ्

3-1-20 पुच्छभाण्डचीवराट् णिङ् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् कर्मणः करणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करण इति वर्तते। पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति, करणविशेषे॥ पुच्छादुदसने पर्यसने वा॥ उत्पुच्छयते। परिपुच्छयते॥ भाण्डात् समाचयने॥ संभाण्डयते॥ चीवरादर्जने परिधाने वा॥ संचीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः <<णेरनिटि>> (६.४.५१) इति॥

Siddhanta Kaumudi

Up

।<!पुच्छादुदसने व्यसने पर्यसने च !> (वार्तिकम्) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ।<!भाण्डात्समाचयने !> (वार्तिकम्) ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत ।<!चीवरादर्जने परिधाने च !> (वार्तिकम्) ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पुच्छभाण्डचीवराण्णिङ्>> - पुच्छभाण्ड । पुच्छादुदसने इति वार्तिकम् । उत्पुच्छयते इति । विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः । भाण्डात्समाचयने - इत्यपि वार्तिकम् । समबभाण्डतेति । उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः । एवमुदपुपुच्छतेत्यादावपि । चीवरादर्जने इत्यपि वार्तिकम् ।

Padamanjari

Up

पुच्छभाण्डचीवराण्णिङ्॥ पुच्छादुदसने पर्यसने वेति। उदसनमूत्क्षेपणम्। पर्यसनमुपरितः क्षेपणम्। उत्पुच्छयत इति। ननु यथाऽऽचारे क्यङ् इविहिते आङ्ः प्रयोगो न भवति, तत्कस्य हेतोः? आङ्विशिष्टस्यैव चरत्यर्थस्य क्यङभिधानात्, तद्वदिहाप्युत्क्षेपणे णिङे विधानादुदः प्रयोगो न प्राप्नोतीति? अस्त्यत्र विशेषः - पर्यसनेऽप्ययं विधीयते। तत्रोदसनं द्योतयितुमुच्छब्दः, पर्यसनं द्योतयितुं परिशब्दश्च प्रयोक्तव्यः। समाचयनमुराशीकरणम्, अर्जनमु द्रव्यलाभोपायः, याच्ञादि। ङ्कार आत्मनेपदार्थ इति। तेनोतरसूत्रे पुच्छादयो न शक्याः पठितुमिति भावः॥