1-1-63 न लुमता अङ्गस्य प्रत्ययलोपे प्रत्ययलक्षणम्
index: 1.1.63 sutra: न लुमताङ्गस्य
लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न
index: 1.1.63 sutra: न लुमताङ्गस्य
लुक्/श्लुः/लुप् - एतैः शब्दैः यस्य प्रत्ययस्य लोपः भवति तस्य निमित्तकम् अङ्गकार्यम् न भवति ।
index: 1.1.63 sutra: न लुमताङ्गस्य
A प्रत्यय that has been removed लुक् , श्लु or लुप् does not cause any अङ्गकार्यम्.
index: 1.1.63 sutra: न लुमताङ्गस्य
पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणम् इति विशेषे प्रतिषेधः उच्यते । लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति - गर्गाः, मृष्टः, जुहुतः । यञ्शपोर्लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः । लुमता इति किम् ? कार्यते, हार्यते । अङ्गस्य इति किम् ? पञ्च , सप्त ; पयः , साम ॥
index: 1.1.63 sutra: न लुमताङ्गस्य
लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥
index: 1.1.63 sutra: न लुमताङ्गस्य
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति कति । कतिभिः। कतिभ्यः कतिभ्यः । कतीनाम्। कतिषु। युष्मदस्मत् षट् संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः त्रिभ्यः ॥
index: 1.1.63 sutra: न लुमताङ्गस्य
अष्टाध्याय्याम् 'लुक्', 'श्लुः', 'लुप्', तथा 'लोपः' इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति इति सिद्धान्तः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति पूर्वसूत्रेण निर्दिष्टः अस्ति ।अस्य सिद्धान्तस्य अपवादरूपेण न लुमताङ्गस्य 1.1.63 इति प्रकृतसूत्रं प्रवर्तते । यदि प्रत्ययस्य लोपः 'लुक्', 'श्लुः', 'लुप्' एताभ्यः काञ्चित् संज्ञाम् उपयुज्य कृतः अस्ति, तर्हि लुप्तप्रत्ययनिमित्तकम् जायमानम् अङ्गविशिष्टं कार्यम् नैव करणीयम् — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —
(1) प्रत्ययस्य लुकि कृते अङ्गकार्यस्य निषेधः —
'इदम्' शब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य प्रक्रियायाम् स्वमोर्नपुँसकात् 7.1.23 इति सूत्रेण सुँ-प्रत्ययस्य लुकि कृते, तन्निमित्तकम् यः सौ 7.2.110 इति अङ्गकार्यम् नैव प्रवर्तते, अतः इदम्-शब्दस्य दकारस्य यकारादेशः अपि न भवति । सम्पूर्णा प्रक्रिया इयम् —
इदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]
→ इदम् [स्वमोर्नपुंसकात् 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लोपे जाते प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन लुप्तप्रत्ययनिमित्तके कार्ये प्राप्ते, अत्र 'लुक्'-शब्देन प्रत्ययस्य लोपः कृतः अस्ति इति कारणात् न लुमताङ्गस्य 1.1.63 इत्यनेन सुँ-प्रत्ययनिमित्तकम् अङ्गकार्यम् अपि निषिध्यते । अतएव यः सौ 7.2.110 इत्यनेन सुँ-प्रत्यये परे अङ्गस्य अन्तिमवर्णस्य यकारादेशः न भवति ।]
(2) प्रत्ययस्य श्लौ कृते अङ्गकार्यनिषेधः —
जुहोत्यादिगणस्य 'हु' धातोः विहितस्य शप्-प्रत्ययस्य जुहोत्यादिभ्यः श्लुः 2.4.75 इति सूत्रेण श्लुसंज्ञया लोपः क्रियते । एतादृशे लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन इत्यनेन शप्-प्रत्ययनिमित्तकम् सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणकार्यम् न लुमताङ्गस्य 1.1.63 इत्यनेन निषिध्यते । सम्पूर्णा प्रक्रिया इयम् —
हु (दानादानयोः, जुहोत्यादिः)
→ हु + लट् [वर्तमाने लट् 3.2.123]
→ हु + तस् [प्रथमाद्विवचनस्य विवक्षायाम् तिप्तस्झि.. 3.4.78 इत्यनेन तस्-प्रत्ययः]
→ हु + शप् + तस् [सार्वधातुके शप् 3.1.67
→ हु + तस् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति शप्-प्रत्ययस्य श्लुः । अत्र लोपात् अनन्तरम् सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन प्राप्तम् शप्-प्रत्ययनिमित्तकम् गुणकार्यम् नैव सम्भवति यतः अत्र 'श्लु' इति शब्देन लोपे कृते न लुमताङ्गस्य 1.1.63 इति सूत्रम् अङ्गकार्यनिषेधार्थम् प्रवर्तते ।]
→ हु + हु + तस् [श्लौ 6.1.10 इति द्वित्वम्]
→ झु + हु + तस् [कुहोश्चुः 7.4.62 इति हकारस्य चुत्वे, हकारसदृशः संवार-नाद-घोष-महाप्राणः झकारः आदेशरूपेण विधीयते ।]
→ झुहुतः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15
→ जुहुतः [अभ्यासे चर्च 8.4.54 इति जश्त्वम्]
(3) प्रत्ययस्य लुपि कृते अङ्गकार्यनिषेधः —
'पञ्चालानाम् निवासः' इत्यस्मिन् अर्थे पञ्चाल-शब्दात् अण्-प्रत्यये कृते जनपदे लुप् 4.2.81 इत्यनेन तस्य लुप्-भवति । प्रत्ययस्य लुपि कृते, णित्-प्रत्ययनिमित्तकम् आदिवृद्धिकार्यम् अपि न लुमताङ्गस्य 1.1.63 इत्यनेन निषिध्यते । प्रक्रिया इयम् —
पञ्चालानाम् निवासः [तद्धितवृत्तिः]
→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् तस्य निवासः 4.2.69 इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति षष्ठीप्रत्ययस्य लोपः ।]
→ पञ्चाल [ जनपदे लुप् 4.2.81 इत्यनेन अण्-प्रत्ययस्य लुप् । अत्र प्रत्ययस्य लोपे जातेऽपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन णित्-प्रत्ययविशिष्टा आदिवृद्धिः तद्धितेष्वचामादेः 7.2.117 इत्यनेन प्राप्तायाम्, 'लुप्'संज्ञया कृतेन लोपविधानेने इदम वृद्धिसंज्ञकम् अङ्गकार्यम् न लुमताङ्गस्य 1.1.63 इति सूत्रेण निषिध्यते । अतः अत्र आदिवृद्धिः न भवति ।]
→ पञ्चाल
(अस्य पञ्चालशब्दस्य वाक्ये प्रयोगसमये लुपि युक्तवद्व्यक्तिवचने 1.2.51 इति सूत्रम् अनुसृत्य नित्यम् बहुवचनान्तः एव प्रयोगः करणीयः । यथा, पञ्चालाः जनपदः)
अस्मिन् सूत्रे 'लुमता' इति शब्दः प्रयुक्तः अस्ति । 'लुमत्' इति प्रातिपदिकस्य इदं तृतीयैकवचनम् । 'लुमत्' इति शब्दः स्वयम् 'लु अस्मिन् अस्ति' इति अर्थे 'लु'शब्दात् तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति सूत्रेण मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । अत्र 'लु' इति शब्दः लुक्/श्लु/लुप्-एतेषाम् त्रयाणाम् अपि विधीनाम् सामान्यरूपेण ग्रहणं करोति । एतेभ्यः त्रिभ्यः विधिभ्यः केनचित् एकेन विधिना यत्र लोपः सिद्ध्यति, तत्र प्रत्ययलक्षणम् अङ्गकार्यम् न करणीयम्, इति अत्र आशयः । परन्तु, यदि प्रत्ययस्य लोपः एतैः त्रिभिः प्रकारैः नैव भवति, अपितु केवलं 'लोप'शब्देनैव प्रत्ययस्य लोपः क्रियते, तर्हि तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति , इत्युक्ते तत्र प्रत्ययलक्षणम् अङ्गकार्यम् अवश्यमेव करणीयम् । यथा, शशिन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सूत्रेण लोपः भवति । अयम् लोपः केवलम् 'लोप'संज्ञया क्रियते, न हि लुक्/श्लु/लुप्-इति विशिष्टसंज्ञया । अतः अत्र प्रत्ययलोपे कृते अपि सौ च 6.4.13 इति अङ्गकार्यम् अवश्यम् प्रवर्तते । सम्पूर्णा प्रक्रिया इयम् —
शशिन् + सुँ
→ शशिन् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः ]
→ शशीन् [सौ च 6.4.13 इति सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अङ्गस्य उपधादीर्घः ।प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्राप्तम् इदम् अङ्गस्य कार्यम् न लुमताङ्गस्य 1.1.63 इत्यनेन नैव निषिध्यते, यतः अत्र प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इति शब्देन न क्रियते । ]
→ शशी [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
विशेषः - अत्र अस्यां प्रक्रियायाम् <ऽसर्वविधिभ्यो लोपविधिर्बलवान्ऽ> (व्याडिपरिभाषा-57, नागेशपरिभाषा-100) इति परिभाषाम् अनुसृत्य आदौ लोपकार्यं कृत्वा ततः अङ्गकार्यम् कृतम् अस्ति ।
अस्मिन्नेव सन्दर्भे काशिकायाम् 'कार्यते' इति अन्यद् उदाहरणम् दीयते । कृ-धातोः णिच्-प्रत्यये कृते ततः कर्मणि-लट्-प्रथमपुरुषैकवचनस्य रूपसिद्ध्यर्थम् यक्-प्रत्ययः स्थाप्यते चेत्, यक्-प्रत्ययस्य उपस्थितौ णिच्-प्रत्ययस्य णेरनिटि 6.4.51 इति लोपः सम्भवति । अस्मिन् लोपे कृते अपि, अचो ञ्णिति 7.2.115 इत्यनेन णिच्-प्रत्ययविशिष्टा वृद्धिः भवत्येव । सम्पूर्णा प्रक्रिया इयम् —
डुकृञ् (करणे, तनादिः)
→ कृ + णिच् [हेतुमति च 3.1.26 इति प्रेरणार्थे णिच्-प्रत्ययः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
→ कृ + इ [णकारचकारयोः इत्संज्ञा, लोपः । अत्र यद्यपि अचो ञ्णिति 7.2.115 इत्यनेन णिच्-प्रत्ययनिमित्तकम् अन्तरङ्गं वृद्धिकार्यम् अत्र प्राप्यते, तथापि अग्रे यः बहिरङ्गः यक्-प्रत्ययः विधास्यते, तेन णेरनिटि 6.4.51 इति णिच्-प्रत्ययस्य लोपः वक्ष्यते । एतादृशं विनाशोन्मुखं निमित्तं दृष्ट्वा अत्र <ऽअकृतव्यूहाः पाणिनीयाःऽ> इति परिभाषया आदौ एव वृद्धिकार्यम् न क्रियते । ]
→ कृ + इ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ कृ + इ + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि... 3.4.78 इति त-प्रत्ययः ।]
→ कृ + इ + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणप्रत्ययः]
→ कृ + य + त [अनिट्-आर्धधातुके प्रत्यये परे णेरनिटि 6.4.51 इति णि-प्रत्ययस्य लोपः]
→ कार् + य + त [प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययलक्षणा वृद्धिः भवत्येव । अत्र णि-प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इत्येतेषु केनचित् शब्देन नैव उच्यते, अपितु केवलम् लोपशब्देन दीयते, अतः अत्र न लुमताङ्गस्य 1.1.63 इत्यस्य प्रसक्तिरेव नास्ति ।]
→ कार् + य + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]
→ कार्यते
न लुमताङ्गस्य 1.1.63 इति सूत्रे 'अङ्गस्य' इति शब्दग्रहणेन एतत् स्पष्टी भवति यत् अनेन सूत्रेण उक्तः निषेधः केवलम् अङ्गकार्यस्य विषये एव प्रवर्तते, अन्यकार्याणाम् विषये न । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते अङ्गकार्यं विहाय अन्यानि प्रत्ययनिमित्तककार्याणि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन अवश्यं सम्भवन्ति । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम्, सुँ-प्रत्ययस्य लोपे कृतेऽपि सुप्तिङन्तं पदम् 1.4.14 इति सूत्रेण तल्लक्षणा पदसंज्ञा अवश्यं सम्भवति, अतएव नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन प्रक्रियायां नकारस्य लोपः अपि सम्भवति । सम्पूर्णा प्रक्रिया इयम् —
पञ्चन् + जस् [प्रथमाबहुवचनम्]
→ पञ्चन् [षड्भ्यो लुक् 7.1.22 इति सूत्रेण षट्-संज्ञकात् विहितात् पञ्चन्-शब्दात् परस्य सुँ-प्रत्ययस्य लुक्-भवति । प्रत्ययस्य लुकि कृते तन्निमित्तकम् अङ्गकार्यम् (यथा नपुंसकलिङ्गे सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति उपधादीर्घः इति) न लुमताङ्गस्य 1.1.63 इत्यनेन अवश्यं निषिध्यते । परन्तु अन्येषाम् कार्याणाम् अनेन सूत्रेण निषेधः नैव सम्भवति । अतएव जस्-प्रत्ययस्य लुकि कृतेऽपि जस्-प्रत्ययान्तशब्दस्य सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा अवश्यं भवति, अतश्च नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः अपि सम्भवति ।]
→ पञ्च
न लुमताङ्गस्य 1.1.63 इत्यमिन् सूत्रे विद्यमानस्य 'अङ्गस्य' इति शब्दस्य अर्थः 'अङ्गस्य कार्यम्' इति ग्रहीतव्यः, न हि 'अङ्गस्य 6.4.1 इत्यधिकारस्थं कार्यम्' इति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते — न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि ? यः असौ लुमता लुप्यते, तस्मिन् यद् अङ्गम्, तस्य यत् कार्यम्, तत् न भवति — इति । अस्य वाक्यस्य आशयः अयम् — यदा लुक्/श्लु/लुप्-संज्ञया प्रत्ययस्य लोपः क्रियते; तदा सः प्रत्ययः यस्मात् अङ्गात् विहितः, तस्य अङ्गस्य यत्किमपि कार्यम् लुप्तप्रत्ययनिमित्तकम् अस्ति, तत् अष्टाध्याय्याम् कुत्रापि पाठितम् अस्ति चेदपि निषिध्यते— इति । 'अङ्गस्य' इति शब्दस्य एतादृशस्य अर्थनिर्णस्य प्रयोजनम् अस्ति — अङ्गाधिकारात् बहिः पाठितानाम् केषाञ्चन स्वरकार्याणाम् अपि निषेधविधानम् — इति । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते, यथा अङ्गाधिकारस्थम् कार्यम् न लुमताङ्गस्य 1.1.63 इत्यनेन निषिध्यते, तथैव, षष्ठाध्यायस्य प्रथमपादे पाठितानां केषाञ्चन स्वरकार्याणामपि निषेधः भवेत् — इति अत्र आशयः अस्ति । यथा, 'गर्गस्य गोत्रापत्यानि' इत्यस्मिन् अर्थे गर्गशब्दात् गर्गादिभ्यो यञ् 4.1.105 इति सूत्रेण यञ्-प्रत्ययः, ततश्च बहुवचनस्य जस्-प्रत्ययः, इति द्वौ प्रत्ययौ भवतः । अत्र जस्-प्रत्यये परे यञ्-प्रत्ययस्य यञिञोश्च 4.1.101 इति लुक् भवति । अयं लुक् यदा क्रियते तदा यञ्-प्रत्ययस्य अङ्गम् 'गर्ग' इति अस्ति । अस्यां स्थितौ, अग्रे अस्य अङ्गस्य (तेन निर्मितस्य शब्दस्य) आदिस्वरस्य लुप्त-ञित्-प्रत्यये परे प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति नियमम् अनुसृत्य ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन अनिष्टम् उदात्तत्वं प्राप्यते । अस्य अनिष्ट-उदात्तत्वस्य निषेधं कारयितुम् भाष्यकारेण न लुमताङ्गस्य 1.1.63 इत्येव सूत्रम् उपयुक्तम् अस्ति । अत्र ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन प्राप्तं स्वरकार्यम् यद्यपि अङ्गाधिकारात् बहिः विद्यते, तर्ह्यपि अङ्गस्यैव कार्यरूपेण ग्रहीतव्यम्, इति निर्णयं कृत्वा न लुमताङ्गस्य 1.1.63 इत्यनेनैव इदम् उदात्तत्वं भाष्यकारैः प्रतिषिध्यते । अस्मिन् विषये इतोऽपि विस्तरेण ज्ञातुम् अस्यैव सूत्रस्य न्यासव्याख्यानम्, भाष्यम् वा द्रष्टव्यम् ।
नकारान्तनपुंसकलिङ्गस्य
index: 1.1.63 sutra: न लुमताङ्गस्य
न लुमताऽङ्गस्य - न लुमताङ्गस्य ।प्रत्ययलोपे प्रत्ययलक्षण॑मित्यनुवर्तते ।लु॑इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो सुप्शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः । तदाह — लुक्श्लु इत्यादिना । अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौसुप्तिङन्त॑मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात् । ततश्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवञ्च जसि लुका लुप्तेप्रत्ययलक्षणाऽभावाज्जसि चे॑ति गुणो न भवतीत्यभिप्रेत्योदाहरति — कतीति । प्रसङ्गादाह — अस्मदिति । त्रिष्विति । पुंस्त्रीनपुंसकेष्वित्यर्थः । सरूपा इति । समानानि रूपाणि येषामिति विग्रहः । लिङ्गविशेषबोधकटाबाद्यभावादिति भावः । नचैवं सतिअलिह्गे युष्मदस्मदी॑इतिसाम आक॑मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः । अत एवन षट्स्वरुआआदिभ्यः॑ इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते । अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन । अत एव चङे प्रथमयो॑रिति सूत्रे भाष्ये युष्मानित्यत्रतस्माच्छसो नः पुंसी॑त्युपन्यासः सङ्गच्छते । अत एव चनेतराच्छन्दसी॑ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते । इति दिक् । त्रिशब्दे विशेषमाह — त्रिशब्द इति । त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते ।
index: 1.1.63 sutra: न लुमताङ्गस्य
'लुमता' इति लुशब्दो यस्मिन्नस्ति स लुमानुलुगादिः संज्ञाशब्दः । करणे च तृतीया, लोपे च करणत्वम् । 'प्रत्ययलोपे' इत्यनुवृतेः लुमता शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न भवति । तत्र च प्रत्यासतेर्लुप्तप्रत्ययापेक्षया येनाङ्गसंज्ञा प्रतिलब्धा तस्य तन्निमितं कार्यं न भवतीस्यर्थः । एतदेव वस्तुतो दर्शयति - लुमता लुप्ते प्रत्यये यदङ्गमिति । तेनोत्क्रामेत्यत्र 'अतो हेः' इति लुकि कृते परस्मैपदापेक्षया ययङ्गंशबन्तं न तस्य दीर्घत्वम्, यस्य च दीर्घत्वं न तत्परस्मैपदापेक्षयाङ्गम् । किं तर्हि ? शबपेक्षयेति निषेधाभावात् प्रत्ययलक्षणेन 'क्रमः परस्मैपदेषु' इति दीर्घो भवति, तथा 'गमेरिट् परस्मैपदेषु' ङ वृद्भ्यश्चतुर्भ्यः' इटो विधिप्रतिप्रेधौ जिगमिष विवृत्सेति परस्मैपदलुक्यपि भवतः । लुमता लुप्ते परस्मैपदे यदङ्गं सनन्तं न तस्येटो विधिनिषेधौ, किं तर्हि ? सकारादेः प्रत्ययस्येति । इदं चान्यदस्मिन् ग्रन्थे दर्शितम्-नाङ्गस्येत्यनेनाङ्गाधिकारः प्रतिनिर्दिश्यते ङ लुमता लुप्ते प्रत्यये आङ्गं भवति' इति, किं तर्हि ? लुमता लुप्ते प्रत्यये यद्ङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति । तेन गर्गाः, बिदाः-यञञोर्लुक्, उष्ट्रग्रीवः-'इवे प्रतिकृतौ' इति कनः 'देवपथादिभ्यश्च' इति लुप्, पन्थाः प्रियोऽस्य पथिप्रियः - शुपोधातु' इति सर्वनामस्थानस्य लुक् । अत्र 'ञ्नित्यादिर्नित्यम्','पथिमथोः सर्वनामस्थाने' इति चाद्यौदातस्यानाङ्गस्यापि निषेधो भवति । सप्तमीनिर्द्देशाद्ध्येतद्वस्तुतोऽङ्गस्य कार्यम् । तथाऽहर्ददाति - 'रोः सुपि' इति रत्वप्रतिषेधो न भवति । यद्यनाङ्गमपि प्रतिषिध्यते, अवधि भवता दस्युः, आगायि भवता ग्रामः, अध्यगायि भवताऽनुवाकः; लुङ् पिरतोऽङ्गस्य विधीयमाना हनिणिङदेशाः 'चिणो लुक्' इति लुङे लुकि न स्युः । न लुङ् हिनिणिङदेशा विधीयन्ते, किं तर्हि ? लुङ् यिदार्धधातुकं तत्र । ततश्च लुङि यदङ्गं चिणन्तं न तस्य हनिणिङदेशाः, यस्य च ते न तल्लुक्यङ्गमिति निषेधाभावः । इह तर्हि 'मा हि दातां सर्पिरागच्छेत्' इति सिजामन्त्रितयोर्लुकि सति 'आदिः सिचोऽन्यतरस्याम्' 'आमन्त्रितस्य च' इति आद्यौदातत्वं न स्यात् ? नैतदङ्गस्य चिणन्तं कार्यम्, किं तर्हि ? तदन्तस्य; षष्ठीनिर्देशात् । तेन पयः सामेत्यादौ पदसंज्ञा च भविष्यति । ननु यद्यपि तदन्तस्याद्यौदातत्वम्, पदसंज्ञाऽपि, तथा लुप्ते इदानीं प्रत्यये वस्तुतोऽङ्गस्य प्राप्नुत इति भवितव्यं निषेधेन ? नात्र लुप्ते प्रत्यये यदङ्गस्य प्राप्तं तन्निषिध्यते, किं तर्हि ? अवस्थितेऽपि प्रत्यये यततः पूर्वस्याङ्गस्य कार्यं तन्निषिध्यते । वृक्षा मा हि लाबिष्टामित्यादौ च श्रूयमाणो प्रत्यये तदन्तस्यैव पदसंज्ञा स्वरश्चेति लुप्तेऽपि भविष्यतः । एवं च राज्ञः पुरुष इति श्रूयमाणे ङसि, ततः पूर्वस्य भसंज्ञा न तदन्तस्येति अङ्गकार्यत्वात् लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन प्राप्ताऽनेन निषिध्यते ॥ इह तर्हि अत्रेरपत्यानि 'इतश्चानिञः' इति ठकः 'अत्रिभृगु' इति लुकि कृते अत्रय इति तद्धितस्य 'कितः' इत्यन्तोदातत्वं स्यात्, तदन्तकार्यत्वात्, नैषदोषा; तद्धितस्यैवान्तोदातत्वम्, न तदन्तस्य । इह तर्हि सर्वः स्तोमो यस्य सर्वस्तोमः-शर्वस्य सुपि' इत्याद्यौदातत्वं न स्यात्, सुपीति सप्तमीनिर्द्देशात् ? कर्तव्योऽत्र यत्नः । यत्नश्च-सर्वस्य सुप इति षष्ठीनिर्द्देशः षष्ठीनिर्दशे तु तदन्तकार्यत्वात् सिच्स्वरवत् सिध्यति । ननु द्वयोरिप पक्षयोः-अभूवन्, प्रत्ययलक्षणेन जुस्प्राप्नोति, 'आतः' इति नियमान्न भविष्यति । इह तर्हि देवदतं याजयाञ्चकार - 'आमः' इति लुकं बाधित्वा परित्वातिबाधिषु कृतेषु तेषां च लुकि प्रत्ययलक्षणेन तिङ्न्तत्वादामन्तस्य च विधातः, ततः परस्यानिघातश्च प्राप्नोति, लेरित्यनुवृतेर्लावस्थायामेव लुग्भविष्यति । इह च देवदतो युष्मत्पुत्र इति षष्ठन्तस्य विधीयमानौ वांनानौ 'द्वितीयास्थायोः इति स्थग्रहणान्न भवतः । षष्ठीचतुर्थीद्वितीयास्ववस्थानं श्रूयमाणस्यैव सम्भवति । इह तर्हि परमवाचा, परमगौदुहा, परमलिहा, परमदण्डिना, परमदिवापरमकुमार्येति समासार्था या विभक्तिः, तामाश्रित्योतरपदस्य पदसंज्ञायां प्राप्तयाम्, 'चोः कुः', 'दादेर्धातोर्घः','हो ढः ', नलोपः प्रतिपदिकान्तस्य' 'दिव उत्','इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च' इति -एते विधयः प्राप्नुवन्ति नैष दोषः; भसंज्ञाविषये तावत्सैव पदसंज्ञां बाधिष्यते । ननु च समुदायस्य पदसंज्ञा स्वादिष्वति प्राप्ता सा तुल्याविधिकया भसंज्ञया बाध्यताम्, या तुतरपदस्य सुबन्तमिति प्राप्त सा कथं बाध्यते, भिन्नावधित्वात् ? एवं तर्हि शुप्तिङ्न्तम्' इत्यतः सुबन्तमित्यनुवर्तनीयम्, ततश्चायमर्थो भवति-'यजादावसर्वनामस्थाने परतः पूर्वस्समुदायो भसंज्ञो भवति । तत्र च समुदाये यत्सुबन्तं वर्तते तदपि भसंज्ञं भवति यजादावनन्तरे' इति । तत्र च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवयवस्य त्वन्वायशिष्टा । यत्र च सुबन्तं पश्यति तत्र तस्यापीति, तेन राज्ञ इत्यादौ सुबन्ताभावेऽपि भवति । सुबन्तसद्भावे तु तस्य समुदायस्य चेति विवेक्तव्यम् । सर्वनामस्थानेऽपि 'असर्वनामस्थाने' इति प्रतिषेधात् पदसंज्ञा न भविष्यति । ननु 'स्वादिषु' इति या प्राप्तिः समुदायस्य, तस्या एव स प्रतिषेधः, नेत्याह; तत्रापि सुबन्तमित्यनुवर्तते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्यात् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति नाश्रीयते; ततश्चायमर्थो भवति - शर्वनामस्थाने परतः पूर्वसय् समुदायसंय स्वादिष्विति प्राप्ता पदसंज्ञा न भवति । तत्र च यत्सुबन्तमवयवत्वेन वर्तते, तस्य सुबन्तस्य पदसंज्ञा न भवति' इति । यद्येवम्; सुवाक्, सुराजेति सावपि समुदायस्यावयवस्य च स्वादिष्विति वा सुबन्तमिति वा पदसंज्ञाया अभावात् कुत्वादि न स्यात् । एवं तर्हि 'असर्वनामस्थाने' इत्यत्र उतरसूत्राद्यचीत्यपकृष्यते, ततो यजादौ सर्वनामस्थाने या च यावती च पदसंज्ञा, सा सर्वा प्रतिषिध्यते; सौ तु स्वादिष्विति च सुबन्तमिति च भवत्येव । यद्येवम्, श्रूयमाणएऽपि सौ पूर्वस्य पदसंज्ञा प्राप्नोति, तत्र को दोषः ? 'एचोऽप्रगृह्यस्य' इत्यत्र पदान्तग्रहणं चोदयिष्यति-भद्रं करोषि गौरित्यत्र मा भूदिति । तत्र क्रियमाणेऽपि पदान्तग्रहणे प्लुतविकारः प्राप्नोति, नैष दोषः; वाक्यपदयोरन्त्यस्येत्येवमेतद्विज्ञायते, तदेवं समासेषूतरपदस्य पदत्वं नास्तीति स्थितम् । यद्येवम्, दधिसेचौ, दधिसेचः शात्पदाद्योः' इति षत्वनिषेधो न प्राप्नोति, नैवं विज्ञायते-पदस्यादिः पदादिः, पदादेर्नेति, कथं तर्हि ? पदादादिः पदादिः, दादेर्नेति । कथमग्निषु, वाक्षु, त्वक्षु ? सात्प्रतिषेधो ज्ञापयतिस्वादौ यत्पदं ततः परस्य नेति । अवश्यं च पदादादिरित्येवं विज्ञेयम्, अन्यथा 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः' इति यत्र सुबन्तमुतरपदं तत्र प्रतिषेधो न स्यात् । इह तर्हि बहुसेचौ, बहुसेचम्, बहुचोऽपदत्वात्, प्रतिषेधो न प्राप्नोति, वक्तव्यमेवैतत् 'बहुच्पूर्वस्य न' इति, तत्रायं सूत्रन्यासः-साते सः षत्वं न भवति, ततो 'बहुचः',बहुचः परस्य षत्वं न भवति; आदिग्रहणं न कर्तव्यम्, 'आदेः परस्य' इत्येव सिद्धम् । तदिदं बहुज्ग्रहणेन निमातव्यम् । कार्यते, हार्यते इति । ण्यन्तात्कर्मणि लकारः, यक्, णिलोपः । ननु चात्रान्तरङ्गा वृद्धिरुत्पन्नमात्र एव णौ भवति, लोपस्तु यकि भवन् बहिरङ्गः । एवं तर्हि विभज्यान्वाख्यानपक्षे एतत्प्रत्युदाहृतम् ॥