अचोऽन्त्यादि टि

1-1-64 अचः अन्त्यादि टि

Sampurna sutra

Up

अचः अन्त्यादि टि

Neelesh Sanskrit Brief

Up

शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तिमवर्णं यावत् विद्यमानस्य अंशस्य 'टि' इति संज्ञा भवति ।

Neelesh English Brief

Up

The fragment of a word starting from its last अच् letter till the end is called टि.

Kashika

Up

अच इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां संनिविष्टानां योऽन्त्योऽच्, तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचित् — इच्छब्दः। सोमसुत् — उच्छब्दः। आताम्, आथाम् — आम्शब्दः। पचेते। पचेथे। टिप्रदेशाः — <<टित आत्मनेपदानां टेरे>> ३.४.७९ इत्येवमादयः॥

Siddhanta Kaumudi

Up

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ।<!शकन्ध्वादिषु पररूपं वाच्यम् !> (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा ।<!सीमन्तः केशवेशे !> (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मार्तण्डः ।<!ओत्वोष्ठयोः समासे वा !> (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥

Laghu Siddhanta Kaumudi

Up

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। <<शकन्ध्वादिषु पररूपं वाच्यम्>> (वार्त्तिकम्) । तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'टि' इति संज्ञा । शब्दे विद्यमानेषु स्वरेषु यः अन्तिमः स्वरः, सः (तस्मिन्नेव शब्दे) यस्य आदिः, तस्य शब्दरूपस्य 'टि' इति संज्ञा प्रकृतसूत्रेण दीयते । शब्दे विद्यमानात् अन्तिमस्वरात् आरभ्य शब्दस्य अन्तपर्यन्तम् विद्यमानः अंशः 'टि' इति संज्ञया गृह्यते - इति आशयः । यथा — 1. 'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे यः अन्तिमः स्वरः, तस्मात् आरभ्य अन्तपर्यन्तम् यत् शब्दस्वरूपम्, तस्य टिसंज्ञा भवति । अत्र 'अ' इति अन्तिमः स्वरः, सः स्वयमेव शब्दस्य अन्ते विद्यते, अतः तस्यैव 'टि' इति संज्ञा भवति । 2. 'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र 'अ' इति अन्तिमः स्वरः । तस्मात् आरभ्य अन्तपर्यन्तम् विद्यमानम् शब्दस्वरूपम् 'अम्' इति । अतः अत्र 'अम्' इत्यस्य टिसंज्ञा भवति । टिसंज्ञायाः प्रयोजनम् टिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, डित्-प्रत्यये परे अङ्गस्य यः टिसंज्ञकः अंशः, तस्य <<टेः>> 6.4.143 इत्यनेन लोपः क्रियते । पङ्कज शब्दस्य सिद्धौ अस्य प्रयोगः कृतः दृश्यते — पङ्के अजायत [कृद्वृत्तिः] → जनीँ (प्रादुर्भावे, <{4.44}>) → पङ्के + जन् + ड [सुबन्त-उपपदस्य उपस्थितौ जन्-धातोः भूते ड-प्रत्ययः] →‌ पङ्के + जन् + अ [डकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → पङ्क + जन् + अ [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङि-प्रत्ययस्य लुक् ।] --> पङ्क + ज् + अ [डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य<<टेः>> 6.4.143 इत्यनेन लोपः भवति । अत्र 'जन्' इत्यस्य अङ्गस्य टिसंज्ञकम् 'अन्' इति अंशः, अतः अयम् सम्पूर्णः अंशः अत्र लुप्यते । --> पङ्कज सूत्रेषु टिसंज्ञायाः प्रयोगः अष्टाध्याय्यां टि-संज्ञायाः साक्षात् प्रयोगः अष्टसु सूत्रेषु कृतः अस्ति — 1. <<टित आत्मनेपदानां टेरे>> 3.4.79 2. <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> 5.3.71 3. <<विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये>> 6.3.92 4. <<टेः>> 6.4.143 5. <<टेः>> 6.4.155 6. <<भस्य टेर्लोपः>> 7.1.88 7. <<वाक्यस्य टेः प्लुत उदात्तः>> 8.2.82 8. <<प्रणवष्टेःप्रणवः टेः>> 8.2.89 अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

Balamanorama

Up

Padamanjari

Up

अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि 'णाविष्ठवत्' इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥