यञिञोश्च

4-1-101 यञिञोः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

index: 4.1.101 sutra: यञिञोश्च


'तस्य गोत्रे अपत्यम्' (इति) यञ्-इञोः फक्

Neelesh Sanskrit Brief

Up

index: 4.1.101 sutra: यञिञोश्च


युवापत्यस्य निर्देशार्थम् यञ्-प्रत्ययान्तशब्देभ्यः इञ्-प्रत्ययान्तशब्देभ्यः च फक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.1.101 sutra: यञिञोश्च


यञन्तातिञन्ताच् च प्रातिपदिकादपत्ये फक् प्रत्ययो भवति। गार्ग्यायणः। वात्स्यायनः। इञन्तात् दाक्षायणः। प्लाक्षायणः। द्वीपादनुसमुद्रं यञ् 4.3.10, सुतङ्गमादिभ्य इञ् 4.2.80 इत्यतो न भवति। गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येव अयं प्रत्ययः, गोत्राद् यूनि प्रत्ययो भवतीति वचनात्।

Siddhanta Kaumudi

Up

index: 4.1.101 sutra: यञिञोश्च


गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । अनाति इत्युक्तेः आपत्यस्य-<{SK1082}>इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.101 sutra: यञिञोश्च


गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥

Balamanorama

Up

index: 4.1.101 sutra: यञिञोश्च


यञिञोश्च - यञिञोश्च । 'गोत्रे' इत्यधिकृतं यञिञोर्विशेषणं, नतु विधेयस्य फकः, व्याख्यानात् । तदाह — गोत्रे यौ यञिञाविति । सामर्थ्याद्यून्ययम् । न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, 'एको गोत्रे' इति नियमात् । अनातीति । गर्गस्य गोत्रं गार्ग्यः । गर्गादित्वाद्यञ् । गाग्र्यस्यापत्यं युवेत्यर्थे यञन्तात्फकि आयन्नादेशअनाती॑ति पर्युदासात्आपत्यस्य चे॑ति यलोपाऽभावे णत्वे 'गाग्र्यायण' इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः । इञन्तात्फक् । गोत्रे किम् । सुतङ्गमस्यादूरभव इत्यर्थेसुतङ्गमादिभ्य इ॑ञितीञि सौतङ्गमेरपत्ये न फक् ।

Padamanjari

Up

index: 4.1.101 sutra: यञिञोश्च


गोत्रग्रहणेन यञिञौ विशेष्येतीति । गोत्रे यौ यञिञौ विहितावित्येवम् । न चैव प्रत्ययार्थस्यापत्यस्याविशेषितत्वादपत्यमात्रे प्रत्ययप्रसङ्ग इत्याह - तदन्ताद्यौउन्येवायं प्रत्यय इति । एवकारः पौनर्वचनिकः -न केवलं पूर्व एव प्रत्ययो यूनि भवति, यमपि यून्येवेति । कस्मात् ? इत्याह - गोत्राद्यौउनीति वचनादिति ॥