लुपि युक्तवद्व्यक्तिवचने

1-2-51 लुपि युक्तवत् व्यक्तिवचने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लुपीति लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थ उच्यते। तत्र लुपि युक्तवद् व्यक्तिवचने भवतः। युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते। स हि प्रत्ययार्थमात्मना युनक्ति। तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते। अथवा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन संबद्धस्तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः। सप्तम्यर्थे वतिः। व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशः, तदीयमेवेदं सूत्रम्। तथा चास्य प्रत्याख्यानं भविष्यति — <<तदशिष्यं संज्ञाप्रमाणत्वाद्>> (१.२.५३) इति। व्यक्तिः स्त्रीपुंनपुंसकानि, वचनमेकत्वद्वित्वबहुत्वानि। पञ्चालाः क्षत्रियाः पुँल्लिङ्गाः बहुवचनविषयाः। तेषां निवासो जनपदः, यथा तेषु क्षत्रियेषु व्यक्तिवचने, तद्वज्जनपदे भवतः। पञ्चालाः। कुरवः। मगधाः। मत्स्याः। अङ्गाः। वङ्गाः। सुह्माः। पुण्ड्राः। लुपीति किम्? लुकि मा भूत् — लवणः सूपः। लवणा यवागूः। लवणं शाकम्। व्यक्तिवचने इति किम्? शिरीषाणामदूरभवो ग्रामः शिरीषास्तस्य वनं शिरीषवनम्। <<विभाषौषधिवनस्पतिभ्यः>> (८.४.६) इति णत्वं न भवति॥ हरीतक्यादिषु व्यक्तिः॥ हरीतक्याःफलानि, हरीतक्यः फलानि॥ खलतिकादिषु वचनम्॥ खलतिकस्य पर्वतस्यादूरभवानि वनानि, खलतिकं वनानि॥

Siddhanta Kaumudi

Up

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥

Laghu Siddhanta Kaumudi

Up

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। अङ्गाः। वङ्गाः। कलिङ्गाः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लुपि युक्तवद्व्यक्तिवचने>> - लुपि यक्तवत् । प्रकृतिभूतः शब्दः=युक्तः, व्यक्तिः=लिङ्गं, वचनं=सङ्ख्येति पूर्वाचार्यसङ्केतः । तदाह — लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति ।लु॑बिति प्रत्ययाऽदर्शनमुच्यते । लुपः प्रवृत्तेः प्राक्प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । 'तस्य निवास' इति विहितस्याऽणःजनपदे लु॑बिति लुपि प्रकृतिबद्बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम्, अङ्गाना, वङ्गानां, कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तुकटिबदर्या अदूरभवो जनपदः कटुबदरी॑त्युदाहार्यम् ।

Padamanjari

Up

अभिधेयवल्लिङ्गवचनयोः प्राप्तयोरयमारम्भः । अभावरूपस्य लुपो लिङ्गसङ्ख्यातिदेशासम्भवादाह - लुपीति लुप्संज्ञेत्यादि । क्वचितु सप्तम्यन्तो लुप्शब्द उपादीयते तत्रापि प्रकृत्यर्थ एवाभिधातुमिष्टः । सप्तम्युपादानं तु सूत्रे पठितत्वाद्, यथा-मताविति मत्वर्थ उच्यत इति । युक्तवदिति निष्ठाप्रत्येनेत्यादि । अत्र हेतुमाह - स हीति । युनक्ति सम्बध्नाति । यद्यपि प्रत्ययार्थोऽपि प्रकृत्यर्थमात्मना युनक्ति, तथापि न तस्येह ग्रहणम्; आनर्थक्याद्, न हि तस्यैव लिङ्गसङ्ख्ये तस्यैव विधातव्ये । अथ वेत्यादि । पूर्वं ऽयुजिर्योगेऽ इत्यस्य क्तवत्वन्तस्य षष्ठीसमासो दर्शतः, इदानीं तु तस्यैव धातोः क्तान्तस्य वतिनिर्देशः, असमासश्चेति प्रदश्यते । युक्तः प्रकृत्यर्थ इति । अत्र हेतुः - प्रत्ययार्थेन सम्बद्ध इति । अस्मिन्नपि पक्षे पूर्ववदेव प्रत्ययार्थस्याग्रहणम् । सप्तम्यर्थे वतिरिति । ऽलुपिऽ इति प्रतियोगिनि सप्तमी निर्द्देशात् सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः । व्यक्तिशब्द आविर्भावादिकेऽप्यर्थे वर्तते । वचनशब्दोऽपि भीमसेनो भीम इतिवद्, एकवचनादिशब्दानां थएकदेशप्रयोगोऽपि सम्भाव्येत, तस्य च ग्रहणे ऽपञ्चालानां निवासःऽ इति वाक्यावस्थायां षष्ठीदर्शनातस्या एवातिदेशः स्यात्; कुरुपञ्चाला इति च द्वन्द्वे वाक्या वस्थायामतिदिष्टस्य वचनस्य लुकि समुदायाद् बहुवचनं न स्यात्, ततस्तत्सम्प्रत्ययो मा भूदित्याह - व्यक्तिवचने इति चेत्यादि । पूर्वाचार्यनिर्देशाश्रयणे कारणमाह -तदीयमेवेत्यादि । कुत इत्यत आह-तथा चेत्यादि । न हि स्वकृतमेव स्वयं प्रत्याचष्ट इति युक्तम्; ऽविषवृक्षोऽपि संवर्ध्य स्वयं छेतुमसाम्प्रतम्ऽ इति न्यायादिति भावः । पञ्चालाः क्षत्रिया इति । पञ्चालस्यापत्यानि बहूनि ऽजनपदशब्दात् क्षत्रियाद्ञ्ऽ ऽते तद्राजाःऽ, ऽतद्राजस्य बहुषुऽ । तेषां निवासो जनपद इति । अस्य वक्ष्यमाणेन ऽपञ्चालाःऽ इत्यनेन सम्बन्धः । ऽतस्य निवासऽ इत्यणः ऽजनपदे लुप्ऽ । कुरव इत्यादि । ऽकुरवः क्षत्रियाःऽ इत्यादिकं तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् । कुरुशब्दादपत्ये ऽकुरुनादिभ्यो ण्यःऽ मगधादिभ्यः ऽद्वयञ्मगधऽ इत्यण्, शेषं पूर्ववत् । लुपीति किमिति । तद्धितोऽनुवृतः साहचर्यादर्थमुपस्थापयिष्यतीति प्रश्नः । लुकि मा भूदिति । अन्यथा ऽतद्धितलुकिऽ इत्यनुवृतेस्तत्रैव स्यादिति भावः । लवणः सूप इति । ऽसंसृष्टेऽऽलवणाल्लुक्ऽ । व्यक्तिवचने इति किमिति । युक्तवदिति क्तान्ताद्वतिरेवाश्रयिष्यते, षष्ठीनिर्द्देशो वा करिष्यते इति मन्यते । शिरीषाणामदूरभाव इत्यादि । अरीहणादिषु वराहादिषु कुमुदादिषु शिरीषशब्दस्य पाठाद् वुञ्च्छणादिसूत्रेण वञादयोऽस्माद्भवन्ति, तेषां च विशेषविहितत्वाल्लुका न भवितव्यम्, सत्यम्; ऽऔत्सर्गिकोऽपि तत इष्यतेऽ इति वक्ष्यति, तस्य वरणादिदर्शनाल्लुप् । असति व्यक्तिवचनग्रहणे शिरीषेषु यद्वनस्पतित्वं तस्।यापि ग्रामेऽतिदेशः स्यात्, ततश्च णत्वं प्राप्नोति; णत्वविधौ विफली वनस्पतिरिति नाश्रीयते विशेषः । अत एव वृक्षवृतेर्णत्वं भवत्येव । शिरीषवनमिति । ननु च ग्रामेऽपि वर्तमानो गुणभूतं वनस्पतित्वमाहेति णत्वप्रसङ्गः, न चात्र किञ्चित्प्रधानाश्रयं कार्यमस्ति येन गुणः स्वकार्यं नारभेत । न च व्यक्तिवचनग्रहणस्य वैयर्थ्यम्, असति हि तस्मिन्प्रकृत्यर्थगतस्य व्यतिरेकस्याप्यतिदेशात् षष्ठी प्रसज्येत; सति तु तस्मिन् सङ्ख्यामात्रातिदएशे व्यतिरेकसहितायाः सङ्ख्याया अनतिदेशाद् ? नायं दोषः; एवं तर्हि णत्वविधौ प्रधानवनस्पतिग्रहणाद् अत्र तदभावः । हरीतक्यः फलानीति । हरीतकीशब्दाद् गौरादिङीषन्ताद् ऽअनुदातादेश्चऽ इत्यञः ऽहरीतक्यादिभ्यश्श्चऽ इति लुप् । अत्र व्यक्तिरेव युक्तवद्भवति, वचनं त्वभिधेयवदेव । खलतिकं वनानीति । खलतिकशब्दो वरणादिः, समासे उतर पदस्य बहुवचनस्य लुपो नियमार्थमेतद्-लुबर्थस्य बहुत्वातिदेशः समासे यदि भवति उतरपदस्यैवेति, मधुरापञ्चालाः; इह न भवति-पञ्चालमधुरे इति, बहुवचनस्येति वचनाद् । द्वित्वातिदेशः पूर्वपदस्यापि भवति-गोदौ च ग्रामः मधुरा च गोदमधुरा इति ॥