सुप्तिङन्तं पदम्

1-4-14 सुप्तिङन्तं पदम् आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

सुप्-तिङ्-अन्तम् पदम्

Neelesh Sanskrit Brief

Up

सुप्-प्रत्ययान्तशब्दाः तिङ्-प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति । यथा - रामः, अस्ति ।

Neelesh English Brief

Up

Any word ending in a सुप् प्रत्यय or a तिङ् प्रत्यय is called a पद.

Kashika

Up

सुप्तिङिति प्रत्याहारग्रहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पठन्ति। पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः — <<पदस्य>> ८.१.१६ <<पदात्>> ८.१.१७ इत्येवमादयः॥

Siddhanta Kaumudi

Up

सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यतः <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । सुप्-प्रत्ययान्तशब्दाः तिङ्प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति - इति अस्य सूत्रस्य अर्थः । 1. सुप्-प्रत्ययाः — <<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> 4.1.2 इति सूत्रे पाठिताः एकविंशतिः प्रत्ययाः सुप्-प्रत्ययाः नाम्ना ज्ञायन्ते । एते सर्वे प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण पदस्य निर्माणं भवति - इति प्रकृतसूत्रस्य प्रथमस्य अंशस्य आशयः । यथा - राम (प्रातिपदिकम्) + सुँ (प्रथमः सुप्-प्रत्ययः) = रामः (पदम्) । 2. तिङ्-प्रत्ययाः — <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् >> 3.4.78 इति सूत्रे पाठिताः अष्टादश प्रत्ययाः तिङ्-प्रत्ययाः नाम्ना ज्ञायन्ते । एते सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण अपि पदस्य निर्माणं भवति - इति प्रकृतसूत्रस्य द्वितीयस्य अंशस्य आशयः। यथा - अस् (धातुः) + तिप् (प्रथमः तिङ्-प्रत्ययः) = अस्ति (पदम्) । अपदं न प्रयुञ्जीत संस्कृतभाषायाम् वाक्येषु केवलं पदस्य एव प्रयोगः भवितुम् अर्हति । ये शब्दाः पदसंज्ञकाः न सन्ति, इत्युक्ते ये प्रातिपदिकसंज्ञकाः धातुसंज्ञकाः प्रत्ययसंज्ञकाः वा सन्ति, तेषां प्रयोगः वाक्ये नैव करणीयः - इति अस्य आशयः । इत्येतम् आशयं स्पष्टीकर्तुम् एव <<अपदं न प्रयुञ्जीत>> इति नियमः वैयाकरणैः उच्यते । यद्यपि अष्टाध्याय्यां पदसंज्ञाविधायकानि चत्वारि सूत्राणि सन्ति, तथापि <<अपदं न प्रयुञ्जीत>> इति नियमे प्रयुक्तः पदम् इति शब्दः केवलं प्रकृतसूत्रेण उक्तायाः पदसंज्ञायाः एव ग्रहणं करोति । इत्युक्ते, वाक्ये विद्यमानाः सर्वेऽपि शब्दाः प्रकृतसूत्रेण एव पदसंज्ञकाः भवेयुः - इति अत्र आशयः वर्तते । भिन्नानां व्याकरणनियमानां स्पष्टीकरणार्थं व्याकरणग्रन्थे विद्यमानेषु वाक्येषु धातोः / प्रातिपदिकस्य / प्रत्ययस्य निर्देशः तादृशः एव (इत्युक्ते, पदनिर्माणं विना) बहुत्र कृतः दृश्यते । अयं निर्देशः केवलं छात्राणां कृते, विषयस्य सुलभावगमनार्थं कृतः अस्ति इति ज्ञेयम् । पदाधिकारः पदसंज्ञां स्वीकृत्य अष्टाध्याय्यां <<पदस्य>> 8.1.16 इति अधिकारः प्रवर्तते । अस्मिन् अधिकारे विद्यमानानि कार्याणि पदस्य विषये एव भवन्ति - इति अस्य अधिकारस्य आशयः । यथा, <<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः विधीयते । यथा, विद्वस्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् - विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः ।] → विद्व् न् स् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → विद्वान् स् सुँ [<<सान्तमहतः संयोगस्य>> 6.4.10 इति नकारस्य उपधावर्णस्य दीर्घः] → विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सकारस्य लोपः] → विद्वान् स् [सकारस्य लोपे कृतेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं प्रवर्तते । अतः, <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन सुबन्तस्य विहिता पदसंज्ञा अत्र अवश्यं भवितुम् अर्हति ।] → विद्वान् [पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णः यः सकारः, तस्य <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन लोपः] <hl>सुप्तिङन्तम्</hl> इति शब्दः प्रकृतसूत्रे विद्यमान: सुप्तिङन्तम् इति शब्दः आदौ द्वन्द्वसमासेन ततश्च बहुव्रीहिसमासेन सिद्ध्यन्ति । तदित्थम् - सुप् च तिङ् च अनयोः समाहारः इत्यस्मिन् अर्थे समाहारद्वन्द्वसमासं कृत्वा सुप्तिङ् इति प्रातिपदिके सिद्धे, ततः सुप्तिङ् अन्ते यस्य इति बहुव्रीहिसमासेन सुप्तिङन्तम् इति शब्दः सिद्ध्यति । <<द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बद्ध्यते>> इति न्यायेन सुप्तिङन्तम् इत्यस्य अन्ते विद्यमानः अन्तम् इति शब्दः सुप् तथा तिङ् उभाभ्याम् सह पृथक् पृथक् अन्वेति । अतश्च, सुप् अन्ते यस्य (इत्युक्ते सुबन्तम्) तथा च तिङ् अन्ते यस्य (इत्युक्ते तिङन्तम्) - एतयोः द्वयोः अपि पदसंज्ञा भवति । सूत्रे अन्तग्रहणस्य प्रयोजनम् यदि प्रकृतसूत्रे अन्तम् इति शब्दः न स्यात्, तर्हि अपि सुप्तिङ् पदम् इति सूत्रे तदन्तविधिं स्वीकृत्य प्रायेण सुबन्तस्य, तिङन्तस्यैव पदसंज्ञा अभविष्यत् । परन्तु तथापि पाणिनिना प्रकृतसूत्रे अन्तम् इति शब्दस्य प्रयोगः कृतः अस्ति । अनेन एतत् स्पष्टी भवति यत् अत्र अन्तम् इति शब्दं विना तदन्तविधिः नैव भवितुम् अर्हति - इति । इत्युक्ते, यत्र प्रत्ययस्य आधारेण संज्ञायाः विधानं कृतम् अस्ति, तत्र तदन्तविधिः न प्रवर्तते - इति आशयः अत्र सूत्रकारेण अन्तग्रहणेन ज्ञापितः अस्ति । अयम् एव आशयः भाष्यकारेण <<संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति >> इति परिभाषया स्पष्टीकृतः अस्ति । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र अन्तशब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः अर्थः । अतएव, <<तरप्तमपौ घः>> 1.1.22 इति सूत्रेण उक्ता इति संज्ञा केवलं तरप्/तमप्-प्रत्यययोः भवति, न हि तरप्/तमप्-प्रत्ययान्तस्य शब्दस्य । यदि इयं संज्ञा तरप्/तमप्-प्रत्ययान्तस्य अभविष्यत्, तर्हि गौरी ब्राह्मणितरा अस्मिन् वाक्ये ब्राह्मणितरा इति अंशस्य घसंज्ञां कृत्वा <<घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः>> 6.3.43 इत्यनेन गौरी-शब्दस्य ह्रस्वादेशः अभविष्यत् । एवमेव, <<क्तक्तवतू निष्ठा>> 1.1.26 इति सूत्रेण विहिता निष्ठा इति संज्ञा अपि केवलं क्त/क्तवतु-प्रत्यययोः एव भवन्ति, न हि तदन्तस्य ।
केषुचन स्थलेषु अन्तग्रहणं विना अपि तदन्तस्य संज्ञा भवति । यथा, <<डति च>> 1.1.25 इति सूत्रे यद्यपि अन्तग्रहणं नास्ति तथापि अनेन सूत्रेण डति-प्रत्ययान्तशब्दस्य षट् इति संज्ञा भवति । एतादृशेषु स्थलेषु केवलप्रत्ययस्य संज्ञायाः प्रयोजनं नास्ति अतएव तदन्तग्रहणं क्रियते इति वैयाकरणैः स्पष्टीकृतं वर्तते । <hl>शक्तं पदम्</hl> इति तार्किकाः पदम् इति शब्दस्य शक्तं पदम् इति अपि काचित् व्याख्या दीयते । यस्मिन् शब्दे अर्थाभिधानस्य शक्तिः वर्तते, तत् शब्दस्वरूपम् पदसंज्ञकं भवति - इति अस्याः व्याख्यायाः आशयः । इमाम् एव व्याख्याम् उपयुज्य, शाब्दबोधे बहुत्र प्रत्ययानाम्, प्रातिपदिकानाम्, धातूनाम् अपि च निर्देशः, तेषां शक्तिग्राहकत्वात् पदम् इति संज्ञया एव कृतः दृश्यते ।

Balamanorama

Up

<<सुप्तिङन्तं पदम्>> - सुप्तिङन्तं पदम् । सुबिति स्वौजसमौङिति सूत्रे 'सु' इत्यारभ्या सुपः पकारेण प्रत्याहारो न तु सप्तमीबहुवचनस्यैवाऽत्र ग्रहणं, व्याख्यानात् । सुप्च तिङ् च सुप्तिङौ, तौ अन्ते यस्य तत् सुप्तिङन्तम् । शब्दरूपमिति शब्दशास्त्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्बध्यते । तदाह — सुबन्तमिति ।

Padamanjari

Up

सुप्तिङिति प्रत्याहारग्रहणमिति। सुबिति सप्तमीबहुवचनस्य ग्रहणं न भवति; यदि स्यात्, ङिसंबुद्ध्योः पदत्वाभावादेव नलोपस्याप्रसङ्गात्'न ङिसंबुद्ध्योः' इति प्रतिषेधोऽनर्थकः स्यादिति भावः। सप्तमीबहुवचनस्य च पकारेण प्रत्याहारो न कपः पकारेण; तस्याहारस्तदा स्वरविधावपि तथैवेति सुप्त्वादेव स्वरसिद्धेः पित्वमनर्थकमेव स्यात्। यदि च सुब्ग्रहणेषु कपः पकारेण प्रत्याहारोऽभिमतः स्यात्'सुप्यसर्वनामस्थाने' इत्येव ब्रूयात्,'स्वादिषु' इति गुरुनिर्देशोऽनर्थकः स्यात्। ब्राह्मणा इति। पदत्वाद्रुत्वविशर्जनीयौ। ननु यस्मात्प्रत्ययविधिस्तदादीत्यनुवृतस्य सुप्तिङ्भ्यां विशेषणादेव तदन्तस्य ग्रहणं सिद्धम्, नार्थोऽन्तग्रहणेन, तत्राह-पदसंज्ञायामिति। इहासत्यन्तग्रहणे सुप्तिङमेव संज्ञा स्यात्, ततश्चाग्निष्वित्यादौ'सात्पदाद्योः' इति षत्वनिषेधः स्यादित्याशङ्ग्य क्रियमाणमन्तग्रहणमुक्तस्यार्थस्य ज्ञापकं संपद्यते। गौरीब्राह्मणितरेति। तरबन्तस्य घसंज्ञायां सत्यां तत्रोतरपदे परतो गौरीशब्दस्य पुंवद्भावं बाधित्वा परत्वाद् ह्रस्वत्वं स्यात्। तरपि तु परतो ब्राह्मणीशब्दस्य न स्यात्; ततश्च गौरीब्राह्मणतरेति स्याद्, गौरब्राह्मणितरेति चेष्यते। वृतौ तु समासप्रदर्शनपरं वाक्यमुपातम्, न त्वेतत्कार्योदाहरणम्। गौरब्राह्मणितरेति समासे रूपम्॥