4-1-105 गर्गादिभ्यः यञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे
'तस्य गोत्रे अपत्यम्' (इति) गर्गादिभ्यः यञ्
गोत्रापत्यस्य निर्देशार्थम् गर्गादिगणस्य शब्देभ्यः यञ् प्रत्ययः भवति ।
गोत्र इत्येव। गर्गादिभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति। गार्ग्यः। वात्स्यः। मनुशब्दोऽत्र पठ्यते। तत्र कथं मानवी प्रजा? गोत्र इत्युच्यते। अपत्यसामान्ये भविष्यति। कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इति? गोत्ररूपाध्यारोपेण भविष्यति। अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशर इति॥ गर्ग। वत्स। वाजासे (ग०सू० ६८)। संकृति। अज। व्याघ्रपात्। विदभृत्। प्राचीनयोग। अगस्ति। पुलस्ति। रेभ। अग्निवेश। शङ्ख। शठ। धूम। अवट। चमस। धनंजय। मनस। वृक्ष। विश्वावसु। जनमान। लोहित। शंसित। बभ्रु। मण्डु। मक्षु। अलिगु। शङ्कु। लिगु। गुलु। मन्तु। जिगीषु। मनु। तन्तु। मनायी। भूत। कथक। कष। तण्ड। वतण्ड। कपि। कत। कुरुकत। अनडुह्। कण्व। शकल। गोकक्ष। अगस्त्य। कुण्डिनी। यज्ञवल्क। उभय। जात। विरोहित। वृषगण। रहूगण। शण्डिल। वण। कचुलुक। मुद्गल। मुसल। पराशर। जतूकर्ण। मन्त्रित। संहित। अश्मरथ। शर्कराक्ष। पूतिमाष। स्थूण। अररक। पिङ्गल। कृष्ण। गोलुन्द। उलूक। तितिक्ष। भिषज्। भडित। भण्डित। दल्भ। चिकित। देवहू। इन्द्रहू। एकलू। पिप्पलू। वृदग्नि। जमदग्नि। सुलोभिन्। उकत्थ। कुटीगु ॥
गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥
<<गर्गादिभ्यो यञ्>> - गर्गादिभ्यो यञ् । गाग्र्यो वात्स्य इति । गर्गस्य गोत्रपत्यमिति, वत्सस्य गोत्रापत्यमिति च विग्रहः ।रामो-जामदग्न्यः॑, 'पाराशर्यो व्यास' इत्यादौ त्वनन्तरापत्ये गोत्रात्वारोपाद्यञित्याहुः ।
अपत्यसामान्ये भविष्यतीति । अन्ये तु -'मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे - मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे । कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजा' से इति । वाजशब्दो यञमुत्पादयति, असेउअसमासे । समासे तु सौवाजिः,'ग्रहणवता प्रातिपदिकेन' इत्यस्यानित्यत्वज्ञापनार्थः - ठसेऽ इति प्रतिषेधः ॥