जुहोत्यादिभ्यः श्लुः

2-4-75 जुहोत्यादिभ्यः श्लुः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शबनुवर्तते, न यङ्। जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति। लुकि प्रकृते श्लुविधानं द्विर्वचनार्थम्। जुहोति। बिभर्ति। नेनेक्ति॥

Siddhanta Kaumudi

Up

{$ {!1083 हु!} दानादनयोः $}। आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥ शपः श्लुः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

{$ {! 1 हु !} दानादनयोः $} (धातुपाठे <{03.0001}>) ॥ शपः श्लुः स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जुहोत्यादिभ्यः श्लुः>> - जुहोत्यादिभ्यः श्लुः । शप इति । 'अदिप्रभृतिभ्यः' इत्यस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु तीति स्थिते श्लुः । शप इत ।अदिप्रभृतिभ्यः॑इत्यतस्दनुवृत्तेरिति भावः । हु अ स्थिते शपः श्लौ कृते हु तीति स्थिते —

Padamanjari

Up

जुहोत्यादिभ्यः श्लुः॥ शबनुवर्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृतौ हि श्लुना तत्र लुप्तेऽपि'सन्यङेः' इति षष्ठ।लश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति।'भृञामित्' इत्यभ्यासस्येत्वम्। नेनेक्तीति।'णिजिर्शौचपोषणयोः' 'णिजां त्रयाणां गुणः श्लौ' ॥