जनपदे लुप्

4-2-81 जनपदे लुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देशे तन्नाम्नीति यश्चातुरर्थिकः प्रत्ययो भवति, तस्य देशविशेषे जनपदेऽभिधेये लुब् भवति। ग्रामसमुदायो जनपदः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। मत्स्याः। अङ्गाः। वङ्गा। मगधाः। सुह्माः। पुण्ड्राः। इह कस्माद् न भवति — उदुम्बरा अस्मिन् सन्ति, औदुम्बरो जनपदः, वैदिशो जनपद इति ? तन्नाम्नीति वर्तते। न चात्र लुबन्तं तन्नामधेयं भवति॥

Siddhanta Kaumudi

Up

जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जनपदे लुप्>> - जनपदे लुप् । चातुरर्थिकस्येति । प्रकरणलभ्यमिदम् ।

Padamanjari

Up