अङ्गस्य

6-4-1 अङ्गस्य सम्प्रसारणस्य

Sampurna sutra

Up

अङ्गस्य

Neelesh Sanskrit Brief

Up

अस्मात् सूत्रात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् सर्वेषु सूत्रेषु 'अङ्गस्य' इति अध्याहारः कर्तव्यः ।

Neelesh English Brief

Up

In all the rules starting from this sutra till the end of the seventh chapter the word 'अङ्गस्य' should be included while interpreting the sutras.

Kashika

Up

अधिकारोऽयमा सप्तमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — <<हलः>> ६.४.२ — हूतः। जीनः। संवीतः। अङ्गस्येति किम्? निरुतम्। दुरुतम्। <<नामि>> ६.४.३ दीर्घः — अग्नीनाम्। वायूनाम्। अङ्गस्येति किम्? क्रिमिणां पश्य। पामनां पश्य। <<अतो भिस ऐस्>> ७.१.९ — वृक्षैः। प्लक्षैः। अङ्गस्येति किम्? ब्राह्मणभिस्सा। ओदनभिस्सिटा। अङ्गाधिकारः कृतोऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयतीति तदर्थम् अर्थवद्ग्रहणपरिभाषा (परि०१४) नाश्रयितव्या भवति। अङ्गस्येति संबन्धसामान्य एषा षष्ठी यथायोगं विशेषेष्ववतिष्ठते। अथवा प्रातिपदिकार्थमात्रमविवक्षितविभक्त्यर्थमधिक्रियते। तदुत्तरत्र यथायोगं विपरिणम्यते। ततोऽकारान्तादङ्गाद् भिस ऐसित्येवमाद्यपि सम्यक् संपन्नं भवति॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्र प्रयुक्तासु भिन्नासु संज्ञासु अन्यतमा अस्ति 'अङ्गम्' इति संज्ञा । <<यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्>> 1.4.13 अनेन सूत्रेण इयं संज्ञा दीयते । प्रक्रियायाम् अस्यैव अङ्गस्य यानि भिन्नानि परिवर्तनानि सम्भवन्ति, तेषाम् सर्वेषाम् सङ्कलनम् अस्मिन् अधिकारे कृतम् अस्ति । उदाहरणानि - 1) <<हलः>> 6.4.2 इत्यनेन उक्तः दीर्घादेशः अङ्गस्य दीर्घादेशः अस्ति । 2) <<ये च>> 6.4.109 इत्यनेन यकारादिप्रत्यये परे अङ्गस्य उकारस्य लोपः भवति । 3) <<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन नपुंसकस्य अङ्गस्य नुमागमः विधीयते । 4) <<णौ चङ्युपधाया ह्रस्वः>> 7.4.1 इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । आदयः । अङ्गात् परस्य प्रत्ययस्य कार्याणि अपि अस्मिन्नेव अधिकारे विद्यन्ते, अत्र अत्र बहुषु स्थलेषु (आवश्यकं चेत्) 'अङ्गस्य' इति षष्ठ्यन्तम् पदम् 'अङ्गात्' इति पञ्चम्या अपि विपरिणम्यते । यथा, <<युवोरनाकौ>> 7.1.1 इत्यनेन उक्तौ अन-अक-आदेशौ 'अङ्गात्' परः विद्यमानस्य प्रत्ययस्य भवतः, न हि अङ्गस्य । अतः तत्र 'अङ्गस्य' इति पदम् पञ्चम्या विपरिणम्यते ।

Balamanorama

Up

Padamanjari

Up

अधिकारोऽयमिति । स्वरितत्वात् । इह केचिन्मन्यन्ते - प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः । एवं हि गुणो यङ्लुकोः इत्यत्र लुग्प्रहणं न कर्तव्यं भवति, कथम् प्रत्ययलक्षणेनैव सिद्धम् । यदि त्वभ्यासविकारेऽप्ययमधिकारः स्यात्, ततोऽङ्गाधिकारविहितमिति न लुमताङ्गस्य इति प्रतिषेधः स्यादिति । वृत्तिकारस्तु मन्यते - यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्चेति वृश्चतेर्लिटि लिट।ल्भ्यासस्योभयेषाम् इति रेफस्य सम्प्रसारणे उरदत्वे हलादिशेर्षे च कृते वकारस्यापि सम्प्रसारणं प्राप्नोति, तस्य न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेध इष्यते, स न प्राप्नोति उरदत्वस्यासम्प्रसारणत्वात् । न च तस्य स्थानिवत्वम्, अपरनिमितत्वात् । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सत्युरदत्वं परिनिमितकं भवति, अङ्गेन स्वनिमितस्य प्रत्ययस्याक्षेपात् । यदष्युक्तम् - लुग्ग्रहणं न कर्तव्यं भवतीति, तदपि न न हि तत्राङ्गाधिकारविहितस्यैव प्रतिषेधः, कस्य तर्हि लुमता लुप्ते प्रत्यये वस्तुतो यदङ्गं तस्य पारप्तं यत्कार्यमाङ्गमनाङ्ग वा तस्य सर्वस्य प्रतिषेधः । तस्मादासप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारो युक्त इति । हूत इत्यादौ यजादित्वात्सम्प्रसारणम् । जीन इति । ग्रहिज्या इति सूत्रेण सम्प्रसारणम्, ल्वादिभ्यः इति निष्ठानत्वम् । निरुतम्, तुरुतमिति । घेञ् तन्तुसन्ताने, यजादिः, अत्राङ्गेऽनन्तर्भूतयोर्निर्दुरोरवयवौ यौ हलौ तदाश्रयं दीर्घत्वं न भवति । क्रिमिणामिति । क्रिमिपामन्शब्दाभ्यां मत्वर्थे पामादिभ्यो नः, पामनो नलोपः, स्त्रियां टाप्, द्वितीयैकवचनम् । अत्र नामिति समुदायस्याप्रत्ययत्वान्न तदपेक्षं पूर्वस्याङ्गत्वमिति नप्रत्ययापेक्षयाऽङ्गत्वेऽपि दीर्घत्वं न भवति, पामनामित्यत्र नलोपे कृतेऽजन्तत्वाद् दीर्घप्रसङ्गः । न च नलोपस्यासिद्धत्वम्, असुब्विधित्वात् । न ह्यस्यां दशायां दीर्घत्वं सुब्विधिर्भवति । अस्तु वाऽसिद्धत्वम्, नोपधायाः इति दीर्घत्वप्रसङ्गः । भिस्मा - ओदनः भिस्सदा- दिधि । ननु क्रिमिणामित्यत्र प्रत्ययस्यार्थवत्वेऽपि समुदायोऽनर्थकः, परस्परासम्बन्धात्, एवं भिस्साभिस्सदयोर्भिस्शब्दः, ततश्च अर्थवद्ग्रहणे नानर्थकस्य इत्येव न भविष्यति तत्राह - अङ्गा धिकार इत्यादि । सन्सम्प्रसारणदीर्घत्वैत्वतातङ्यिङ्वङ्नुरस्वत्वत्वे चाङ्गस्येत्यधिकारे प्रयोजनम् । सनि दीर्घः प्रयोजनम् - दधि सनोतीति दधिसेत्यत्र मा भूत् । सम्प्रसारणदीर्घत्वम् - निरुतम्, दुरुतभित्यत्र मा भूत् । एत्वम एर्लिङ् वान्यिस्य संयोगादेः निर्यायात्, निर्वायादित्यत्र मा भूत् । तातङ् - निपात्स्य तोर्मा भूत्, जीव तु त्वम् । इवणुवदृ - शयर्थम्, वर्थम् इत्यत्र मा भूत् । नुट् - ह्रस्वनद्यापो नुट्, कुमारी आमित्याहेत्यत्र मा भूत् । ह्रस्वत्वम् - केऽणः, कुमारी कस्मै स्पृहयति, कुमार्याः कं सुखं कुमारीकमित्यत्र मा भूत् । तत्वम् - अपो फिः अब्भार इत्यत्र मा भूदित्येवमर्थं कर्तव्योऽङ्गाधिकारः । सोऽन्यार्थः कृतो नामीत्यत्रापि दीर्घत्वं व्यवस्थापयति - अभिमते विषये नियमयति । अर्थवद्ग्रहणपरिभाषयेति । उपलक्षणमेतत् । अनने मुक्, प्राण इत्यत्र मा भूत्। अकृत्सार्वधातुकयोदीर्घः दधि यातमित्यत्र मा भूत् - इत्येवमर्थं लक्षणप्रतिपदोक्तपरिभाषा, नञिवयुक्तन्यायश्च नाश्रयितव्यो भवति । षष्ठी स्थानेयोगा इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च अतो भिस ऐस् इत्यत्रात इति पञ्चम्यन्तमङ्गस्येत्यस्य षष्ठ।ल्न्तस्य सामानाधिकरण्येन विशेषणं नोपपद्यते इत्यकारमात्रस्य ग्रहणात् ब्राह्मणभिस्सेत्यादावपि प्रसङ्गः । अवयवषष्ठ।लदीनां चाप्रसिद्धिः, ततश्च ऊदुपधायां गोहः अङ्गस्य इति स्थानषष्ठ।ल अन्त्येऽल्युपसंहाराद् गोहश्चान्त्यस्य स्यात्, उपधायाश्चेति वचनादुपधामात्रस्य च । एवं शास इदङ्हलोः इत्यादावपीत्याशङ्कायामाह - अङ्गस्येति सम्बन्धसामान्ये षष्ठीति । अयमभिप्रायः - अधिकारोऽयम्, स च परर्थः, षष्ठीस्थाने योगा इत्यपि परिभाषा परार्था, न च परार्थयोः परस्परं सम्बन्धोऽस्ति, यश्रोक्तम् - गुणानां च परार्थत्वादसम्बन्धः समात्वात्स्यात् इति, ततश्चाङ्गस्येति षष्ठी स्वभावप्रयुक्तं सम्बन्धसामान्यमेवार्थमभिधत इति । यथायोगमिति । यस्मिन्योगे यस्य सम्बन्धविशेषस्याभिव्यञ्जकमस्ति तस्मिन्योगे तत्रैव विशेषे पर्यवस्यतीत्यर्थः । एतद्यथा हन्तेर्जः त्यादिउ स्थानषष्ठी, ऊदुपधाया गोहः इत्यवयवषष्ठी, युवोरनाकौ इत्यादौ निमितनिमितिसम्बन्ध षष्ठी, लोकवत्, तद्यथा - लोके देवदतस्येत्यभेदेन प्रकृता षष्ठी- पुत्रः पाणिः कम्बल इति प्रतिसम्बन्धवशातत्रतत्र विशेषे पर्यवस्यति । अथ वेत्यादि । पूर्व विवक्षितोऽपि षष्ठ।ल्र्थः सामान्यरुप इत्युक्तम्, इदानी तु प्रयोगासाधुत्वायैव षष्ठयुच्चार्यते, न त्वर्थविवक्षयेत्युच्यते । अवश्यं च यया कयाचन विभक्तया निर्द्देष्टव्यम् । षष्ठ।ल्नुरोधस्तु बाहुल्येन तदर्थस्योपयोक्ष्यमाणत्वात् । यथायोगं विभक्तिषु विपरिणम्यत इति । लोकवदेव । तद्यया - उच्चानि देवदतस्य गृहाणि, आढ्यो वैधवेयो देवदतः, आमन्त्रयस्वैनं देवदतम्, किमनेन कृत्यं देवदतेनेति, तेन अतो भिस ऐस् इत्यत्र पञ्चम्या विपरिणामे सति अकारान्तदङ्गदित्ययमर्थे भवति । आदिशब्देन युष्मदस्मद्भ्यां ङ्सोऽश् इत्येवमादिर्गृह्यते । अपिशब्देनैतद्दर्शयति - न केवलं षष्ठ।ल्र्थ एव सस विशेषः सिध्यति, अपि तु पञ्चम्यर्थेऽपिति । पूर्वत्र तु पक्षे अतो भिस ऐस् इत्यत्र निमितनिमितिसम्बन्धे षष्ठी - अङ्गस्य निमितं यो भिस् । कश्चाङ्गस्य निमितम् यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति प्रत्यये ॥