6-1-197 ञ्निति आदि नित्यम् उदात्तः
ञ्निति आदिः नित्यमुदात्तः
ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति ।
The word ending in a ञित् or a नित् प्रत्यय become आद्युदात्त.
ञिति निति च नित्यमादिरुदात्तो भवति। <<गर्गादिभ्यो यञ्>> ४.१.१०५ — गार्ग्यः॑। वात्स्यः॑। <<वासुदेवार्जुनाभ्यां वुन्>> ४.३.९८ — वासु॑देवकः। अर्जु॑नकः। प्रत्ययस्वरापवादोऽयं योगः। प्रत्ययलक्षणमत्र नेष्यते, तेन ग॒र्गाः, बि॒दाः, च॒ञ्चा इत्यत्र यञि कनि च लुप्ते न भवति॥
ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च <{उ639}> इति चकारादसुनो नुडागमश्च ॥
यस्मिन् प्रत्यये ञकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'ञित्' प्रत्ययः अस्ति इत्युच्यते । तथैव, यस्मिन् प्रत्यये नकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'नित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः ञित्/नित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य आदि-स्वरः उदात्तसंज्ञकः भवति । यथा - 1. गर्ग + यञ् → गार्ग्य॑ । अत्र 'यञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 2. विद् + घञ् → वेदऺ । अत्र 'घञ्' प्रत्ययः ञित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 3. वासुदेव + वुन् → वासु॑देवक । अत्र 'वुन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । 4. धा + तृन् → धातृ॑ । अत्र 'तृन्' प्रत्ययः नित्-अस्ति, अतः समुदायस्य प्रथमस्वरः उदात्तः भवति । ज्ञातव्यम् - यदि कस्मिंश्चित् तद्धितप्रत्यये चकारञकारौ द्वावपि इत्संज्ञकौ स्तः, तर्हि अस्मिन् प्रत्ययस्य संयोगेन निर्मितस्य समुदायस्य वर्तमानसूत्रेण आद्युदात्तत्वे प्राप्ते, तं बाधित्वा <<तद्धितस्य>> 6.1.164 इत्यनेन एतादृशस्य शब्दस्य अन्तोदात्तत्वं विधीयते । यथा, <<गोत्रे कुञ्जादिभ्यः च्फञ्>> 4.1.98 इत्यनेन 'कुञ्ज' शब्दात् च्फञ्-प्रत्यये कृते 'कुञ्ज + च्फञ् → कौ॒ञ्जा॒य॒न' इति सिद्ध्यति । अत्र यद्यपि प्रत्ययः ञित्-अस्ति, तथापि प्रत्ययः चित्-अपि अस्ति, अतः वर्तमानसूत्रम् बाधित्वा <<तद्धितस्य>> 6.1.164 इत्यनेन अस्य शब्दस्य अन्तोदात्तत्वं विधीयते ।
प्रत्ययस्वरापवाद इति। बाहुल्यादेवमुक्तम्।'श्रोत्रियंश्च्छन्दो' धीतेऽ इत्, अत्र हि वाक्यार्थे पदवचनमित्यत्र पक्षे न प्रत्ययश्वरप्रसङ्गः । प्रत्ययलक्षणमत्र नेष्यत इति। ननु च'न लुमताङ्गस्य' इति प्रतिषेधादेव प्रत्ययलक्षणं न करिष्यते, किमुच्यते - प्रत्ययलक्षणमत्र नेष्यत इति ? एवमन्यतो ज्ञापितमेतत् -'स्वरविधौ सप्तम्यस्तदन्तसप्तम्यः' इति। ततश्च यथा पूर्वसूत्रे थलन्तं कार्यि; तथात्रापि ञ्निदन्तं न तु ततः पूर्वमङ्गमित्यनङ्गकार्यत्वात्प्रतिषेधो न सिद्ध्यतीति। यञि कनि चेति। चकाराद्बिदाद्यञि च ॥