7-2-110 यः सौ विभक्तौ इदमः
इदमः दः सौ यः
इदम्-शब्दस्य दकारस्य सुँ-प्रत्यये परे यकारादेशः भवति ।
The दकार of the word इदम् is converted to यकार when followed by the सुँ-प्रत्यय.
इदमो दकारस्य यकारादेशो भवति सौ परतः। इयम्। उत्तरसूत्रे पुंसीति वचनात् स्त्रियामयं यकारः॥
इदमो दस्य यः स्यात्सौ ॥ इदमो मः <{SK343}> इयम् । त्यदाद्यत्वं टाप् ।दश्च <{SK345}> इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः <{SK347}> । आभ्याम् 3 । आभिः । अस्यै । अस्याः 2 । अनयोः 2 । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः 2 । ऋत्विक् <{SK373}> आदिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन् <{SK277}> इति दीर्घः । आपः । अपः ॥
इदमो दस्य यः इयम्। त्यदाद्यत्वम्। पररूपत्वम्। टाप्। दश्चेति मः। इमे। इमाः। इमाम्। अनया। हलि लोपः। आभ्याम्। आभिः। अस्यै। अस्याः। अनयोः। आसाम्। अस्याम्। आसु॥ त्यदाद्यत्वम्। टाप्। स्या। त्ये। त्याः॥ एवं तद्, एतद्॥ वाक्, वाग्। वाचौ। वाग्भ्याम्। वाक्षु॥ अप्शब्दो नित्यं बहुवचनान्तः। अप्तृन्निति दीर्घः। आपः। अपः॥
प्रथमैकवचनस्य सुँ-प्रत्यये परे इदम्-शब्दस्य दकारस्य यकारादेशः जायते । यथा - इदम् + सुँ [स्त्रीलिङ्गे प्रथमैकवचनस्य प्रत्ययः] → इदम् + सुँ [<<त्यदादीनामः>> 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> 7.2.108 इति मकारस्य मकारः] → इयम् + सुँ [<<यः सौ>> 7.2.110 इत्यनेन दकारस्य यकारः] → इयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] स्मर्तव्यम् - वर्तमानसूत्रस्य प्रसक्तिः वस्तुतः केवलं स्त्रीलिङ्गस्य एकवचने एव दृश्यते । पुंलिङ्गनपुंसकलिङ्गयोः प्रक्रिये दृश्येते चेदिदं स्पष्टं स्यात् - 1. इदम् + सुँ [पुंलिङ्गे प्रथमैकवचनस्य प्रत्ययः] → इदम् + सुँ [<<त्यदादीनामः>> 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन <<इदमो मः>> 7.2.108 इति मकारस्य मकारः] → अयम् + सुँ [<<यः सौ>> 7.2.110 इत्यनेन दकारस्य यकारे प्राप्ते <<इदोऽयं पुँसि>> 7.2.111 इति 'इद्' इत्यस्य 'अय्' आदेशः ] → अयम् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] 2. इदम्-शब्दस्य नपुंसकलिङ्गवाचिनः अङ्गात् सुँ-प्रत्यये परे <<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक्-भवति, ततः <<न लुमताङ्गस्य>> 1.1.63 इत्यनेन अङ्गकार्यं निषिध्यते । अतः वर्तमानसूत्रस्य तत्र प्रसक्तिः नास्ति - इदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ] → इदम् [<<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुक्]
<<यः सौ>> - अथ इदम्शब्दस्य स्त्रीत्वे विशेषमाह-यः सौ । 'इदमो मः' इत्यत 'इदम' इत्यनुवर्तते, 'दश्चे॑त्यतोद' इति च षष्ठन्तमनुवर्तते । तदाह — इदमो दस्येति । पुंसि तु नेदं प्रवर्तते,इदोऽय्पुंसी॑ति विशिष्य विधेः । नापि क्लीबे, तस्य सोर्लुका लुप्तत्वात् । ततश्च परिशेषात्स्तिरायमेवेदम् । इयमिति । इदम् स् इति स्थिते, दकारस्य यत्वे, इयम् स् इति स्थिते, त्यदाद्यत्वं बाधित्वा 'इदमो मः' इति मकारस्य मकारे कृते, हल्ङ्यादिना सुलोप इति भावः । इदम्-औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । त्यदाद्यत्वे सति पररूपे, अदन्तत्वाट्टापिदश्चे॑ति दकारस्य मत्वे, इमा-औ इति स्थिते, 'औङ आपः' इति शीभावे, आद्गुणे 'इमे' इति रूपम् । इमा इति । जसि त्यदाद्यत्वं, पररूपम्, टाप्,दश्चे॑ति मः, पूर्वसवर्णदीर्घ इति भावः । अत्र विभक्तौ सत्यां त्यदाद्यत्वं, पररूपं, टाप् च सर्वत्र भवन्तीति बोध्यम् । 'इमाः' इत्यत्र इमा-अस् इति स्थिते पूर्वसवर्णदीर्घः ।जसः शी॑ति तु न, टापि कृतेऽदन्तात्परत्वाऽभावात् । इमामिति । अत्पररूपटाब्मत्वेषु कृतेषु 'अमि पूर्वः' इति भावः । इमे इति । औटि औवत् । इमा इति । अत्वपररूपटाब्मत्वेषु पूर्वसवर्णदीर्घः । स्त्रीत्वान्नत्वाऽभाव इति भावः । अनयेति । इदम्-आ इति स्थिते, अत्वं, पररूपम्, टाप्, 'अनाप्यकः' इति इदित्यस्य अनादेशः । अन्-आ इति स्थिते, 'आङि चापः' इत्येत्त्वे, अयादेश इति भावः । टाप्रभृत्यजादौ सर्वत्र अनादेश इति बोध्यम् । हलि लोप इति । भ्यामादौ हलि इदित्यस्य लोप इत्यर्थः । आभ्यामिति । इदम्-भ्यामिति स्थिते इदो लोपे, अत्वे, पररूपे, टापि च रूपमिति भावः । आभिरित्यप्येवम् । अस्यै इति । इदम् ए इति स्थिते, अत्वपररूपटाप्सु, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । 'अस्याः' इत्यप्येवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदम इदोऽनादेशे, अत्वपररूपटाप्सु, 'आहि चापः' इत्येत्वे अयादेश इति भावः । आसामिति । इदम आम् इति स्थिते, अतद्वपररूपटाप्सु, सुटि, इदो लोप इति भावः । अस्यामिति । इदम् इ इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । आस्विति । इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, ङेरामि, स्याडागमे, ह्रस्वत्वे, इदो लोप इति भावः । आस्विति । इदम्-सु इति स्थिते, अत्वपररूपटाप्सु, अत्वपररूपटाप्सु, इदो लोप इति भावः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्येन#आदेशे, टापि रमावद्रूपाणि इति भावः । इति मान्ताः । अथ जान्ताः । रुआज्शब्दं व्युत्पादयति — ऋत्विगिति । 'सृज विसर्गे' अस्मात्क्विन्, ऋकारात्परोऽमागमः, मकार इत्, ऋकारस्य यण् रेफः । रुआज्शब्दः स्त्रीलिङ्गः ।माल्यं मालारुआजौ मूध्न, इत्यमरः । रुआक्-रुआगिति । क्विन्प्रत्ययस्य कुः॑ इति कुत्वं, जश्त्वचर्त्त्वे इति भावः । इति जान्ताः । अथ दान्ताः । त्यद्शब्दस्य प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । विभक्तौ, अत्वे, पररूपे, टापि 'त्या' इति रूपम् । सर्वत्र ततः सर्वावद्रूपाणि । सौ तु 'तदोः सः सौ' इति तकारस्य सकार इति विशेषः । एवमिति । तद् यद् एतद् एतेभ्यो विभक्तौ अत्वपररूपटाप्सु सर्वावद्रूपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे 'आदेशप्रत्यययोः' इति षत्वमिति विशेषः । इति दान्ताः ।अथ चान्ताः । वागिति । वचेःक्विब्वची॑त्यादिना क्विप्स दीर्घश्च,वचिस्वपी॑ति सम्प्रसारणाऽभावश्च । वाचिति रूपम् ।सुलोपः, चोः कुः, जश्त्वचर्त्वे इति भावः । इति चान्ताः । अथ पान्ताः । अप्शब्द इति ।अप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति स्त्र्यधिकारे लिङ्गानुशासनसूत्रान्नित्यं बहुवचनान्तत्वं स्त्रीत्वं चेत्यर्थः । दीर्घ इति ।जसी॑ति शेषः । अप इति । 'अप्तृन्' इत्यत्रसर्वनामस्थाने चासम्बुद्धौ॑ इत्यनुवृत्तेः शसि न दीर्घ इति भावः ।
स्त्रियामयं यकार इति । नपुंसके तु स्वममोर्नपुंसकात् इति लुमता लुप्तत्वात् सोरभावः ॥