6-4-13 सौ च न उपधायाः असम्बुद्धौ इन्हन्पूषार्यम्णां
index: 6.4.13 sutra: सौ च
इन्-हन्-पूष-अर्यम्णामङ्गस्य असम्बुद्धौ सौ सर्वनामस्थाने च उपधायाः दीर्घः
index: 6.4.13 sutra: सौ च
इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य प्रथमा-एकवचनस्य सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अपि उपधादीर्घः भवति ।
index: 6.4.13 sutra: सौ च
For the words हन्, पूषन् and अर्यमन्, and for also the words that end in 'इन्', the उपधादीर्घ happens in case of the सुँ-प्रत्यय of प्रथमा-एकवचन.
index: 6.4.13 sutra: सौ च
सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णामुपधाया दीर्घो भवति। दण्डी। वृत्रहा। पूषा। अर्यमा। असम्बुद्धौ इति किम्? हे दण्डिन्। हे पूषन्। हे अर्यमन्।
index: 6.4.13 sutra: सौ च
इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे <{SK307}> इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥
index: 6.4.13 sutra: सौ च
इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥
index: 6.4.13 sutra: सौ च
हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा 'इन्' येषामन्ते अस्ति तादृशानाम् शब्दानाम् सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते इन्हन्पूषार्यम्णां शौ 6.4.9 इत्यनेन केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । वर्तमानसूत्रेण अयमुपधादीर्घः पुंलिङ्ग-स्त्रीलिङ्ग-शब्दानां विषये प्रथमा-एकवचनस्य सुँ-प्रत्यये परे अपि भवति ।
यथा - शशिन् + सुँ इत्यत्र प्रक्रिया इयमस्ति -
शशिन् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ शशिन् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ शशीन् [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणम् विधीयते । अतः सौ च 6।413 इत्यनेन अङ्गस्य उपधायाः दीर्घः प्रवर्तते ]
→ शशी [नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः]
तथैव हन्-शब्दस्य प्रथमैकवचनम् 'हा' इति भवति , पूषन्-शब्दस्य 'पूषा' इति भवति, तथा अर्यमन्-शब्दस्य 'अर्यमा' इति भवति । सर्वत्र उपधादीर्घः सौ च 6.4.13 इत्यनेन क्रियते ।
ज्ञातव्यम् -
<ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया अस्य सूत्रस्य प्रसक्तिः तेषां शब्दानां विषये अपि विद्यते येषामन्ते 'हन्', 'पूषन्' उत 'अर्यमन्' एते शब्दाः वर्तन्ते । यथा, 'वृत्रहन्', 'बहुपूषन्', 'बह्वर्यमन्' आदयः । अतः 'वृत्रहन् + सुँ → वृत्रहा' इति रूपं सिद्ध्यति ।
नपुंसकलिङ्गस्य प्रथमैकवचने अस्य सूत्रस्य प्रसक्तिः नास्ति यतः नपुंसकात् परस्य सुँ-प्रत्ययस्य सर्वनामस्थानसंज्ञा एव न भवति । यथा - दण्डिन् इति नकारान्त-नपुंसकलिङशब्दस्य प्रथमैकवचनम् 'दण्डि' इत्येव जायते ।
सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिर्नास्ति, केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव अस्य प्रसक्तिः अस्ति । यथा - शशिन् + सुँ = शशिन् - इत्यत्र उपधादीर्घः न भवति ।
index: 6.4.13 sutra: सौ च
सौ च - सौ च । पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तच्च । तदाह — इन्नादीनामिति । असम्बुद्धाविति ।सर्वनामस्थाने चे॑त्यतस्तदनुवृत्तेरिति भावः ।इन्हन्पूषे॑त्यस्यायमपवादः । हे वृत्रहन्निति ।असम्बुदधा॑वित्यनुवृत्तेर्न दीर्घः । भिन्नपदत्वादाह — एकाजिति । वृत्रहणावित्यादि । शावेवेति नियमान्न दीर्घः । शसादावचि अल्लोपे कृते- ।