रोऽसुपि
8-2-69 रः असुपि पदस्य पूर्वत्र असिद्धम् रुः अहन्
Sampurna sutra
Up
पदस्य अह्नः असुपि रः
Neelesh Sanskrit Brief
Up
अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति ।
Neelesh English Brief
Up
The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय.
Kashika
Up
अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपीति किम्? अहोभ्याम्। अहोभिः। ननु चात्रापि प्रत्ययलक्षणेन १.१.६२ सुबस्ति — अहर्ददाति, अहर्भुङ्क्त इति? नैतदस्ति। उक्तमेतत् — <<अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति>> (महाभाष्य १.१६६) इति नायमहः शब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घाहोऽत्र, दीर्घाहा निदाघ इति। अत्र हि <<हल्ङ्याब्भ्यः०>> ६.१.६८ इति लोपेन प्रत्ययस्य निवृत्तिः॥
Siddhanta Kaumudi
Up
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ।<!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ।<!अहरादीनां पत्यादिषु वा रेफः !> (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
Laghu Siddhanta Kaumudi
Up
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
Neelesh Sanskrit Detailed
Up
अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण र् इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र <<अहन्>> 8.2.68 इत्यनेन नकारस्य रुँत्वं भवति — इति अस्य सूत्रस्य आशयः ।
यद्यपि अस्मिन् सूत्रे असुपि इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
1. अहन्-शब्दस्य प्रथमैकवचनस्य अहः इति रूपम् इत्थं सिद्ध्यति —
अहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
2. अहर्निशम् इति शब्दस्य सिद्धौ अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण रेफादेशः भवति —
अहश्च निशा च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> 2.2.29 इति द्वन्द्वसमासः]
→ अहन् + सुँ + निशा + सुँ [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ अहन् + निशा [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति उभयोः सुप्-प्रत्यययोः लुक् । ]
→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति ह्रस्वादेशः]
→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्निश
3. अहः ददाति इत्यत्र संहितायाम् सत्याम् अहन् सुँ ददाति इत्यस्याम् स्थितौ सुँ-प्रत्ययस्य लुकि कृते प्रकृतसूत्रेण रेफादेशः भवति —
अहन् + सुँ + ददाति [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् ददाति [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्ददाति
अत्र यदि <<अहन्>> 8.2.68 इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् <<हशि च>> 6.1.114 इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।
प्रकृतसूत्रस्य सुप्-प्रत्ययस्य लुकि कृते प्रयोगः
यद्यपि अस्मिन् सूत्रे
असुपि इति निर्दिश्यते, तथापि अस्य सूत्रस्य सुबन्तप्रक्रियां विहाय अन्यानि उदाहरणानि नैव विद्यन्ते ! अतः, अस्य सूत्रस्य विधानसामर्थ्यात् सुबन्तप्रक्रियायाम् एव यत्र सुप्-प्रत्ययस्य
लुक् भवति, तत्र इदम् सूत्रम् उपयुज्यते । अस्य स्पष्टीकरणार्थम् अस्मिन् सूत्रे भाष्यकारः ब्रूते —
अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य यदा लुक् भवति, तदा <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति सूत्रं तत्र नैव प्रवर्तते, अतः लुप्त-प्रत्ययः तत्र नैव उपतिष्ठते — इति अस्य वाक्यस्य अर्थः । एतादृशं क्रियते चेदेव
असुपि इति शब्दस्य अर्थः सङ्गच्छते, इति अत्र भाष्यकारस्य आशयः अस्ति । अतः,
यत्र यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र तत्र प्रत्ययलक्षणं बाधित्वा, सुप्-प्रत्ययस्य अनुपस्थितिम् एव स्वीकृत्य असुपि इत्येव स्थितिं मत्वा प्रकृतसूत्रस्य प्रयोगः भवति ।
बाध्यबाधकभावः
प्रकृतसूत्रम् <<अहन्>>
8.2.68 इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, <<प्रत्ययलोपे प्रत्ययलक्षणम्>>
1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र
अहन्-शब्दस्य पदसंज्ञा निःसंशयं भवति । अस्यां स्थितौ पदान्तनकारस्य <<अहन्>>
8.2.68 इति सूत्रेण रुँत्वं प्राप्नोति । परन्तु एतादृशं रुँत्वं क्रियते चेत् <<रोऽसुपि>>
8.2.69 इति सूत्रम् अनवकाशं भवेत्, यतः <<रोऽसुपि>>
8.2.69 इति सूत्रस्य प्रयोगः केवलम् सुब्लुकि कृते एव दृश्यते । अतः <<रोऽसुपि>>
8.2.69 इति सूत्रस्य विधानसामर्थ्यात् इदं सूत्रम् <<अहन्>>
8.2.68 इत्यस्य अपवादरूपेण प्रवर्तते ।
यत्र प्रत्ययस्य
लोपः कृतः अस्ति, तत्र तु <<प्रत्ययलोपे प्रत्ययलक्षणम्>>
1.1.62 इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र
असुपि इति नैव सङ्गच्छते । अस्यां स्थितौ <<रोऽसुपि>>
8.2.69 इत्यस्यापि प्रयोगः न भवति, अतः
अहन् शब्दस्य पदान्तनकारस्य तत्र <<अहन्>>
8.2.68 इत्यनेन रुँत्वम् एव विधीयते ।
असुपि इति प्रसज्यप्रतिषेधः
अस्मिन् सूत्रे प्रयुक्तः असुपि इति निषेधः प्रसज्यप्रतिषेधः अस्ति । यदि अत्र
असुपि इति पर्युदासः स्यात्, तर्हि अग्रे सुप्-भिन्न-
प्रत्ययम् अपेक्ष्यमाणम् इदं सूत्रम्
अहर्निशम्,
अहर्ददाति इत्यादिषु स्थलेषु नैव प्रसज्येत ।
वार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>
अहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि <<रोऽसुपि>>
8.2.69 इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः <<अहन>>
8.2.68 इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति ।
रुप,
रात्रि,
रथ — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य
अहन्-शब्दस्य रेफस्य <<रोऽसुपि>>
8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —
1. रूप-शब्दे परे —
अह्नः रूपम् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रूप [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रुप [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रुप [<<हशि च>> 6.1.114 इति उकारः]
→ अहोरुप [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
2. रात्रि-शब्दे परे —
गतम् अहः, रात्रिः एषा (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —
गतम् (अहन् + सुँ), रात्रिः एषा
→ गतम् (अहन् + ०), रात्रिः एषा [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् भवति ।]
→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् ।]
→ गतम् अह उ + रात्रिः एषा [<<हशि च>> 6.1.114 इति उत्वम्]
→ गतम् अहोरात्रिः एषा [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
अहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —
अहः च रात्रिः च एतयोः समाहारः [<<चार्थे द्वन्द्वः>> 2.2.8 इति द्वन्द्वसमासः]
→ अहन् + रात्रि + अच् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक् । <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> 5.4.87 इति समासान्तः अच्-प्रत्ययः]
→ अहन् + रात् र् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः]
→ अहरुँ + रात्र [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् । अत्र <<एकदेशविकृतमनन्यवत्>> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]
→ अहउ + रात्र [<<हशि च>> 6.1.114 इति उकारः]
→ अहो + रात्र [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
→ अहोरात्र
3. रथन्तर-शब्दे परे —
अह्नः रथन्तरम् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रथन्तर [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रथन्तर [सुब्लुकि <<रोऽसुपि>> 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रथन्तर [<<हशि च>> 6.1.114 इति उकारः]
→ अहोरथन्तर [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
केचन वैयाकरणाः अत्र सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते । इत्युक्ते, तेषाम् मतेन केवलम्
रूप,
रात्रि,
रथन्तर इत्येव न अपि तु
रम्य,
रत्न,
राजन् इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य <<रोऽसुपि>>
8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन
अहोरम्यम्,
अहोरत्नानि,
अहोराजः इत्येतानि रूपाणि सिद्ध्यन्ति ।
ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु <<रोऽसुपि>>
8.2.69 इत्यनेन रेफादेशे कृते, ततः <<रो रि>>
8.3.14 इति रेफलोपे, ततः च <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>>
6.3.111 इति दीर्घादेशे कृते
अहारम्यम्,
अहारत्नानि,
अहाराजः इत्येतानि रूपाणि एव उचितानि ज्ञेयानि । यथा —
अह्नः रत्नम् [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रत्न [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अहर् + रत्न [अहन्-शब्दस्य पदान्तनकारस्य <<रोऽसुपि>> 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते <<अहन्>> 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा <<रोऽसुपि>> 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अह + रत्न [<<रो रि>> 8.3.14 इति रेफे परे रेफस्य लोपः]
→ अहारत्न [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 इति रेफलोपः]
वार्त्तिकम् - <!अहरादीनां पत्यादिषु वा रेफः !>
सिद्धान्तकौमुद्याः प्रकृतसूत्रस्य व्याख्याने <!अहरादीनां पत्यादिषु वा रेफः !> इति अन्यत् वार्तिकम् अपि पाठितं दृश्यते । वस्तुतस्तु इदं वार्त्तिकं <<खरवसानयोर्विसर्जनीयः>>
8.3.37 इति सूत्रस्य विषये अस्ति, परन्तु अस्मिन् वार्त्तिके
अहरादिगणः निर्दिष्टः अस्ति अतः कौमुद्याम् इदं वार्त्तिकम् अत्रैव पाठितं वर्तते । काशिकाकारेण इदमेव वार्त्तिकम् <<अम्नरूधरवरित्युभयथा छन्दसि>>
8.2.70 इति अग्रिमे सूत्रे पाठितम् अस्ति ।
अहरादिगणस्य शब्दानां पत्यादिगणस्य शब्दैः सह समासे कृते प्रक्रियायाम् रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे प्राप्ते तद्बाधित्वा रेफस्य विकल्पेन रेफादेशः एव भवति — इति अस्य वार्त्तिकस्य अर्थः ।
अहरादिगणः अयम् — अहर्, गिर्, धुर्
पत्यादिगणः अयम् — पति, पुत्र
रुपाणि एतादृशानि —
1. अह्नः पतिः तथा च अह्नः पुत्रः इति उभयत्र षष्ठीसमासे कृते, प्रक्रियायाम् <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुकि, अहन्-शब्दस्य नकारस्य <<रोऽसुपि>> इत्यनेन रेफे, ततः <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशे प्राप्ते तद्बाधित्वा <!अहरादीनां पत्यादिषु वा रेफः !> इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, येन अहर्पतिः, अहर्पुत्रः इति रूपद्वयं सिद्ध्यति । पक्षे रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशे कृते, ततः <<कुप्वोः ≍क≍पौ च>> 8.3.37 इति विकल्पेन उपध्मानीये कृते अहःपतिः, अह≍पतिः, अहःपुत्रः, अह≍पुत्रः इति रूपाणि अपि सिद्ध्यन्ति ।
2. गिर् +पतिः, गिर् +पुत्रः, धुर् +पतिः, धुर् +पुत्रः इति चतुर्षु उदाहरणेषु तु रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशे प्राप्ते तद्बाधित्वा <!अहरादीनां पत्यादिषु वा रेफः !> इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, ततः <<र्वोरुपधाया दीर्घ इकः>> 8.2.76 इत्यनेन इक्-वर्णस्य दीर्घे कृते गीर्पतिः, गीर्पुत्रः, धूर्पतिः, धूर्पुत्रः इति रूपाणि सिद्ध्यन्ति । रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशे कृते, ततः <<कुप्वोः ≍क≍पौ च>> 8.3.37 इति विकल्पेन उपध्मानीये कृते गीःपतिः, गी≍पतिः, गीःपुत्रः, गी≍पुत्रः, तथा च धूःपतिः, धू≍पतिः, धूःपुत्रः, धू≍पुत्रः इति रूपाणि अपि सिद्ध्यन्ति ।
गीःपतिः, गीःपुत्रः , धूःपतिः , धूःपुत्रः एतेषु स्थलेषु <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इति सूत्रं नैव प्रवर्तते, यतः तस्मिन् सूत्रे तपरकरणेन केवलं ह्रस्वस्वरस्यैव ग्रहणं भवति, दीर्घस्वरस्य न ।
भोजव्याकरणे, चान्द्रव्याकरणे अस्य सूत्रस्य भिन्नरूपेण उपस्थापनम्
भोजस्य सरस्वतिकण्ठाभरणम् इत्याख्ये व्याकरणे इदम् सूत्रम् <<लुक्यरेफे रः>> (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः चान्द्रव्याकरणे अपि इदं सूत्रम् <<लुक्यरि रः>> (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि असुपि इति शब्दस्य स्थाने लुकि इति स्पष्टः निर्देशः कृतः वर्तते । प्रकृतसूत्रम् सुब्लुकि एव भवति, अतः अस्मिन् सूत्रे असुपि इत्यस्य स्थाने लुकि इत्येव सुवचं स्यात् — इति अत्र आशयः । अपि च, एतयोः स्थलयोः अ-रेफे / अ-रि इति ग्रहणेन एतद अपि स्पष्टी भवति यत् एतयोः वैयाकरणयोः मतेन सर्वेषु अपि रेफादौ शब्देषु प्रकृतसूत्रेण प्राप्तं रेफादेशं बाधित्वा <<अहन्>> 8.2.68 इत्यनेन रुत्वम् एव प्रवर्तते । वार्त्तिककारेण तु एतादृशम् रुत्वम् केवलम् रुप, रात्रि, रथन्तर इत्येतेषु परेषु एव विज्ञापितम् अस्ति ।
Balamanorama
Up
<<रोऽसुपि>> - रोऽसुपि । रः-असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । 'अह' न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, 'अहोरात्र' इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'र्वोरुपधाया' इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।
Padamanjari
Up
पूर्वस्यायमपवादः । रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा'न लुमताङ्गस्य' इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥