टित आत्मनेपदानां टेरे

3-4-79 टित आत्मनेपदानां टेः ए प्रत्ययः परः च आद्युदात्तः च धातोः लस्य

Sampurna sutra

Up

टितः लस्य आत्मनेपदानाम् टेः ए

Neelesh Sanskrit Brief

Up

टित्-लकाराणाम् विषये आत्मनेपदस्य प्रत्ययस्य टि-संज्ञकस्य ए-आदेशः भवति ।

Neelesh English Brief

Up

In case of टित्-लकारs, the 'टि' of the आत्मनेपद प्रत्ययs is converted to 'ए'.

Kashika

Up

टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति। तथा चैवोदाहृतम्। इह कस्माद् न भवति — पचमानो यजमानः? प्रकृतैस्तिबादिभिरात्मनेपदानि विशेष्यन्ते॥

Siddhanta Kaumudi

Up

टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥

Laghu Siddhanta Kaumudi

Up

॥ अथ आत्मनेपदिनः ॥ {$ {! 1 एध !} वृद्धौ $} (धातुपाठे <{01.0002}>) ॥ टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥

Neelesh Sanskrit Detailed

Up

येषाम् लकाराणाम् नाम्नि इत्संज्ञकः टकारः आगच्छति, ते टित्-लकाराः । एते षट् सन्ति - लट्, लिट्, लुट्, लृट्, लेट्, लोट् । एतेषाम् लकाराणाम् ये आत्मनेपदस्य प्रत्ययाः सन्ति, तेषां टि-संज्ञकस्य वर्तमानसूत्रेण एकारादेशः भवति । यथा - 1. वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - वन्द् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → वन्द् + त [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः] → वन्द् + शप् + त [<<कर्तरि शप्>> 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ] → वन्द् + अ + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन त-प्रत्ययस्य यः टिसंज्ञकः अकारः तस्य एकारादेशः] → वन्दते । 2. लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् - लभ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → लभ् + इट् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् 'इट्' प्रत्ययः] → लभ् + शप् + इ [<<कर्तरि शप्>> 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ] → लभ् + अ + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन इ-प्रत्ययस्य यः टिसंज्ञकः इकारः तस्य एकारादेशः] → लभे [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] 3. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [<<परोक्षे लिट्>>3.2.115 इति लिट्] → पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → प पच् + लिट् [<<हलादि शेषः>> 7.4.60 इति चकारस्य लोपः] → प पच् + आताम् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-द्विवचनस्य विवक्षायाम् 'आताम्' प्रत्ययः] → पेच् + आताम् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेच् + आते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन आताम्-प्रत्ययस्य यः टिसंज्ञकः 'आम्', तस्य एकारादेशः] → पेचाते

Balamanorama

Up

<<टित आत्मनेपदानां {टे}रे>> - टित आत्म । टेः - ए इति च्छेदः । लस्येत्यधिकृतं । तदाह — टितो लस्येति ।आदेशाना॑मिति शेषः । अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशेटित आत्मनेपदाना॑मिति आम एत्वे, शपि एध — आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह — सार्वधातुकमपित् । 'गाङ्कुटादिभ्य' इत्यतो ङिदित्यनुवर्तते । अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते । तदाह — ङिद्वदिति ।

Padamanjari

Up

टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति - तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः'पूङ्यजोः शानन्' तस्यायं निर्देशः स्याद् - वयमानः, यजमान इति ॥