7-1-22 षड्भ्यः लुक् जश्शसोः
षड्भ्यः अङ्गात् जश्-शसोः लुक्
षट्-संज्ञकात् अङ्गात् परस्य जस्/शस्-प्रत्यययोः लुक् भवति ।
The जस्/शस्-प्रत्यय following a षट्-संज्ञक अङ्ग are removed.
षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। परमषट्। उत्तमषट्। यत्र तूपसर्जनं षट् ततो न भवति — प्रियषषः, प्रियपञ्चान इति॥
षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥
जश्शसोः॥
षट्-इयम् संज्ञा द्वाभ्याम् सूत्राभ्याम् दीयते - 1. <<ष्णान्ता षट्>> 1.1.24 इत्यनेन षकारान्ताः नकारान्ताः च संख्यावाचिनः शब्दाः षट्-संज्ञकाः भवन्ति । यथा - पञ्चन्, षष् सप्तन्, अष्टन्, नवन्, दशन्, एकादशन् - आदयः । 2. <<डति च>> 1.1.25 इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । यथा - कति । एतेभ्यः परस्य जस्-शस्-प्रत्यययोः वर्तमानसूत्रेण 'लुक्' भवति । लुक्-इत्युक्ते प्रत्ययस्य लोपः । यथा 1. पञ्चन् + जस् / शस् → पञ्चन् [<<षड्भ्यो लुक्>> 7.1.22 इति लुक्] → पञ्च [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन पञ्च-शब्दस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा । <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः ।] एवमेव सप्तन्, नवन्, दशम् एतेषामपि प्रक्रिया भवति । 2. षष् + जस् / शस् → षष् [<<षड्भ्यो लुक्>> 7.1.22 इति लुक्] → षड् [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्] → षड्, षट् [<<खरि च>> 8.4.55 इति वैकल्पिकं चर्त्वम्] 3. अष्टन् + जस् / शस् → अष्ट + जस् / शस् [<<अष्टनः आ विभक्तौ>> 7.2.84 इत्यनेन अष्ट-शब्दस्य वैकल्पिकः आकारादेशः न भवति ।] → अष्टन् [<<षड्भ्यो लुक्>> 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्] → अष्ट [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] यदि अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति, तर्हि <<षड्भ्यो लुक्>> 7.1.22 इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन <<अष्टाभ्य औश्>> 7.1.21 इति औश्-आदेशः भवति । अग्रे वृद्धि-एकादेशं कृत्वा 'अष्टौ' इति रूपं सिद्ध्यति । ज्ञातव्यम् - अस्मिन् सूत्रे जस्/शस्-प्रत्यययोः लोपः 'लुक्' नाम्ना कृतः अस्ति । 'लुक्' इत्यस्य प्रयोगस्य प्रयोजनमस्ति लुप्तप्रत्ययेन निर्दिष्टस्य अङ्गकार्यस्य <<न लुमताङ्गस्य>> 1.1.63 इति प्रतिषेधः । यथा, नपुंसकलिङ्गस्य विषये <<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन सामान्यरूपेण नकारान्तस्य अङ्गस्य यः उपधादीर्घः विधीयते, तादृशं अङ्गकार्यमत्र न भवति ।
<<षड्भ्यो लुक्>> - षड्भ्यो लुक् । जस्शसोरित्यनुवर्तते । तदाह — षड्भ्यः परयोरित्यादिना ।
षट्प्रधानादिति । षट्संज्ञकानामर्थः प्रधानं यत्र तस्मादित्यर्थः । प्रियषष इति । अन्यपदार्थप्रधानोऽयं बहुव्रीहिः, सर्वनामसंख्ययोरुपसंख्यानम् इति षषः पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥