8-2-32 दादेः धातोः घः पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः
दादेः धातोः हः घः झलि पदस्य अन्ते
दकारादि-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे घकारादेशः भवति ।
A हकार occurring at end of a दकारादि-धातु is converted to a घकार at पदान्त or when followed by a झल् letter.
दकारादेर्धातोर्हकारस्य घकारादेशो भवति झलि परतः पदान्ते च। दग्धा। दग्धुम्। दग्धव्यम्। काष्ठधक् । दोग्धा। दोग्धुम्। दोग्धव्यम्। गोधुक् । दादेरिति किम् ? लेढा ? लेढुम्। लेढव्यम्। गुडलिट्। धातोरिति दादिसमानाधिकरणमेतद् न। किं तर्हि? तद्विशेषणमवयवषष्ठ्यन्तम् — धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्येति। किं कृतं भवति? अधोगित्यत्रापि घकारः सिद्धो भवति। कथं दोग्धा, दोग्धुमिति? व्यपदेशिवद्भावात्। अथवा धातूपदेशे यो दादिरित्येवं विज्ञायते। तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययो दामलिडित्यत्रापि न भवति॥
उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥
झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः॥
<<हो ढः>> 8.2.31 इत्यनेन हकारस्य पदान्ते / झलि परे ढकारः विधीयते । परन्तु यदि सः हकारः दकारादि-धातोः अवयवः अस्ति तर्हि तस्य पदान्ते झलि परे च ढकारस्य अपवादत्वेन वर्तमानसूत्रेण घकारादेशः भवति । यथा - 1. दुह्-धातोः क्विप्-प्रत्यये कृते उत्पन्नस्य प्रातिपदिकस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दुह् + क्विप् [<<क्विप् च>> 3.2.76 इति क्विप्] → दुह् + व् [इत्संज्ञालोपः। इकारः केवलमुच्चारणार्थः अस्ति अतः तस्यापि लोपः भवति ।] → दुह् [<<वेरपृक्तस्य>> 6.1.67 इति वकारलोपः । 'दुह्' इत्यस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति>> इत्यनेन सिद्धान्तेन अस्य धातुसंज्ञा अपि अस्त्येव ।] → दुह् + सुँ [<<स्वौजस्...>> 4.1.2 इति प्रथमैकवचनस्य विवक्षायाम् सुप्-प्रत्ययः] → दुह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः । लोपेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति दुह्-इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा] → दुघ् [<<दादेर्धातोर्घः>> 8.2.32 इति पदान्तहकारस्य घत्वम्] → धुघ् [<<एकाचो बशो भष् झषन्तस्य स्ध्वोः>> 8.2.37 इति भष्ट्वे धकारः] → धुग् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तघकारस्य गकारः] → धुग्, धुक् [<<वाऽवसाने>> 8.4.56 इति वैकल्पिकः ककारः] 2. दह्-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रिया इयम् - दह् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → दह् + त [इत्संज्ञालोपः] → दघ् + त [<<हो ढः>> 8.2.31 इत्यनेन हकारस्य ढकारे प्राप्ते अपवादत्वेन <<दादेर्धातोर्घः>> 8.2.32 इत्यनेन झलि परे दह्-इत्यस्य हकारस्य घकारः] → दघ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः] → दग् + ध [<<झलां जश् झशि>> 8.4.53 इत्यनेन घकारस्य गकारः] → दग्ध ज्ञातव्यम् - अत्र 'हः धातोः' इति तदन्तविधिः अस्ति, अतः अस्य अर्थः 'हकारान्त-धातोः' इति भवति ।
<<दादेर्धातोर्घः>> - दुह्धातोः क्विन्तात्सुलोपे दुहित्यत्र ढत्वे प्राप्ते ढत्वं क्वचिदपवदति — दादेर्धातोः । 'हो ढः' इत्यतो 'ह' इति षष्ठन्तमनुवर्तते ।झली॑तिपदस्ये॑ति, 'अन्ते' इति च पूर्ववदनुवर्तते ।धातो॑रिप्यावर्तते । एकं धातुग्रहणमवयवषष्ठन्तं हकारेऽन्वेति-॒धातोरवयवस्य हस्ये॑ति ।दादे॑रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दाअदिर्यस्येति बहुव्रीहिः,धातो॑रिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह — उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुस्तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति — उपदेशे किमिति । अधोगिति । 'दुह प्रपूरणे' लङ्, अडागमः, तिप्, शप्, तस्य लुक्, लघूपधगुणः, हल्ङ्यादिना तिपो लोपः, 'दादेः' इति हस्य घः । 'एकाचो वशः' इति भष्भावेन दकारस्य धकारः । 'वाऽवसाने' इतचि चर्त्वजश्त्वे इति भावः । यथा स्यादिति । यथेति प्राप्तियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यं, तच्च उपदेशग्रहणे सत्येव स्यादित्यर्थः । घत्वप्रवृत्तिवेलायां दुहधातोर्दकारादित्वं नास्ति, कृतेऽडागमेतदागमास्तद्ग्रहणेन गृह्यन्ते॑ इत्यकारादित्वात् । अतोऽत्र घत्वं न स्यादित्यव्याप्तिः स्यात् । उपदेशग्रहणे तु नायं दोषः, घत्वप्रवृत्तिवेलायां दुहेरत्र दकारादित्वाऽभावेऽपि धातूपदेशकाले दादित्वादिति भावः । तदेवमव्याप्तिपरिहारफलमुक्त्वाऽतिव्याप्तिपरिहारफलमाह — दामेति । ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्दः ।लिह आस्वादने॑दाम लेढीति दामलिट् । तमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यजि॑ति क्यचि 'सनाद्यन्ताः' इति धातुत्वात्तिपि शपि दामलिह्रतीति रूपम् । ततः क्विपीति । क्यजन्तात्कर्तरि क्वपि अल्लोपे यलोपे च दामलिह्शब्दात्सोर्लोपे 'होढः' इति ढत्वेवावसाने॑इति चर्त्वविकल्पे दामलिट्-दामलिडिति रूपमित्यर्थः । अत्र मा भूदिति । माङि लुङ् । सर्वलकारापवादः । अत्र घत्वं न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् घत्वमत्र न भवति । धातूपदेशे दामलिहिति सुब्दातो पाठाऽभावादिति भावः । तथा च प्रकृतोदाहरणे सौ-दुघिति स्थिते- ।
किं तर्हि तद्विशेषणमिति । यद्यपि समानाधिकरणं न भवतीत्यस्यैतत्प्रतिपक्षभूतं न भवति, समानाधिकरणस्यापि विशेषणत्वोपपतेः, तथापि सामानाधिकरण्यपक्षे'धातोः' इत्येतद्विशेष्यम्; अत्र तु पक्षे विशेषणमित्यस्यैव प्रतिपक्षता । अवयवषष्ठ।ल्न्तमिति । अवयवसम्बन्धे या षष्ठी तदन्तमित्यर्थः । अत्र स्पष्टमेव प्रतिपक्षत्वम् - धातोरवयवो यो दादिः शब्द इति । एवं चोपक्रमेऽपि दकारादेःस धातोः - इति व्यधिकरणे षष्ठयौ । किं कृतं भवतीति । किमिष्ट्ंअ सिद्धं भवतीत्यर्थः । अधोगित्यत्रापीति । सामानाधिकरण्ये त्वडागमेन दादित्वस्य विहितत्वान्न स्यात् । कथमिति । धातुरेवायं न धातोरवयव इति प्रश्नः । अथ वेति । अस्मिन्पक्षे उपक्रमेऽपि'दादेर्धातोः' इति यथाश्रुतमेव । धातूपदेश इति । एतच्च धातुग्रहणाल्लभ्यते । न ह्यधातोर्दकारादेर्हकारान्तस्य सम्भवः । देवानडुद्भ्यामित्यादौ यस्माड्ढत्वं प्रवर्तते ॥ तदेतदसमीचीनमवधानच्युतं वचः । यस्माद्दामलिडित्यादेरधातोरपि सम्भवः ॥ तस्माद्धातुग्रहणमावर्तनीयम् । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयति । तथा चेति । पूर्वत्र तु पक्षे व्यपदेशिवद्भावेन दामलिडित्यत्रापि प्रसङ्गः ॥