तदोः सः सावनन्त्ययोः

7-2-106 तदोः सः सौ अनन्त्ययोः विभक्तौ

Sampurna sutra

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


त्यदादीनामनन्त्ययोः तदोः सः सौ

Neelesh Sanskrit Brief

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


त्यदादिगणस्य शब्देषु विद्यमानः यः तकारः दकारः च अन्ते नास्ति, तस्य सुँ-प्रत्यये परे सकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


For the words of त्यदादिगण, a तकार or a दकार which is not at end of the word is converted to सकार when followed by the सुँ-प्रत्यय.

Kashika

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


त्यदादीनां तकारदकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः। त्यद् स्यः। तद् सः। एतद् एषः। अदस् असौ। अनन्त्ययोः इति किम्? हे स। सा।

Siddhanta Kaumudi

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


त्यदादीनं तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः 2 ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥

Neelesh Sanskrit Detailed

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


'त्यदादिगणः' नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् 'अनत्यस्य ' (इत्युक्ते, यः अन्ते नास्ति, तस्य) तकार-दकारस्य सुँ-प्रत्यये परे सकारादेशः भवति ।

अस्य सूत्रस्य प्रसक्तिः केवलं पुंलिङ्ग-स्त्रीलिङ्गरूपेषु एव दृश्यते, यतः नपुंसकलिङ्गात् परस्य सुँ-प्रत्ययस्य स्वमोर्नपुंसकात् 7.1.23 इति लुक्-कृते न लुमताङ्गस्य 1.1.63 इति अङ्गकार्यम् निषिध्यते । अतः अनेन सूत्रेण निर्दिष्टः सकारादेशः नपुंसकलिङ्गशब्दस्य विषये न भवति ।

1) त्यद् + सुँ

→ स्यद् + स् [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारादेशः । अत्र 'त्य' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]

→ स्य अ + स् [त्यदादीनामः 7.2.102 इति दकारस्य अकारः । ]

→ स्य + स् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

→ स्यः [विसर्गनिर्माणम्]

स्त्रीलिङ्गे 'त्यद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः आगच्छति, अतः 'स्या' इति प्रथमैकवचनस्य रूपं जायते ।

2) तद् + सुँ

→ सद् + स् [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारादेशः । अत्र 'त' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]

→ स अ + स् [त्यदादीनामः 7.2.102 इति दकारस्य अकारः]

→ स + स् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

→ सः [विसर्गनिर्माणम्]

स्त्रीलिङ्गे 'तद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः आगच्छति, अतः 'सा' इति प्रथमैकवचनस्य रूपं जायते ।

3) यद् + सुँ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अस्मिन् सूत्रे विद्यमानः दकारः अन्ते अस्ति ।

4) एतद् + सुँ

→ एसद् + स् [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारादेशः । अत्र 'त' इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]

→ एस अ + स् [त्यदादीनामः 7.2.102 इति दकारस्य अकारः]

→ एस + स् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

→ एसः [विसर्गनिर्माणम्]

→ एषः [आदेशप्रत्यययोः इति आदेशः यः सकारः, तस्य षत्वम्]

स्त्रीलिङ्गे 'एतद्' इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः आगच्छति, अतः 'एषा' इति प्रथमैकवचनस्य रूपं जायते ।

5) 'इदम्' शब्दे यदि दकारः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः पुंलिङ्गे इदोऽयं पुँसि 7.2.111 इत्यनेन पुंलिङ्गे इदम्-शब्दस्य 'इद्' इत्यस्य 'अय्' आदेशः विधीयते, स्त्रीलिङ्गे च यः सौ 7.2.110 इत्यनेन दकारस्य यकारः भवति ।

6) अदस् + सुँ

→ अद औ [अदसः औ सुँलोपश्च 7.2.107 इति सकारस्य औ-आदेशः, सुँ-प्रत्ययस्य लोपः]

→ अदौ [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ असौ [तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारादेशः । अत्र 'अदस्' इत्यस्य दकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति । प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणकार्यम् विधीयते । ]

Balamanorama

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


तदोः सः सावनन्त्ययोः - तदोः सः सौ । त्यदादीनामिति । 'त्यदादीनामः' इत्यतस्तदनुवृत्तेरिति भावः । तकारदकारयोरिति । सूत्रे तश्च द्चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेर्न सत्वमिति भावः । त्ये इति । सर्वनामत्वाज्जसः शीभाव इति भावः । स्मायादीमप्युपलक्षणमिदम् । त्यं त्यौ त्यान् । त्येन त्याभ्यां त्यैः । त्यस्मै त्याभ्यां त्येभ्यः २ । त्यस्मात् । त्ययोः २ । त्येषां । त्यस्मिन् त्येषु । एवं तद्शब्दः । परमस इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्य प्रथमैकवचने त्वमित्यत्र 'तदोः सः सौ' इति सत्वं कुतो न स्यादित्यत आह — द्विपर्यन्तेति । 'त्यदादीनामः' इत्यत्र पठितंद्विपर्यन्तानामेवेष्यते॑ इति वार्तिकं 'तदोः सः सौ' इत्यत्राप्यनुवर्तते एवेत्यर्थः । ततः किमित्यत आह — नेहेति । इहशब्दविवक्षितमाह — त्वमिति । युष्मच्छब्दस्य द्विशब्दादुपर्येव सर्वादिगणे पाठादिति भावः । ननु 'त्वाहौ सौ' इति तकारोच्चारणसामर्थ्यादेव त्वमित्यत्र सत्वं न भवति, अन्यथा 'स्वाहौ सौ' इत्येव ब्राऊयात् । अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशङ्क्य निराकरोति - न चेति । तकारोच्चारणसामर्थ्यादिह सत्वं नेति न वाच्यमित्यन्वयः । अतित्वमिति ।द्विपर्यन्ताना॑मित्यननुवृत्तौत्व॑मित्यत्रापि सत्वं स्यात् । न च 'त्वाहौ सौ' इति तकारोच्चारणानर्थक्यं, त्वामतिक्रान्तोऽतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सत्वप्रवृत्तेर्दुर्वारत्वात्त्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वाद्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्तेः । अत एवाह-संज्ञायामिति । त्यदिति । कस्यचिन्नामेदम् । अतित्यदिति । त्यमतिक्रान्त इति विग्रहः । य इति । यच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराऽभावान्न सत्वम् । एष इति । एतच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्यस्य एतच्छब्देऽपि प्रवृत्तेरिति भावः ।

Padamanjari

Up

index: 7.2.106 sutra: तदोः सः सावनन्त्ययोः


सौ, इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, स्यश्च्छन्दसि, सोऽचि लोपे चेत् इत्यादिनिर्देशात् । नाप्युभयोः तथाहि सति सि इत्येव ब्रूयात्, सकारादौ विभक्ताविति । अनन्त्ययोरिति किमिति । विशेषणविशेष्यभावे कामचारात्यदादिषु तकारान्तस्यासम्भावच्च त्यदादिभिस्तदोर्विशेषणादनन्त्ययोस्तावस्तावस्तिद्धम्, अन्त्यस्य तु त्यदाद्यत्वं भविष्यतीति प्रश्नः । अत्वस्य सोरन्यक्ष सावकाशत्वात्सौ परत्वादिदमेव स्यादित्युतरम् । तत्र केवले सौ पुंल्लिङ्गे विशेषाभावात् सम्बुद्धौ, स्त्रियां च प्रत्युदाहृतम् । किमर्थं पुनः तदोः इत्युच्यते, तवर्गग्रहणमेव क्रियेत - तोः सः सावनन्त्यस्य इति नकारस्यापि तर्हि प्राप्नोति तस्मान्नुडचि - अनेषः, तानयम्, अनसाविति । नुयं परादिस्तद्ग्रहणेन गृह्यते ॥