अग्नौ चेः

3-2-91 अग्नौ चेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि क्विप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीत्येव। अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्रापि पूर्ववच्चतुर्विधो नियम इष्यते॥

Siddhanta Kaumudi

Up

अग्निचित् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अग्नौ चेः>> - अग्नौ चेः । ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ- । अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः ।

Padamanjari

Up

अग्नौ चेः॥ अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः॥