6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनसिकलोपः झलि क्ङिति असिद्धवत् अत्र आभात् नलोपः
अनुदात्तोपदेश-अनुनासिक-वनति-तनोति-आदीनामङ्गस्य झलि क्ङिति लोपः
ये धातवः अनुनासिकान्ताः अनुदात्तोपदेशाः सन्ति, तेषामङ्गस्य, वन्-इत्यस्य अङ्गस्य, तथा च तनोति-इत्यादीनामङ्स्य झलादि कित्/ङित्-प्रत्यये परे अनुनासिकलोपः भवति ।
1) For the verb roots that end in an अनुनासिक letter and have an अनुदात्त स्वर in the उपदेश, 2) For the verb root वन्, and 3) For the verb roots that end in an अनुनासिक letter and belong to the तनोत्यादिगण,
The अनुनासिक is removed when the verb is followed by a झलादि कित् /ङित् प्रत्यय.
अनुदात्तोपदेशानाम् अनुनासिकान्तानाम् अङ्गानां वनतेस्तनोत्यादीनां च लोपो भवति झलादौ क्ङिति प्रत्यये परतः। यमु — यत्वा। यतः। यतवान्। यतिः। रमु — रत्वा। रतः। रतवान्। रतिः। अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः। वनति — वतिः। क्ति नो रूपमेतत्। क्तिचि तु <<न क्तिचि दीर्घश्च>> ६.४.३९ इति भवति। अन्यत्र झलादाविटा भवितव्यम्। तनोत्यादयः — ततः। ततवान्। सनोतेरात्वं वक्ष्यति ६.४.४२। क्षणु — क्षतः। क्षतवान्। ऋणु — ऋतः। ऋतवान्। तृणु — तृतः। तृतवान्। घृणु — घृतः। घृतवान्। वनु — वतः। वतवान्। मनु — मतः। मतवान्। ङिति — अतत। अतथाः। अनुदात्तोपदेशवनतितनोत्यादीनामिति किम्? शान्तः। शान्तवान्। तान्तः। तान्तवान्। दान्तः। दान्तवान्। अनुनासिकस्येति किम्? पक्वः। पक्ववान्। झलीति किम्? गम्यते। रम्यते। क्ङितीति किम्? यन्ता। यन्तव्यम्। उपदेशग्रहणं किम्? इह च यथा स्यात् — गतिः। इह च मा भूत् — शान्तः। शान्तवानिति॥
अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥
अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे। यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः। हतः। घ्नन्ति। हंसि। हथः। हथ। हन्मि। हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः॥
अस्मिन् सूत्रे अनेके बिन्दवः समाविष्टाः सन्ति, अतः क्रमेण पश्यामः - 1) 'अनुनासिकान्ताः अनुदात्तोपदेशाः' - अनेन तादृशानाम् धातूनाम् ग्रहणं भवति येषु - (अ) अन्तिमवर्णः अनुनासिकः अस्ति, तथा च येषु (आ) औपदेशिक-अवस्थायामनुदात्तः स्वरः विद्यते । एतादृशाः षट्-धातवः धातुपाठे पाठ्यन्ते - यम् (उपरमे), रम् (क्रीडायाम्), नम् (प्रहत्वे शब्दे च), गम् (गतौ), हन् (हिंसागत्योः - अदादिगणः) , मन् (ज्ञाने - दिवादिगणः) । 2) 'वनतेः' - इत्यनेन 'वन्' (सम्भक्तौ) अस्य भ्वादिगणस्य धातोः ग्रहणं भवति । 3) 'अनुनासिकाः तनोत्यादयः' - इत्यनेन तनादिगणस्य अनुनासिकान्ताः धातवः स्वीक्रियन्ते । अत्र तन् , क्षण्, क्षिण्, ऋण्, तृण् , घृण्, वन्, तथा मन् एतेषाम् ग्रहणं भवति । अत्रापि 'वन्' धातुः निर्दिष्टः अस्ति परन्तु अयम् तनादिगणस्य अस्तीति स्मर्तव्यम् । अपि च, तनादिगणे 'षणुँ दाने' अयमनुनासिकान्तः धातुः विद्यते, परन्तु तस्य अत्र ग्रहणं न भवति, यतः तस्य विषये अनुनासिकस्य लोपं बाधित्वा <<जनसनखनां सञ्झलोः>> 6.4.42 इत्यनेन आकारादेशः विधीयते । एतेषाम् सर्वेषाम् विषये झलादि-कित्-प्रत्यये परे तथा झलादि-ङित्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः विधीयते । उदाहरणानि एतादृशानि - 1. यम् + क्त्वा → यत्वा । 2. रम् + क्तिन् → रतिः । 3. नम् + क्त → नत । 4. गम् + क्तवतु → गतवत् । 5. हन् धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया - हन् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → हन् + तस् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → हन् + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → हन् + तस् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → ह + तस् [तस्-प्रत्ययः अपित्-सार्वधातुकप्रत्ययः अस्ति, अतः <<सार्वधातुकमपित्>> 1.2.4 इत्यनेन सः ङिद्वत् भवति । अतः <<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति>> 6.4.37 इत्यनेन नकारलोपः अपि भवति ।] → हतः [विसर्गनिर्माणम्] 6. मन् + क्त्वा → मत्वा । 7. वन् + क्तिन् → वति । 8. तन् + क्त → तत । 9. क्षण् + क्त → क्षत । 10. क्षिण् + क्त्वा → क्षित्वा । 11. ऋण् + क्त → ऋत । 12. तृण् + क्तवतु → तृतवत् । 13. घृण् + क्तवतु → घृतवत् । 14. वन् + क्त → वत । 15. मन् + क्त → मत । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'अनुनासिक' इति वस्तुतः 'अनुनासिकानाम्' एतादृशम् षष्ठी-बहुवचनस्य रूपमस्ति, परन्तु तस्य विभक्तेः लोपं कृत्वा तस्य निर्देशः अत्र कृतः अस्ति । अनुनासिकानाम् इत्यपि 'अनुदात्तोपदेश-वनति-तनोति-आदीनाम्' इति यावत् 'अङ्गस्य' इत्यस्य विशेषणमस्ति । अतः 'अनुनासिकलोप' इति एकः शब्दः नास्ति, शब्दद्वयं अस्तीति स्मर्तव्यम् । 2. अनेन सूत्रेण 'अङ्गस्य' लोपः उक्तः अस्ति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अयम् लोपः अङ्गस्य अन्तिमवर्णस्य भवति ।
<<अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति>> - अनुदात्तोपदेश ।ऊदृदन्तै॑रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः । एवं सतिमुक्त॑मित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह — अनुनासिक इति लुप्तषष्ठीकं पदमिति । एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह — वनतीतरेषां विशेषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह — अनुनासिकान्तानामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति -यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति — तनुक्,णुक्षिण्विति । 'मनु' इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते,जनसनखनां सन्झलो॑रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः । 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वात्उदितो वे॑ति क्त्वायामिड्विकल्पात्यस्य विभाषे॑ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्रतितुव्रतथसिसुसरकसेषु चे॑ति इण्निषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, 'सार्वधातुकमपि' दिति तसो ङित्त्वात् । घ्नन्तीति । अजादिङित्परकत्वात्गमहने॑त्युपधालोपे 'हो हन्ते' रिति कुत्वेन हस्य घः । हसि हथः हथ ।