1-1-61 प्रत्ययस्य लुक्श्लुलुपः अदर्शनं
प्रत्ययस्य अदर्शनम् लुक्-श्लु-लुपः
प्रत्ययस्य लोपः यदि 'लुक्', 'श्लु', 'लुप्' एतैः विशिष्टशब्दैः क्रियते, तर्हि तादृशस्य लोपस्य क्रमेण 'लुक्', 'श्लु', 'लुप्' इति संज्ञा दीयते ।
The elision of a प्रत्यय done using the specific words लुक्, श्लु and लुप् is respectively known by the terms लुक्, श्लु, लुप्.
अदर्शनमिति वर्तते। प्रत्ययादर्शनस्य लुक्, श्लु, लुप् इत्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधानाच् च तद्भावितग्रहणमिह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञं भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञाभावितं लुप्संज्ञं भवति। तेन संज्ञानां संकरो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणं किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः — <<लुक् तद्धितलुकि>> १.२.४९, <<जुहोत्यादिभ्यः श्लुः>> २.४.७५,<<जनपदे लुप्>> ४.२.८१ इत्येवमादयः॥
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
व्याकरणशास्त्रे निर्दिष्टासु संज्ञासु अन्यतमाः सन्ति 'लुक्', 'श्लुः', 'लुप्' एताः तिस्रः संज्ञाः । प्रत्ययस्य लोपस्य निर्देशार्थम् व्याकरणशास्त्रे एताः तिस्रः संज्ञाः प्रयुज्यन्ते । तदित्थम् — 1) केषुचित् सूत्रेषु लुक् इति शब्देन कस्यचन प्रत्ययस्य लोपः निर्दिष्टः अस्ति । यथा, <<षड्भ्यो लुक्>> 7.1.22 अनेन सूत्रेण षट्-संज्ञकात् शब्दात् विहितस्य जस्-प्रत्ययस्य लोपः उच्यते, सः च 'लुक्' इति शब्देन निर्दिश्यते । एतादृशः 'लुक्'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुक्' इति नाम्ना एव ज्ञायते । अतः अत्र 'जस्-प्रत्ययस्य लुक्-भवति' इति वाक्यप्रयोगः भवितुम् अर्हति । 2) केषुचन अन्येषु सूत्रेषु श्लुः इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, <<जुहोत्यादिभ्यः श्लुः>> 2.4.75 अनेन सूत्रेण जुहोत्यादिगणस्य शब्देभ्यः विहितस्य शप्-प्रत्ययस्य लोपः उच्यते, सः च 'श्लुः' इति संज्ञया निर्दिश्यते । एतादृशः 'श्लुः'शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'श्लुः' इति नाम्ना एव ज्ञायते । 3) केषुचन अपरेषु सूत्रेषु लुप् इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, <<लुप् च>> 4.3.166 इत्यनेन सूत्रेण 'अण्' इति तद्धितप्रत्ययस्य लोपः उच्यते, सः च 'लुप्' इति शब्देन निर्दिश्यते । एतादृशः 'लुप्' इति शब्देन कृतः प्रत्ययलोपः स्वयम् अपि 'लुप्' इति नाम्ना एव ज्ञायते । अनेन प्रकारेण अष्टाध्याय्यां प्रत्ययस्य लोपः त्रिभिः शब्दैः उक्तः दृश्यते, तस्य च यथासङ्ख्यम् (ताः एव) तिस्रः संज्ञाः दत्ताः सन्ति । कुत्रचित् तु केवलम् 'लोपः' इत्येतं शब्दम् उपयुज्य अपि प्रत्ययलोपः कृतः दृश्यते । यथा, <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सूत्रेण अपृक्त-सुँ-प्रत्ययस्य लोपः केवलं 'लोपः' इति संज्ञया एव उक्तः अस्ति । एतादृशः लोपः तु 'लुक् / श्लुः / लुप्' एताभिः तिसृभिः संज्ञाभिः नैव परिगण्यते ।
<<प्रत्ययस्य लुक्श्लुलुपः>> - अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना ।फले लुक्,जुहोत्यादिभ्यः श्लुः॑ 'जनपदे लुप्' इत्यादिविधिप्रदेशेषुअस्य सूत्रस्य शाटकं वये॑तिवद्भाविज्ञानान्नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् — ।
'अदर्शनम्' इति सम्बन्धात् 'प्रत्ययस्य' इति कर्मणि षष्ठी । यदि प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया भावितस्यापि शपोऽदर्शनस्य 'श्लौ' इत्यत्र ग्रहणाद् द्विर्वचनं स्यात्; जुहोतीति-'उतो वृद्धिर्लुकि हलि' इति वृद्धिः स्यात्; हरीतक्या फलानि-'लुक्तद्धितलुकि' इति ङीषो लुक् स्यात्; 'लवणाल् लुक्' लवणस्सूपः, युक्तवद्भावः स्यात्; तथा लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना गोमतीभूता ब्राह्मणीति च्वेर्लोपे 'लुक् तद्धितलुकि' इति लुक् स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि । यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात् । एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् ! तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्, विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति, तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति, यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव ' न लुमताङ्गस्य' इति निषेधः । वरणा इति । 'अदूरभवश्च' इत्यणः 'वरणादिभ्यश्च' इति लुप् । प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः, तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य संप्रत्ययात् । 'गोस्त्रियोरुपसर्जनस्य' इत्यत्र योगो विभज्यते - 'गोरुपसर्जनस्य स्त्रियाः' इति, 'लुक् तद्धितलुकि' इति स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे गमेर्डो लुक् स्यात्, 'कंसीयपरशब्ययोर्यञञौ लुक् च' इत्यत्र ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं न कर्तव्यम् । यत्र तर्हि न कश्चिन्निर्दिश्यते - 'अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च' इति, अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि 'यस्कादिभ्यो गोत्रे' इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे यो विहितस्तस्य लुक्, तथा 'जनपदे लुप्' इत्यत्र 'ङ्याप्प्रातिपदिकातप्रत्ययः ' इत्यनुवृतेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्यैव लुप् । 'लवणाल्लुक्' इत्यदिष्वपि प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं भवति । एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन् 'यञञोश्च',शुपो धातु प्रातिपदिकयोः' इत्यादिषु यत्रानेकाल् प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, 'लवणाल्लुक्' इत्यादौ तु आदेः स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् 'घोर्लोपो लेटि वा' इति लोपे प्रकृते 'लुग्वा दुहदिह' इति लुकं शास्ति,तज्ज्ञापयति - 'लुगादयः सर्वादेशाः' इति । 'अलोऽन्त्यस्य' ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति, 'घोर्लोपः' इत्यत्र तावदसंजातविरोधित्वाद् 'अलोऽन्त्यस्य' इति प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति । सामान्येन च ज्ञापकं समर्थयिष्यते - 'लोपव्यतिरिक्तमदर्शनं सर्वादेशः' इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति प्रश्नः । इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति । असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र 'लुगणिञोः' इत्यतो लुग्ग्रहणमनुवर्तते वा ? न वा ? अनुवृतौ - स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक् च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि विभक्तिमात्रश्रवणप्रसङ्गः । अथ निवृतम् - ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः । अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न स्यात्; प्रत्ययग्रहणे तु सति लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति । परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते; तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च विवक्षिते 'गोत्रे लुगचि' इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य' इति यलोपे चगस्तीया इति सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि कुण्डिनजादेशे कौण्डिन्यशब्दादपि 'कण्वादिभ्यो गोत्रे' इति अणि कृते 'आपत्यस्य' इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् । वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन ज्ञापकमगतिकगति' इत ॥