चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः

2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Kashika

Up

index: 2.1.36 sutra: चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः


सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। तदर्थेन प्रकृतिविकारभावे समासोऽयम् इष्यते। यूपाय दारु यूपदारु। कुण्ड्लाय हिरण्यम् कुण्डलहिरण्यम्। इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलम् इति। तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद् भवति। अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या। ब्राह्मणार्थं पयः। ब्राह्मणार्था यवागूः। बलि कुबेराय बलिः कुबेरबलिः। महाराजबलिः। हित गोहितम्। अश्वहितम्। सुख गोसुखम्। अश्वसुखम्। रक्षित गोरक्षितम्। अश्वरक्षितम्।

Siddhanta Kaumudi

Up

index: 2.1.36 sutra: चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः


चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः ।<!अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् !> (वार्तिकम्) ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.36 sutra: चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः


चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। तदर्थेन प्रकृतिविकृतिभाव एवेष्टः (वार्त्तिकम्) । तेनेह न - रन्धनाय स्थाली। अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वार्त्तिकम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥

Padamanjari

Up

index: 2.1.36 sutra: चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः


अर्थः पराभृश्यत इति। यद्यपि चतुर्थीति चतुर्थ्यन्तः शब्दः सन्निहितः, तथापि शब्दं प्रति तादर्थ्यासम्भावातदर्थ एव परामृश्यते इत्यर्थः। इत्येतैः शब्दैः सहेति। तत्र तदर्थेन सुबन्तेनेत्यर्थध्दरकं विशेषमम्, स्वरूपेण सुबन्तस्य तादर्थ्यासम्भवात्। द्वितीयस्त्वर्थशब्दः पृथगेव निभतम्। प्रकृतिविकारभावे समास इष्यत इति। ज्ञापकात्। यदयं बलिरक्षितग्रहणं करोति तज्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या समस्यत इति; अन्यथा कुबेरबलिः, गोरक्षितमित्यत्रापि तादर्थ्यसम्भवादनर्थकं तत्स्यात्। हितसुखग्रहणं तु'हितयोगे चतुर्थी वक्तव्या' ,'चतुर्थी चाशिषि' इत्यतादर्थ्येऽपि चतुर्थीसम्भवान्न ज्ञापकम्। यदि विकृतिः प्रकृत्या समस्यते - अश्वेभ्यो घासः, अश्वेभ्यः सुरा ऽश्वसुरम्,'विभाषासेना' इति नपुंसकत्वम्, हस्तिभ्यो विधा हस्तिविधा, विधा उ अन्नविशेषः; अत्र न प्राप्नोति? अश्वघासादयः षष्ठीसमासा भविष्यन्ति। ननु स्वरे विशेषो भवति चतुर्थीसमासे हि सति'चतुर्थी तदर्थ' इति पूर्वपदप्रकृतिस्वरेण भाव्यम्, षष्ठीसमासे तु समासान्तोदातत्वेन? नैषोऽस्ति विशेषः; चतुर्थीसमासेऽपि नैव पूर्वपदप्रकृति स्वरेण भाव्यम्; ज्ञापकात्, यदयं'क्ते च' इति चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवतित्याह, तज्ज्ञापयति - प्रकृतिविकारभावाभाव एष स्वरो न भवतीति; अन्यथा गोरक्षितमित्यत्रापि'चतुर्थी तदर्थ' इत्येव सिध्देरनर्थकं तत्स्यात्। नैतदस्ति ज्ञापकम्; हितार्थमेतत्स्यात् - गोहितमित्यत्र हि तादर्थ्यं नास्ति। एवमपि'हिते च' इति वक्तव्ये'क्ते च' इति साम्न्यवचनं ज्ञापकमेव, सर्वथा कुबेरवलिरित्याद ऐ मा भूदित्येवमर्थ प्रकृतिविकारभावे स्वर एषितव्यः। अथ रन्धनाय स्थालीत्यत्र षष्ठीसमासः कस्मान्न भवति? कश्चिदाह भवत्येव, तद्यथा - गोग्रासः, लालाम्बुजम्, क्रीडासरः, वासभवनम्, नाट।ल्शालेति। अपर आह - रन्धनस्थाल्यादयोऽनभिधानात् षष्ठीसमास न भवन्तीति। उभावपि प्रतिब्रूमः येषु षष्ठीसमास इष्यते तेषु चतुर्थीसमास एवास्तु, येषु तु नेष्यते तेषु तु चतुर्थीसमास एवानभिधानान्नेष्यताम्, माकारिज्ञापनार्थं बलिरक्षितग्रहणम्, स्वरस्तु चतुर्थीसमासेऽपि पूर्वोक्तेन प्रकारेण प्रकृतिविकारभाव एव व्यवस्थास्यते। किं चैवं सति सूत्रेमेवैतदनर्थकम्, यूपदार्वादावपि षष्ठीसमास एवास्तु,'चतुर्थी तदर्थ' इत्येततु'षष्ठी तदर्थ' इति क्रियताम्, ज्ञापकाच्च स्वरस्य व्यवस्था क्रियत्म्। नन्वर्थभेद। भवति-षष्ठीसमासे सम्बन्धमात्रं गम्यते, चतुर्थीसमासे तु तादर्थ्यं सम्बन्धविशेषः? नैषोऽस्ति विशेषः, आरभ्यमाणेऽपि चतुर्थीसमासे न दण्डवारित- षष्ठीसमासः, तत्रार्थप्रकरणादिना विशेषोऽवसेयः। यद्येवम्, केवलेऽपि षष्ठीसमासे तथा विशेषोऽवसंस्यते, किञ्च सिध्दन्तेऽश्ववघासादिषु तावदर्थप्रकरणादिना तादर्थ्यविसायः सर्वत्रैव तथास्तु, नार्थौऽनेन? उच्यते-हितशब्देन तावत्षष्ठीसमासो न भवति; तद्योगे चतुर्त्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च'क्ते च' इत्यत्रापि चतुर्थीग्रहणं कर्तव्यं गोहितमित्याद्यर्थम्। एवं च गोरक्षितमित्यत्र न स्यात्, चतुर्थ्या असम्भवात्।'षष्ठी तदर्थ' इत्यस्य चाप्रसङ्गः, प्रकृतिविकाराभावादिति रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसंबव्धविशेषस्यनियमेन प्रतीयमानत्वाच्चतुर्थ्या सम्भवितव्यमिति नेनापि चतुर्थीसमास एव चर्तव्यः। बलिसुखग्रहणमपि कर्तव्यम्, तादर्थ्यस्य समासे नियमेन प्रतीतिर्यथा समयादित्येवमर्थम्। तस्मादारव्धव्यमेव सूत्रम्। प्रकृतिव्कारभाव एव समास इत्यस्य तु प्रयोजनं चिन्त्यम्। अर्थेन नित्यसमासवचनमिति। अन्था महाविभाषाधिकाराद् ब्राह्मणायार्थ इति वाक्यमपि स्यात्। सर्वेलिङ्गता चेति। परलिङ्गताया अपवादः, अभिदेयवशेन च सर्वलिङ्गता न सर्वत्रेति दर्शयति। ब्राह्मणार्थे पय इत्यादि। सर्थबिति चेत्, इत्संज्ञाभावः, इयणुवङ्प्रसङ्श्च। स्यादेतत् - तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थविति सूत्रं कर्तव्यम्, चतुर्थी वर्तते, चतुर्थसिमर्थातदर्थेऽभिधेये सर्थप्प्रत्ययो भवति, सकारः पदसंज्ञार्थः - राजार्थः, गवार्थः, पित्वादनुदातत्वम्; एवं चार्थ इति पूर्वपदप्रकृतिस्वरो न विधेयः, प्रत्ययत्वाच्च न तेन विग्रहः, तध्दितत्वाच्चाभिधेयवल्लिङ्गता सिध्द्यतीति? तन्न; सकारस्येत्संज्ञाभावप्रसङ्गात्। अथ ठादिर्ञिटुअडवःऽ'षः प्रत्ययस्य' इति द्विषकारकनिर्देशाश्रयणेनेत्संज्ञा स्याद्? एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः, र्श्यर्थम् भ्वर्थमित्यत्र चेयणुवङै स्याताम्, बहुव्रीहावात्वकपोः प्रसङ्गः। स्यैदेतत् - यद्ब्राह्मणार्थः पयस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति शक्यते वक्तुम्, अतो ब्राह्मणोऽर्थोऽस्येति विगृह्य बहुव्रीहिः करिष्यते, तेन चतुर्थ्यन्तेन । विग्रहाभावः पूर्वपदप्रकृतिस्वरत्वमभिधेयवन्नङ्गता च सिध्द्यतीति? तन्न; महदर्थमित्यत्रत्वकपोः प्रसङ्गात्। तदर्थस्यार्थादेश उदभावप्रसङ्गः। स्यादेतत् -'चतुर्थी तदर्थ' इत्यनेन समासं विधायार्थ इत्यनेनाशेन तदर्थवाचन उतरपदस्यार्थशब्द आदेशो विधीयते, विभाषाधिकाराच्च यूपार्थं दारु यूपदार्वितुयभयं भाविष्यति, ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति कुबेरार्थो बलिः कुबेरबलिरित्यादि। किमर्थमिदम्, पूर्वेणैव सिध्दम्? ज्ञापकार्थम्, एतज् ज्ञापयति - प्रकृतिविकाराभावादन्यत्र नित्योऽर्थादेश इति। तेन रन्धनार्था स्थालीत्यादि भवति, न तु रन्धनस्थालीत्यादि। अश्वघासादयस्तु पूर्ववत्। अत्र समासे कृते उतरपदस्य विधीयमानेनार्थशब्देन विग्रहो न भविष्यति, यस्यावस्थानेऽर्थादेशस्तल्लिङ्गता स्थानिवद्भाधेन भविष्यति, अर्त इति पूर्वप्रदप्रकृतिस्वरस्तु विधेय एवेति, तन्न; उदकार्थो वीवध इति वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदभावप्रसङ्गात्। अतश्चतुर्थीसमास एव विधयः। तथा चार्तेन नित्यसमासः सर्वलिङ्गता च वक्तव्या? न वक्तव्या, ब्राह्मणायेति चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्ररो न भविष्यति।'लिङ्गमशैष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति कर्वलिङ्गता च सिध्दा। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्त्रमप्यन्धाः सूर्यं पश्यन्ति नाञ्जसा॥