विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्

3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-सम्प्रश्न-प्रार्थनेषु लिङ्

Neelesh Sanskrit Brief

Up

विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लिङ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

लिङ्लकार can be used to indicate विधि (= order) , निमन्त्रण ( = an invitation that cannot be rejected), आमन्त्रण (= an invitation that can be rejected), अधीष्ट (= Ask something with respect, often in exchange of money or something else), सम्प्रश्न (= A question about doing or not doing something) and प्रार्थना (= request).

Kashika

Up

विधिः प्रेरणम्। निमन्त्रणं नियोगकरणम्। आमन्त्रणं कामचारकरणम्। अधीष्टः सत्कारपूर्वको व्यापारः। संप्रश्नः संप्रधारणम्। प्रार्थनं याच्ञा। विध्यादिष्वर्थेषु धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। विध्यादयश्च प्रत्ययार्थविशेषणम्। विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति। विधौ तावत् — कटं कुर्यात्। ग्रामं भवानागच्छेत्। निमन्त्रणे — इह भवान् भुञ्जीत। इह भवानासीत। आमन्त्रणे — इह भवानासीत। इह भवान् भुञ्जीत। अधीष्टे — अधीच्छामो भवन्तम्, माणवकं भवानुपनयेत। संप्रश्ने — किं नु खलु भो व्याकरणमधीयीय। प्रार्थने — भवति मे प्रार्थना व्याकरणमधीयीय॥

Siddhanta Kaumudi

Up

एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥

Laghu Siddhanta Kaumudi

Up

एष्वर्थेषु धातोर्लिङ् ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण लिङ्लकारस्य विधानम् क्रियते । लिङ्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः - 1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालयेः'। 2. निमन्त्रणम् - यत्र कस्मैचित् कार्यार्थम् 'भवतः उपस्थितिः आवश्यकी, कृपया आगच्छतु' इति उक्त्वा आवाहनं क्रियते, तत्र 'निमन्त्रणम्' अस्ति इति उच्यते । यथा, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् - 'इह श्राद्धे भवान् भुञ्जीत' इति । निमन्त्रणस्य सामान्यरूपेण स्वीकारः एव कर्तव्यः, यतः तत्र 'उपस्थितिः आवश्यकी' इति निर्दिष्टम् अस्ति । 3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुञ्जीत' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति । 4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयेत् भवान्!' । 5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठेत्' ? 6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं दद्यात्' । एतेषु षट्सु अर्थेषु लिङ्लकारस्य प्रयोगः अनेन सूत्रेण दीयते । एतेषु अर्थेषु यः लिङ्लकारः प्रयुज्यते, तस्य निर्देशः 'विधिलिङ्लकारः' इति अपि भवति ।

Balamanorama

Up

<<विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ्>> - विधिनिमन्त्रणाअ । ननु विध्यादयो हि न लिङो वाच्याः, लः, कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्त्रं लिङ्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यं, तथा सति यजेतेत्यादौ कर्तृवाचकत्वाऽभावेन शबाद्यनापत्तेरित्यत आह — द्योत्येष्विति ।लः कर्मणि चे॑ति सूत्रं सामान्यविषयं चेदपि विधिनिमन्त्रणेति विशेषशास्त्रेण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्टकत्र्रादिषु लिङिति फलतीति मत्वाह — वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् ।विधिः प्रेरण॑मिति भाष्यमर्थतस्सङ्गृह्णाति -विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनक्त्यमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति — भवान् वस्त्रं क्षालये॑दिति । आमन्त्रणाद्भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे - निमन्त्रणं नियोगकरणमिति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति — आवश्यके इति ।त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः॑ इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रतिइह श्राद्धे भवान् भुञ्जीते॑ति । आमन्त्रणं कामचारानुज्ञेति । 'यथेच्छं क्र#इयता' मित्यभ्यनुज्ञानमित्यर्थः । अधीष्टं सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् । 'अधीष्ट' मित्येव क्वचित्पाठः ।माणवकं भवानध्यापये॑ दित्युदाहरणम् ।इदं कार्यं न वे॑ति विचार्य निर्धारणं संप्रश्नः । यथा — किं भोः व्याकरणं भवानधीयीते॑ति । प्रार्थनं — याच्ञा । यथा 'भवानन्नं मे दद्या' दिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुर्षु अनुस्यूतत्वादिति भावः । प्रवृत्यनुकूलव्यापारः — प्रवर्तना । तत्र प्रवृत्तिः शिष्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः ।

Padamanjari

Up

विधिः प्रेरणमिति । भृत्यादेर्निकृष्टस्य क्वचित्प्रवर्तनमाज्ञापनमित्यर्थः । नियोगतोऽवश्यम्भावेन यत्करणमनुष्ठानं तन्निमन्त्रणम्, स निमन्त्रणस्य विषय इत्यर्थः । अवश्यकर्तव्ये, श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनेति यावत्, श्राद्धे हि निमन्त्रितो दौहित्रादिरभुञ्जानः प्रत्यवैति । कामचारकरणमिति । कामचार इच्छाप्रवृत्तिस्तया यत्करणमनुष्ठानं तदामन्त्रणम्, तद्विषयमामन्त्रणमित्यर्थः । यत्राननुष्ठानेऽपि न प्रत्यवायस्तत्र प्रवर्तनेति यावत् । कल्याणादौ ह्यामन्त्रितोऽभुञ्जानोऽपि न प्रत्यवैति । अधीष्टमिति । अधिपूर्वादिच्छतेर्नपुंसके भावे क्तः । पुंल्लिङ्गेन पाठस्त्वयुक्तः । सत्कारपूर्वको व्यापार इति । गुर्वादेरारीध्यस्य व्यापारणेत्यर्थः, ण्यन्तादेरच् । इदं वा कर्तव्यमिदं वा कर्तव्यमित्येव भूतविचारणासम्प्रधारणम् । यथेदमिह सम्प्रधार्यते इति याच्ञा प्रसिद्धा । न्यायव्युत्पादनार्थं च प्रपञ्चार्थमथापि वा । विध्यादीनामुपदानं चतुर्णामपदितः कृतम् ॥ अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ अयं विध्यादिः प्रकृत्यर्थः, प्रत्ययार्थः, प्रकृत्यथेविशेषणम्, प्रत्ययार्थविशेषणं वेति चत्वारः पक्षाः । तत्राद्ये पक्षे विध्यादिषु वतमानाद्धातोरित्यर्थः स्यात्, ततश्च यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्रैव स्यात् - विदध्यान्निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संप्रच्छेत्, प्रार्थयेतेति; तत्रापि प्रकृत्यर्था भावकर्मकर्तारश्चेत्येतावदगम्येत, न प्रकृत्यर्थव्यतिरेकेणापरं विध्यादिकम् । यथा चेच्छार्थेभ्यः'विभाषा वर्तमाने' इत्यत्र लीङ् इच्छेदिति लडादयश्च न स्युः; अनेन लिङ बाधितत्वात् । द्वितीये नाप्राप्तेपु भावकर्मकर्तृपु विध्यादयोऽर्था निद्दश्यमानास्तेषां बाधकाः स्युरिति लिङ कर्त्रादीनामभिधानं न स्यात्, द्विवचनबहुवचनानुपपतिश्च, विध्यादीनामेकत्वात् । तृतीये तु यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्र न स्यात् - विदध्यान्निमन्त्रयेतेति, न ह्यत्र प्रकृत्यर्थादन्ये तद्विशेषणभूता विध्यादयः सन्ति । चतुर्थे तु विध्यादीनां कर्त्रादीनां च स्पष्ट एव भेद इति दोषाभाव इति तमेवाश्रयति - विध्यादयश्चैत इति । विध्यादिविशिष्टेष्विति । विध्यादयः प्रवर्तनाविशेषास्तैर्विशिष्टेषु प्रवतितेष्वित्यर्थः । सम्प्रश्नप्रार्थनयोस्तु सम्पृच्छयमाने प्रार्थ्यमाने च कर्तरि । ननु च प्रकृत्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यम्, न तु प्रकृत्याभिहिते; ठुक्तार्थानामप्रयोगःऽ इति न्यायात्, ततश्चास्मिन्नपि पक्षे विदध्यादित्यादौ तदवस्थ एवाप्रसङ्गः ? एवं तर्हि सन्त्येवात्र व्यतिरिक्ता विध्यादयो विषयभेदात्, तथा हि - श्राद्धे मां निमन्त्रयेत भवानिति मत्कर्मकं निमन्त्रणं तवानुष्ठेयमित्यर्थः, तत्र प्रकृत्यभिहितं निमन्त्रणं भोजनविषयम्, लिङ्भिहितं तु निमन्त्रणविषयमिति विस्पष्ट एव निमन्त्रणभेदः । यथैषितुमिच्छतीति कालसाधनभेदादिच्छयोर्भेदाश्रयो योगस्तद्वत् । एवं विध्यादिष्वपि द्रष्टव्यम् । एवं च कृत्वा प्रकृत्यर्थविशेषणपक्षेऽपि नातीव दोषः । आमन्त्रणे इह भवान् भुञ्जीतेति । यदीच्छतीत्यर्थः । अध्येप्यामह इत्यपपाठोऽयम्; न हीच्छतेरेतद्रूपं सम्भवति, इष्यतिरपि परस्मैपदी, गुणश्च श्यनि दुर्लभः; इङ्श्चात्रार्थो नास्ति, सूत्रे चाधीष्टेति इङ् न प्रयुक्तः, तस्मादधीच्छाम इति पाठः । उपनयेतेति । आचार्यकरण आत्मनेपदम् ॥