1-1-24 ष्णान्ता षट् सङ्ख्या
ष्णान्ता संख्या षट्
षकारान्ताः संख्यासंज्ञकाः शब्दाः तथा च नकारान्ताः संख्यासंज्ञकशब्दाः 'षट्' नाम्ना ज्ञायन्ते ।
The षकारान्त and the नकारान्त words which are referred to as 'संख्या' are also called 'षट्'.
स्त्रीलिङ्गनिर्देशात् संख्येति संबध्यते। षकारान्ता नकारान्ता च या संख्या सा षट्संज्ञा भवति। षकारान्ता तावत् — षट् तिष्ठन्ति। षट् पश्य। नकारान्ता — पञ्च। सप्त। नव। दश। अन्तग्रहणमौपदेशिकार्थम्। तेनेह न भवति — शतानि। सहस्राणि। अष्टानामित्यत्र नुड् ७.१.५५ भवति। षट्प्रदेशाः — <<षड्भ्यो लुक्>> ७.१.२२ इत्येवमादयः॥
षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् <{SK261}> । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च <{SK338}>इति नुट् ॥
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । नुट् ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'षट्' इति संज्ञा । ये संख्यासंज्ञकशब्दाः षकारान्ताः उत नकारान्ताः सन्ति तेषाम् 'षट्' इति संज्ञा भवति । <<बहुगणवतुडति संख्या>> 1.1.23 इत्यनेन सूत्रेण 'संख्या'शब्दस्य व्याख्या क्रियते । एतेषु संख्यावाचकशब्देषु विद्यमानाः षकारान्ताः नकारान्ताः च शब्दाः एते - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडषन्, सप्तदशन्, अष्टादशन्, नवदशन् । एतेषाम् सर्वेषाम् 'षट्' इति संज्ञा भवति ।
<<ष्णान्ता षट्>> - पञ्चन्शब्दो नित्यं बहुवचनान्तः । तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह — ष्णान्ता षट् । ष्च नश्च ष्णौ । ष्टुत्वेन णः । ष्णौ अन्तौ यस्याः सा ष्णान्ता ।बहुगणवतुडति सङ्ख्या॑ इत्यतः सङ्ख्येत्यनुवर्तते । तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात् । तदाह — षान्तेत्यादिना । षड्भ्यो लुगिति ।अनेन जश्शसोर्लु॑गिति शेषः । पञ्च पञ्चेति । जश्शसोर्लुकि नलोप इति भावः । सङ्ख्या किमिति । सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः । विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः । ननु शतशब्दाज्जश्शसोः शिभावे 'नपुंसकस्य झलचः' इति नुमिसर्वनामस्थाने चे॑ति दीर्घे शतानीति रूपम् । एवं सहरुआआणीत्यपि रूपम् । तत्रअट्कुप्वाङि॑ति णत्वं विशेषः । इह 'तदागमाः' इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यांषड्भ्यो लु॑गिति जश्शसोर्लुक् स्यादत आह — शतानीत्यादि । सर्वनामेति । सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः । पञ्चभिः पञ्चभ्य इति । नलोपे रूपम् ।
इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत आह - स्त्रीलिङ्गनिर्देशादिति । 'ष्णान्ता' इत्यत्र स्त्रीलिङ्गस्य विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धम् । इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ? सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते परत्वान्नित्यत्वाच्च 'अष्टन आ विभक्तौ' इत्यात्वे कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न निवर्तते ॥