3-4-102 लिङः सीयुट् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
लिङः सीयुट्
लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति ।
लिङादेशानां सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्॥
सलोपः । एधेत । एधेयाताम् ॥
सलोपः। एधेत। एधेयाताम्॥
अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् 'सीयुट्' आगमः विधीयते । वस्तुतः अयमागमः सर्वेषामष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलमात्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः 'सीय्' इत्येव अवशिष्यते । 1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लभ् + लिङ् [<<आशिषि लिङ्लोटौ>> 3.3.173 इति लिङ्लकारः] → लभ् + त [<<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। <<लिङ्गाशिषि>> 3.4.116 इत्यनेन अयमार्धधातुकसंज्ञकः भवति] → लभ् सीयुट् + त [<<लिङस्सीयुट्>> 3.4.102 इति सीयुट् आगमः] → लभ् + सीय् + सुट् + त् [<<सुट् तिथोः>> 3.4.107 इति सुट्-आगमः] → लभ् + सी + स् + त [यकारस्य <<लोपो व्योर्वलि>> 6.1.66 इति लोपः] → लभ्सीष्ट [<<आदेशप्रत्यययोः>> 8.3.59 इति सुट्-आगमस्य सकारस्य षत्वम्] → लभ्सीष्ट [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] → लप्सीष्ट [<<खरि च>> 8.4.55 इति चर्त्वम्] 2. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिङ् [<<विधिनिमन्त्रणा..>> 3.3.161 इति लिङ्लकारः] → लभ् + त [<<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लभ् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति शप्] → लभ् + अ + सीयुट् + त [<<लिङस्सीयुट्>> 3.4.102 इति सीयुट् आगमः] → लभ् + अ + सीय् + सुट् + त [<<सुट् तिथोः>> 3.4.107 इति सुट्-आगमः] → लभ् + अ + ईय् + त [<<लिङःसलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → लभ् + अ + ई + त [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → लभेत [<<आद्गुणः>> 6.1.87 इति गुणः]
<<लिङस्सीयुट्>> - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।
लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके'लिङ्ः सलोपो' न्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥