1-2-4 सार्वधातुकम् अपित् ङित्
अपित् सार्वधातुकम् ङित्
अपित् सार्वधातुकप्रत्ययः ङित्वत् भवति ।
An अपित् सार्वधातुकप्रत्ययः behaves like a ङित् प्रत्यय.
सार्वधातुकं यदपित् तद् ङिद्वद् भवति। कुरुतः, कुर्वन्ति। चिनुतः, चिन्वन्ति। सार्वधातुकमिति किम्? कर्ता। कर्तुम्। कर्तव्यम्। अपिदिति किम्? करोति। करोषि। करोमि॥
अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥
यस्मिन् सार्वधातुकप्रत्यये पकारः इत्संज्ञकः नास्ति, सः सार्वधातुकप्रत्ययः ङित्-वत् भवति । किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतेषु - 1) तिप्, सिप्, मिप् एते त्रयः तिङ्-प्रत्ययाः पित्-प्रत्ययाः सन्ति, अतः एतान् विहाय अन्ये पञ्चदश प्रत्ययाः अनेन सूत्रेण 'ङित्वत्' भवन्ति । अत्रापि अपवादद्वयं ज्ञातव्यम् - अ) 'सिप्' इत्यस्य लोट्लकारे <<सेह्यर्पिच्च>> 3.4.87 इत्यनेन 'हि' आदेशः भवति, सः 'अपित्' भवति, अतः अनेन सूत्रेण ङित्वत्भावं प्राप्नोति । आ) <<आडुत्तमस्य पिच्च>> 3.4.92 इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य मिप्, वस्, मस्, इट्, वहि, महिङ् - एते सर्वे प्रत्ययाः पित्-भवन्ति, अतः तेषाम् ङित्वत्भावः निषिध्यते । 2) शित्-प्रत्ययेषु केवलं 'शप्' अयं एकः एव पित्-प्रत्ययः अस्ति, अन्ये सर्वे शित्-प्रत्ययाः अपित् सन्ति, अतः वर्तमानसूत्रेण ङित्वत् भवन्ति । यथा - श, श्यन्, शतृ आदयः । ङित्वत्भावस्य प्रामुख्येन त्रीणि प्रयोजनानि दृश्यन्ते - 1) <<क्ङिति च>> 1.1.5 इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणवृद्ध्योः निषेधः भवति । यथा - आप् + नु + तः = आप्नुतः । अत्र 'तः' इति ङित्-प्रत्ययः अस्ति, अतः 'आप्नु' इत्यस्य उकारस्य गुणादेशः न भवति । 2) <<ग्रहिज्यावयि..>> 6.1.16 इत्यनेन केषाञ्चन धातूनां ङित्-प्रत्यये परे सम्प्रसारणं भवति । यथा, प्रच्छ् + श + ति = पृच्छति । अत्र प्रच्छ्-इत्यस्य ङित्-सार्वधातुके प्रत्यये परे सम्प्रसारणं भवति । 3) <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन अनिदित्-धातूनां विषये नकारलोपः भवति । यथा, तृन्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तृन्फ् + लट् [<<वर्त्तमाने लट्>> 3.2.123 इति लट्] → तृन्फ् + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → तृन्फ् + श + तिप् [<<तुदादिभ्यः शः>> 3.1.77 इति श-विकरणप्रत्ययः] → तृफ् + श + तिप् [<<शकारस्य सार्वधातुकमपित्>> 1.2.4 इत्यनेन ङित्वद्भावे कृते <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इति नकारलोपः] → तृन् फ् + श + तिप् [ <!शे तृम्फादीनां नुम् वाच्यः!> अनेन वार्तिकेन पुनः नुमागमः] → तृं फ् अ ति [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → तृम्फति [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
अपिदिति पर्युदासश्चेत्, च्यवन्ते इत्यत्र च्यु अ अन्ते इति स्थने नित्यत्वादन्तङ्गत्वाच्चैकादेशः । न च वार्णादाङ्गं बलीयः, नानाश्रयत्वात् । तत्र कृते परस्येहापित् आश्रितत्वातं प्रत्यादिवद्भावात् पिदपितोरेकादेशोऽपिद्ग्रहणेन गृह्यत इति शबेकादेशवतः सार्वधातुकस्य ङित्वाद् गुणिनिषेधः प्राप्नोति । प्रसज्यप्रतिषेधे तु पित्वनिमितो निषेधः पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवद्भावाद् ङ्त्वाभाविः । अस्तु तर्हि प्रसज्यप्रतिषेधः ? यद्येवम्, तुदानीत्यत्र विकरणोतमयोः पिदपितोरेकादेशः परस्य पितो ङ्त्विनिषेधे कर्तव्ये आदिवत्स्यात्, इत्यङ्तिमुतममाश्रित्य गुणः प्राप्नोति । ऽअन्तादिवच्चऽ इत्यत्र पूर्वपरौ समुदायावभिप्रेतौ, नाचौ । किं कारणम् ? आद्यन्तयोरवयवत्वात्, स्थानिनोरचोरेकादेशेन निवर्तितत्वाच्च । अतः स्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी, एकादेशोऽपि तयोरेवान्तादिवद्भवतीत्ययमतिदेशार्थः । अत एव ब्रह्मबन्धूरित्यत्र एकादेशोऽपि प्रतिपदिकं प्रत्येवान्तवद्भवति, ध्रुवै तुवै इत्यत्र च उतैमैकवचने कृत्स्नयोरेव पिदपितोरेकादेश इति अचावेव प्रत्यादिवत्वे स्यादेव दोषः । एवं तर्ह्यकादेशस्य पूर्वविधौ स्थानिवद्भावात्पक्षद्वयेऽपि यथा स्थानिकाले यथायोगं गुणस्य प्रवृत्तिनिवृती भवतः, तथा कृतेऽप्येकादेशे स्थानिबुद्ध्या भविष्यतः । एवमुभयोर्निर्दोषत्वेऽपि प्रयज्यप्रतिषेध एवाश्रयणीयः । तत्र हि - तदाश्रयणसामर्थ्याद्यच्च यावच्च पितो ङ्त्विं प्राप्तं तस्य सर्वस्य निषेधादिदमपि सिद्धं भवति-अचिनोद्, अचिनवमिति । अत्र हि ङितो लिङ् आदेशस्य स्थानिवद्भावेन प्राप्तस्य निषेधो भवति । पर्युदासे त्वतिदेशेनैकवाक्यत्वात् तस्यैव पर्युदासात् स्थानिवद्भावकृतं ङ्त्विं स्यादेवेति यासुटो चनं ज्ञापकमाश्रयणीयं स्यात् । किं च ऽङ्च्चि पिन्न भवतिऽ इत्ययमप्यत्रार्थ इष्यते । अतो न ब्रूताद्भवानित्यत्र तातङ्ः स्थानिवद्भावात्प्राप्तस्य पित्वस्य निषेधात् पिदाश्रयो ब्रुव इण् न भवति, तृणाढाद्भवान् - तृणह इण् न भवतीत्येषा दिक् । अत एतदर्थमपि प्रसज्यप्रतिषेध आश्रयणीयः । तत्र हि पृथक्कृतस्य नञो यथेष्टमभिसम्बन्धो भवति - पिद् ङ्न्नि भवति, ङ्च्चि पिन्न भवति । तत्र यस्यौपदेशिकं पित्वं तस्यातिदेशप्राप्तं स्थानिवद्भावप्राप्तं च ङ्त्विं निषिध्यते; यस्य पुनरौपदेशिकं ङ्त्विं तस्य स्थानिवद्भावप्राप्तं पित्वं निषिध्यत इति विवेक्तव्यम् । कुरुत इति । ङ्त्वाइद्विकरणस्य गुणाभावः, ऽअत उत्सार्वधातुकेऽ इत्युत्वं च भवति । अत्र च तृतीयासमर्थाद्वतिराश्रयणीयः, न पूर्ववत्सप्तमीसमर्थात् । तेन पचेते इत्यत्र ऽआतो ङ्तिःऽ इति ङितो यित्कार्यं तदपि भवति । यद्येवम्, चिनुत इति ऽतास्यनुदातेत्ऽ इति लसार्वधातुकानुदातत्वं प्राप्नोति ? नैष दोषः; उपदेशग्रहणमुभाभ्यामपि सम्बध्यते-ङ्दुपिदेशाद्, अदुपदेशादिति । ऽअह्न्विङेःऽ इति वा पर्युदासात् तत्सदृशस्योपदेशङ्कारवतो ग्रहणमिति सर्वमनवद्यम् ॥