हो हन्तेर्ञ्णिन्नेषु

7-3-54 हः हन्तेः ञ्णिन्नेषु चजोः कु

Sampurna sutra

Up

हन्तेः अङ्गस्य हः कुः ञ्णित्-नेषु

Neelesh Sanskrit Brief

Up

हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।

Neelesh English Brief

Up

The हकार of the verb हन् undergoes कुत्वम् in presence of (1) a ञित्-प्रत्यय, (2) a णित्-प्रत्यय, (3) a नकार.

Kashika

Up

हन्तेर्हकारस्य कवर्गादेशो भवति ञिति प्रत्यये परतो नकारे च। घातयति। घातकः साधुघाती। घातंघातम्। घातो वर्तते। नकारे — घ्नन्ति। घ्नन्तु। अघ्नन्। ह इति किम्? अलोऽन्त्यस्य मा भूत्। हन्तेरिति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर्विशेषणम्। नकारो हकारस्य — नकारेऽनन्तरस्य हन्तिहकारस्येति। तच्चानन्तर्यं संनिपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि <<येन नाव्यवधानं तेन व्यवहितेपि वचनप्रामाण्यात्>> इति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति। इह तु न भवति — हननमिच्छति हननीयति, हननीयतेर्ण्वुल् हननीयक इति॥

Siddhanta Kaumudi

Up

ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥

Neelesh Sanskrit Detailed

Up

हन्-धातोः यः हकारः, तस्य (1) ञित्-प्रत्यये परे, (2) णित्-प्रत्यये परे, (3) नकारे परे कुत्वम् भवति । हकारस्य बाह्यप्रयत्नः संवार-नाद-घोष-महाप्राणः, अतः तादृशः कवर्गीयः घकारः हकारस्य स्थाने आगच्छति । क्रमेण उदाहरणानि पश्यामः - 1) ञिति परे - हन्-धातोः घञ्-प्रत्ययान्तरूपस्य सिद्धिः एषा - हन् + घञ् [<<भावे>> 3.3.18 इति घञ्] → घन् + अ [<<हो हन्तेर्ञ्णिन्नेषु>> 7.3.54 इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → घत् + अ [<<हनस्तोऽचिण्णलोः>> 7.3.32 इति नकारस्य तकारः] → घात् + अ [<<अतः उपधायाः>> 7.2.116 इति उपधा-अकारस्य दीर्घः] → घात 2) णिति परे - हन्-धातोः ण्वुल्-प्रत्ययान्तरूपस्य सिद्धिः एषा - हन् + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल् ] → हन् + अक [ <<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → घन् + अक [<<हो हन्तेर्ञ्णिन्नेषु>> 7.3.54 इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → घत् + अक [<<हनस्तोऽचिण्णलोः>> 7.3.32 इति नकारस्य तकारः] → घात् अक [<<अतः उपधायाः>> 7.2.116 इति उपधा-अकारस्य दीर्घः] → घातक 3) नकारे परे - 'वृत्रहन्' इति नकारान्तम् प्रातिपदिकमस्ति । तस्य द्वितीया-बहुवचनस्य प्रक्रिया इयम् - वृत्रहन् + शस् → वृत्रह् न् + अस् [<<अल्लोपोऽनः>> 6.4.134 इत्यनेन भस्य उपधा-अकारस्य लोपः] → वृत्रघ् न् + अस् [<<हो हन्तेर्ञ्णिन्नेषु>> 7.3.54 इत्यनेन नकारे परे हन्-इत्यस्य हकारस्य घकारादेशः ] → वृत्रघ्नः

Balamanorama

Up

<<हो हन्तेर्ञ्णिन्नेषु>> - हो हन्तेः । 'हः' इति स्थानषष्ठी,हन्ते॑रित्यवयवषष्ठी । ञ् च ण् च ञ्णौ । तौ इतौ ययोस्तौ ञ्णितौ । इच्छब्दः प्रत्येकं सम्बध्यते । ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते ।चजोः कु घिण्यतो॑रित्यतः कुग्रहणमनुवर्तते । तदाह — ञितीत्यादिना ।हन्ते॑रिति श्तिपा निर्देशः । हन्धातोरित्यर्थः । प्रकृते हकारस्य नकारपरत्वात्कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः । वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम् ।

Padamanjari

Up

ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ'गमहन' इत्युपधालोपः । किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम् - ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम् - ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः - घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति - घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति - हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत् - हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति - ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च'स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवति' इत्युक्तम् ? अत आह - तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः । अथ वा - पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ॥