7-2-107 अदसः औ सुलोपः च विभक्तौ सौ
अदसः सौ औ सुलोपः च
अदस्-शब्दस्य सुँ-प्रत्यये परे 'औ' आदेशः भवति, अदस्-शब्दात् परस्य 'सुँ' प्रत्ययस्य च लोपः भवति ।
The word अदस् gets an 'औ' आदेशः when followed by the सुँ-प्रत्यय, and the सुँ-प्रत्यय is removed.
अदसः सौ परतः सकारस्य औकारादेशो भवति, सोश्च लोपो भवति। असौ॥ औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च॥ यदा चौत्वप्रतिषेधः तदा सकारादुत्तरस्योत्वं भवति। असुकः। असकौ॥ उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः॥ परमाहम्। परमायम्। परमानेन।
अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते।
ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ॥ १॥
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात्।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते॥ २॥
अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ <{SK381}> इति दस्य सः । असौ ॥<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> (वार्तिकम्) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः <{SK419}> इति मत्वोत्वे । अमू । जसः शी <{SK214}> । आद् गुणः <{SK69}> ॥
अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥
प्रथमैकवचनस्य सुँ-प्रत्ययस्य उपस्थितौ अदस्-सर्वनामशब्दस्य अन्तिमसकारस्य 'औ' आदेशः भवति, तथा, सुँ-प्रत्ययस्य लोपः अपि भवति । यथा - अदस् + सुँ → अद औ [<<अदस औ सुलोपश्च>> 7.2.107 इति सकारस्य औकारः, सुलोपश्च] → अदौ [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; <<नादिचि>> 6.1.103 इति निषेधः । अतः <<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] → असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन सुँ-प्रत्ययविशिष्टमङ्गकार्यम् भवति एव । अतः <<तदोः सः सावनन्त्ययोः>> 7.2.106 इति दकारस्य सकारः] अत्र एकं वार्तिकं ज्ञातव्यम् - <!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> । अस्य वार्तिकस्य अर्थः अयम् - <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> 5.3.71 अनेन सूत्रेण सर्वनामशब्दानां विषये अकच्-प्रत्ययः स्वार्थे प्रयुज्यते । अयमकच्-प्रत्ययः अङ्गस्य 'टि'संज्ञकात् पूर्वमागच्छति, अतः अदस्-शब्दात् अकच्-प्रत्यये कृते 'अदकस्' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनेन सूत्रेण निर्दिष्टः औ-आदेशः विकल्पेन भवति । तथा च, यत्र अयमादेशः न भवति, तत्र सकारात् परस्य वर्णस्य उत्वमपि भवति । यथा - 1) औ-आदेशस्य उपस्थितौ - अदकस् + सुँ → अदक औ [<<अदस औ सुलोपश्च>> 7.2.107 इति सकारस्य औकारः, सुलोपश्च] → अदकौ [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] → असकौ [ <<तदोः सः सावनन्त्ययोः>> 7.2.106 इति दकारस्य सकारः] 2) औ-आदेशस्य अभावे - अदकस् + स् अदक अ + स् [<<त्यदादीनामः>> 7.2.102 इति सकारस्य अकारः] → अदक + स् [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] → असक + स् [<<तदोः सः सावनन्त्ययोः>> 7.2.106 इति दकारस्य सकारः] → असुक + स् [<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> अनेन वार्तिकेन औ-आदेशस्य अभावे सकारात् परस्य अकारस्य उकारः] → असुकः [विसर्गनिर्माणम्]
<<अदस औ सुलोपश्च>> - अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ ।अदस इति षष्ठी । 'औ' इत्यविभक्तिकनिर्देशः । 'तदोः सः सौ' इत्यतःसा वित्यनुवर्तते । तदाह — अदस इति । 'अन्तादेश' इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापवाद इति भावः । असौ इति । अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम् ।अतअव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह — औत्वप्रतिषेध इति ।अदस औ सुलोपश्चे॑त्यत्र अदस्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः । 'तदोः सः सौ' इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः । ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति । तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह — प्रतिषेधेति ।सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः॑ इति न्यायादिति भावः । 'अमुकः' 'अमुकशर्मा' इत्यादि त्वसाध्वेवेत्याहुः । केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । पररूपमपि बोध्यम् । मत्वोत्वे इति । 'अदौ' इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः । जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह — जसःशीति । आद्गुणे अदे इति स्थितम् ।
असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्यदाद्यत्वं दकारस्य सत्वं सकारादुतरस्य चाकचोऽकारस्य उत्वम् । उतरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते । अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ।लं प्रकल्पितायामदस उतरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते ए। यद्येवम्, तत्र हल्ग्रहणं कर्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठआआ प्रकल्पयिष्यति तस्मादित्युतरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेतस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङ् चापिः सम्बुद्धौ च थैत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियामसा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ् आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ॥