1-3-28 आङः यमहनः धातवः आत्मनेपदम् कर्तरि अकर्मकात् च
अकर्मकात् आङः यमहनः आत्मनेपदम्
अकर्मकप्रयोगेषु 'आङ्' उपसर्गात् यम्, हन् धातुभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'आङ्' is attached to verbs यम् / हन् , they get the प्रत्ययाः of आत्मनेपद ; provided that the verbs are used in an अकर्मक sense.
अकर्मकादिति वर्तते। <<यम उपरमे>>,<<हन हिंसागत्योः>> इति परस्मैपदिनौ। ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति। आयच्छते, आयच्छेते, आयच्छन्ते। हनः खल्वपि — आहते, आघ्नाते, आघ्नते। अकर्मकादित्येव — आयच्छति कूपाद् रज्जुम्। आहन्ति वृषलं पादेन॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ आयच्छते पाणिम्। आहते शिरः। स्वाङ्गं चेह न पारिभाषिकं गृह्यते। किं तर्हि ? स्वमङ्गं स्वाङ्गम्, तेनेह न भवति — आहन्ति शिरः परकीयमिति॥
आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥
यम् (उपरमे) / हन् (हिंसागत्योः) - एतौ वस्तुतः परस्मैपदिनौ धातू, परन्तु आङ्-उपसर्गपूर्वकाभ्याम् एताभ्यामकर्मक-अर्थेषु आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आयच्छते ('तनुते' इत्यर्थः), आहते (हन्ति इत्यर्थः) । सकर्मकेषु अर्थेषु तु परस्मैपदमेव - कुपात् रज्जुमायच्छति ('निष्कासयति' इत्यर्थः), भूमीं पादेन आहन्ति । वार्तिकम् - <!स्वाङ्गकर्मात् चेति वक्तव्यम्!> - यत्र एतौ धातू सकर्मकप्रयोगे प्रयुज्येते, परन्तु कर्मपदम् 'कर्तुः अङ्गस्य कश्चन अवयवः' अस्ति, तत्रापि आत्मनेपदम् प्रयोक्तव्यम् । यथा - सः स्वस्य पाणिमायच्छते ('तनुते' इत्यर्थः), सः स्वस्य शिरमाहत्ते ('हन्ति' इत्यर्थः) । पराङ्गमस्ति चेत् परस्मैपदमेव - सः भार्याः पाणिमायच्छति, सः शत्रोः शिरं आहन्ति । ज्ञातव्यम् - 1) भारतेः किरातार्जुनीये 'आजघ्ने विषम् विलोचनस्य वक्षः' अत्र पराङ्गे स्थितेऽपि आ + हन् अस्य आत्मनेपदी प्रयोगः दृश्यते । अयं तु प्रामादिकः । 2) भट्टेः भट्टिकाव्ये 'आहध्वम् मा रघूत्तमम्' अत्र पराङ्गे स्थितेऽपि आ +आत्मनेपदी प्रयोगः दृश्यते । अयमपि प्रामादिकः ।
<<आङो यमहनः>> - आङो यमहनः । आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः । आयच्छते इति । रज्जुर्दीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ।स्वोदर॑मिति शेषः । परस्य शिर आहन्तीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम् । कथं तर्हीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः । प्राप्येति । विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव,धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॑ इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् । ननु प्राप्येत्यध्याहारेप्रासादात्प्रेक्षते॑ इत्यादिवत्पञ्चमी स्यादित्यत आह — ल्यब्लोपे इति ।ल्यब्लोपे पञ्चमी॑त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव- । 'आजघ्ने विषमे' त्यत्र परिहारान्तरमाह — समीपमेत्येति वेति । 'अध्याहार' इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । लुङि आहन् स् त इति स्थिते —
आहतेति।ठनुदातोपदेशऽइत्यनुनासिकलोपः। आघ्नत इति। पूर्ववदादेशोपधालोपौ कुत्वं च । आहन्ति शिरः परकीयमिति। ठाजघ्ने विषमविलोचनस्य वक्षःऽ इत्यत्र तु गाण्डीवी विषमविलोचनस्य वक्ष एत्य स्वं वक्षो हतवानित्यर्थः । मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष एत्य एवं वक्षो हतवानित्यर्थः। मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष आस्पालयति॥