स्थानेऽन्तरतमः

1-1-50 स्थाने अन्तरतमः आदेशे षष्ठी स्थाने

Sampurna sutra

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


स्थाने अन्तरतमः

Neelesh Sanskrit Brief

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


स्थानिनः अनेके आदेशाः सम्भवन्ति चेत् तेभ्यः सदृशतमः आदेशः एव विधीयते ।

Neelesh English Brief

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


Out of multiple आदेशाः possible in a place, the one that is closest in properties gets selected.

Kashika

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति सदृशतमः । कुतश्च शब्दस्य आन्तर्यम् ? स्थानार्थगुणप्रमाणतः । स्थानतः - अकः सवर्णे दीर्घः 6.1.101 - दण्डाग्रम्, यूपाग्रम् - द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति । अर्थतः - वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः - पुंवद्भावेन आन्तरतमः पुंशब्दोऽतिदिश्यते । गुणतः - पाकः, त्यागः, रागः - चजोः कु घिण्यतोः 7.3.52 इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति, जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः । प्रमाणतः - अमुष्मै, अमूभ्याम् - अदसोऽसेर्दादु दो मः 8.2.80 इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः । स्थाने इति वर्तमाने पुनः स्थानेग्रहणं किम् ? यत्र अनेकमान्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात् - चेता, स्तोता । प्रमाणतोऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः । तमब्ग्रहणं किम् ? वाग् घसति, त्रिष्टुब् भसति । झयो होऽन्यतरस्याम् 8.4.62 इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः ; नादवतो नादवन्तः इति तृतीयाः ; तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः ॥

Siddhanta Kaumudi

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


प्रसङ्गे सति सदृशतम आदेशः स्यात् । [(परिभाषा - ) यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः] ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


अष्टाध्याय्यां विद्यमानैः विधिसूत्रैः भिन्नेषु स्थलेषु भिन्नाः आदेशाः विधीयन्ते । एतैः सूत्रैः एकस्मिन् एव प्रसङ्गे यदि एकाधिकाः आदेशाः उच्यन्ते, तर्हि तेषु कः आदेशः चेतव्यः इति निर्णयं कर्तुम् प्रकृतसूत्रम् उपयुज्यते । एतादृशे प्रसङ्गे सदृशतमः (most similar) आदेशः भवति —‌ इति प्रकृतसूत्रस्य आशयः ।

आदेशानाम् स्थानिभिः सह साधर्म्यम् चतुर्विधम् अस्ति इति व्याख्यानैः स्पष्टी क्रियते ।आदेशचयनस्य प्रसङ्गे एते चत्वारः प्रकाराः तत्तत्क्रमेणैव निरीक्ष्य, यस्य प्रकारस्य अवलम्बं कृत्वा सदृशतमस्य आदेशस्य चयनं सम्भवति, तस्य प्रकारस्य आधारेण आदेशस्य अत्र निर्णयः क्रियते । एतेषाम् क्रमेण विवरणम् एतादृशम् —

1. स्थानसादृश्यम् — यत्र भिन्नानाम् आदेशानाम् उच्चारणस्थानम् परस्परेभ्यः भिद्यते, तत्र स्थानिनः उच्चारणस्थानेन सह यस्य उच्चारणस्थानम् सदृशतमम्, तस्य आदेशस्य चयनम् क्रियते । यथा, दैत्य + अरि इत्यत्र अकः सवर्णे दीर्घः 6.1.101 इति सूत्रेण द्वयोः अकारयोः स्थाने दीर्घः एकादेशः भवति । अत्र 'आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ' एते सर्वेऽपि दीर्घसंज्ञकाः वर्णाः आदेशरूपेण प्राप्नुवन्ति । तत्र स्थानिनोः उच्चारणस्थानम् 'कण्ठः' इति दृष्ट्वा, तत्सदृशतमः कण्ठेन उच्चार्यमाणः आकारः एव स्थानसाधर्म्यात् आदेशरूपेण विधीयते ।प्रक्रिया इयम् —

दैत्यानाम् अरिः

→ दैत्य + अरि [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ दैत्यारि [अकः सवर्णे दीर्घः 6.1.101 इति दीर्घैकादेशः । अत्र द्वयोः अकारयोः स्थाने उच्चारणस्थानसाधर्म्यात् आकारः आदेशरूपेण विधीयते ]

स्थानसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — मिदेर्गुणः 7.3.82 इत्यनेन मिद्-धातोः इकारस्य गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकाः अकार-एकार-ओकाराः आदेशरूपेण प्राप्नुवन्ति । एतेषाम् त्रयाणाम् अपि उच्चारणस्थानम् भिन्नम् अस्ति — अकारस्य कण्ठः, एकारस्य कण्ठतालु, ओकारस्य कण्ठोष्ठम् । अतः अत्र स्थानसादृश्यस्य साहाय्यं स्वीकृत्य आदेशस्य चयनं क्रियते । तत्र स्थानिनः (इकारस्य) उच्चारणस्थानम् तालु इति , तत्सदृशम् केवलम् एकारस्य एव उच्चारणस्थानम् वर्तते (यतः एकारस्य उच्चारणे अपि तालुनः प्रयोगः क्रियते) अतः अत्र इकारस्य स्थाने एकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् —

ञिमिदाँ (स्नेहने, दिवादिः, <{4.158}>)

→ मिद् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ मिद् + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ मिद् + श्यन् + ति [दिवादिभ्यः श्यन् 3.1.69 इति श्यन्-प्रत्ययः]

→ मेद् + य + ति [मिदेर्गुणः 7.3.82 इति मिद्-धातोः इकारस्य गुणः । स्थानेऽन्तरतमः 1.1.50 इति स्थानसाधर्म्यात् इकारस्य स्थाने एकारः]

→ मेद्यति

2. अर्थसादृश्यम् — यत्र स्थानसादृश्यस्य आधारेण आदेशस्य चयनं नैव कर्तुं शक्यते, तत्र अर्थस्य आधारेण आदेशस्य चयनम् कर्तुम् यत्नः कर्तव्यः । इत्युक्ते, भिन्नेभ्यः आदेशेभ्यः यस्य आदेशस्य अर्थः स्थानिनः सदृशः अस्ति, तस्य आदेशस्य चयनम् करणीयम् । अस्य उदाहरणम् इत्थम् — वतण्डशब्दात् स्त्रीवाचिनि गोत्रापत्यार्थे वतण्डाच्च 4.1.108 इति शब्देन यञ्-प्रत्यये कृते वातण्ड्य-शब्दे प्राप्ते; ततः स्त्रीत्वस्य विवक्षायाम् शार्ङ्गरवाद्यञो ङीन् 4.1.73 इत्यनेन ङीन्-प्रत्ययं कृत्वा, ततः लुक् स्त्रियाम् 4.1.109 इत्यनेन यञ्-प्रत्ययस्य लोपे कृते वतण्डी इति शब्दः सिद्ध्यति । अस्य वतण्डी-शब्दस्य यत्र कर्मधारयसमासः क्रियते, तत्र पुंवत् कर्मधारयजातीयदेशीयेषु 6.3.42 इति सूत्रेण वतण्डी-शब्दस्य पुंवद्भावः प्राप्नोति । अत्र वतण्डी-शब्दस्य पुंवद्भावे यद्यपि वतण्ड-इति रूपं सम्भवति, तथापि तस्य अर्थः वतण्डी-शब्दस्य अर्थात् भिद्यते, यतः वतण्डी-शब्दः गोत्रापत्यस्य अर्थे अत्र प्रयुक्तः अस्ति । अतः अत्र वतण्डी-शब्दस्य पुंवद्भावे कृते वतण्ड-शब्दः नैव गृह्यते, अपि तु अर्थेन सदृशः वातण्ड्य-इत्येव शब्दः स्वीक्रियते । प्रक्रिया इयम् —

वतण्डस्य गोत्रापत्यम्

→ वतण्ड + यञ् [वतण्डाच्च 4.1.108 इति यञ् । ]

→ वातण्ड्य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः, यस्येति च 6.4.148 इति अकारलोपः]

→ वातण्ड्य् + ङीन् [स्त्रीत्वस्य विवक्षायाम् शार्ङ्गरवाद्यञो ङीन् 4.1.73 इति ङीन्-प्रत्ययः]

→‌ वतण्ड + ई [लुक् स्त्रियाम् 4.1.109 इति यञ्-प्रत्ययस्य लुक् । प्रत्ययस्य लुकि कृते <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इति तद्विशिष्टम् कार्यम् अपि निवर्तते ।]

→ वतण्ड् + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ वतण्डी

→ वतण्डी च असौ युवतिः च [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

→ वातण्ड्य + युवति [पुंवत् कर्मधारयजातीयदेशीयेषु 6.3.42 इति सूत्रेण वतण्डी-शब्दस्य पुंवद्भावः प्राप्नोति । अत्र 'वतण्ड' तथा 'वातण्ड्य' इति द्वौ शब्दौ पुंवद्भावेन प्राप्नुतः, यतः द्वयोः अपि स्त्रीत्वे 'वतण्डी' इत्येव सिद्ध्यति । अतः अत्र उचितस्य आदेशस्य चयनम् अर्थसादृश्यस्य आधारेण क्रियते । वतण्डी-शब्दः अत्र गोत्रापत्यस्य अर्थे प्रयुज्यते, अतः पुंवद्भावे कृते अर्थेन सदृश्यः वातण्ड्यशब्दः एव अत्र आदेशरूपेण विधीयते ।

→ वातण्ड्ययुवति

अर्थसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — तृज्वत् क्रोष्टुः 7.1.95 इति सूत्रे क्रोष्टु-शब्दस्य स्थाने तृज्वद्भावे प्राप्ते, कर्तृ/हर्तृ/दातृ-इत्यादयः भिन्नाः शब्दाः तत्र आदेशरूपेण प्राप्नुवन्ति; परन्तु एतेषु सर्वेषु अर्थेन सदृशः 'क्रोष्टृ' इत्येव शब्दः अत्र आदेशरूपेण स्वीक्रियते । यथा —

क्रोष्टु + औ [प्रथमाद्विवचनस्य औ-प्रत्ययः]

→ क्रोष्टृ + औ [तृज्वत् क्रोष्टुः 7.1.95 इति सूत्रेण क्रोष्टु-शब्दस्य स्थाने तृजन्तः सदृशतमः क्रोष्टृ-आदेशः]

→ क्रोष्टर् + औ [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । उरण् रपरः 1.1.51 इति सः रपरः]

→ क्रोष्टारौ [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11 इत्यनेन अङ्गस्य उपधायाः दीर्घः]

3. गुणसादृश्यम् —‌ स्थानसदृशम् तथा च अर्थसदृशम् - द्वयोः अपि साहाय्येन आदेशस्य चयनम् यत्र न शक्यम्, तत्र बाह्यप्रयत्नस्य (गुणस्य) आधारेण आदेशस्य चयनम् करणीयम् । यथा, वाग् + हरिः इत्यत्र झयो होऽन्यतरस्याम् 8.4.62 इति सूत्रेण हकारस्य पूर्वसवर्णः प्राप्नोति । अत्र हकारस्य सवर्णाः क्/ख्/ग्/घ् एते चत्वारः वर्णाः आदेशरूपेण प्राप्नुवन्ति । एतेषाम् सर्वेषाम् अपि उच्चारणस्थानम् 'कण्ठः' इति समानम् अस्ति, अतः अत्र स्थानसाधर्म्यात् आदेशचयनं नैव सम्भवति । एवमेव अत्र अर्थविशिष्टम् आदेशविधानम् न कृतम् अस्ति अतः अत्र अर्थसाधर्म्यात् अपि आदेशचयनं न सम्भवति । अस्यां स्थितौ आदेशनिर्णयार्थम् एतेषाम् वर्णानाम् बाह्यप्रयत्नाः अवलोक्यन्ते । ते एतादृशाः —

i) ककारस्य बाह्यप्रयत्नः = विवार-श्वास-अघोष-अल्पप्राणः

ii) खकारस्य बाह्यप्रयत्नः = विवार-श्वास-अघोष-महाप्राणः

iii) गकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-अल्पप्राणः

iv) घकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-महाप्राणः

v) हकारस्य बाह्यप्रयत्नः = संवार-नाद-घोष-महाप्राणः

हकारस्य बाह्यप्रयत्नः घकारसदृशाः सन्ति इति निष्कर्षः अत्र सिद्ध्यति । अतः अत्र हकारस्य स्थाने तत्सदृशतमः संवार-नाद-घोष-महाप्राणवान् घकारः आदेशरूपेण स्वीकृत्य वाग्घरि इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

वाचाम् हरिः

→ वाक् + हरि [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ वाग् + हरि [झलां जशोऽन्ते 8.2.39 इति ककारस्य जश्त्वे गकारः]

→ वाग् + घरि [झयो होऽन्यतरस्याम् 8.4.62 इति हकारस्य पूर्वसवर्णादेशे घकारादेशः । अत्र गुणस्य आधारेण आदेशस्य चयनं क्रियते ।]

→ वाग्घरि

गुणसादृश्यस्य अपरम् उदाहरणम् एतादृशम् — पच्-धातोः घञ्-प्रत्यये कृते चजोः कु घिण्ण्यतोः 7.3.52 इत्यनेन कुत्वं विधीयते । तत्र कवर्गस्य पञ्च अपि वर्णाः (क्, ख्, ग्, घ्, ङ्) आदेशरूपेण प्राप्नुवन्ति । एतेभ्यः चकारस्य बाह्यप्रयत्नाः (विवार-श्वास-अघोष-अल्पप्राणः) एते ककारेण सह समानाः सन्ति इति दृष्ट्वा चकारस्य स्थाने ककारस्यैव आदेशरूपेण विधानम् भवति । प्रक्रिया इत्थम् —

पच् + घञ् [भावे 3.3.18 इति घञ्]

→ पच् + अ [इत्संज्ञालोपः]

→ पाच् + अ [अत उपधायाः 7.2.116 इति वृद्धिः]

→ पाक [चजोः कु घिण्ण्यतोः 7.3.52 इति चकारस्य स्थाने गुणसाधर्म्यात् ककारादेशः]

गुणसादृश्यस्य तृतीयम् उदाहरणम् एतादृशम् — उद् + स्थानम् इत्यत्र उदः स्थास्तम्भोः पूर्वस्य 8.4.61 इति सूत्रेण सकारस्य स्थाने पूर्वसवर्णादेशः विधीयते । तत्र दकारस्य सवर्णाः त्, थ्, द्, ध्, न् एते पञ्च वर्णाः आदेशरूपेण प्राप्नुवन्ति । अस्यां स्थितौ सकारस्य विवार-श्वास-अघोष-महाप्राणम् बाह्यप्रयत्नं दृष्ट्वा तत्सदृशः बाह्यप्रयत्नः यस्य वर्णस्य अस्ति, सः एव वर्णः (इत्युक्ते, थकारः) आदेशरूपेण विधीयते । प्रक्रिया इयम् —

उद् + स्थानम्

→ उत् + स्थानम् [खरि च 8.4.55 इति चर्त्वम्]

→ उत् + थ्थानम् [उदः स्थास्तम्भोः पूर्वस्य 8.4.61 इति सकारस्य सदृशतमः थकारः आदेशरूपेण विधीयते ।]

→ उत्थ्थानम्

→ उत्थानम् [झरो झरि सवर्णे 8.4.65 इत्यनेन थकारस्य विकल्पेन लोपः]

4. प्रमाणसादृश्यम् —‌ यत्र अन्यैः प्रकारैः आदेशस्य चयनम् न हि सम्भवति, तत्र उच्चारणकालस्य (प्रमाणस्य) आधारेण आदेशस्य चयनम् करणीयम् । यथा, अदस्-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् अदा + भ्याम् इति स्थिते अदसोऽसेर्दादु दो मः 8.2.80 अनेन सूत्रेण अदस्-शब्दस्य दकारस्य मकारादेशः, तथा च दकारात् परस्य वर्णस्य (आकारस्य) उकारादेशः भवति ।<ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> इति परिभाषया अत्र आदेशरूपेण उक्तः उकारः अवश्यं सवर्णग्रहणं करोति, अतः अत्र ह्रस्व-उकारः तथा च दीर्घ-ऊकारः एतौ द्वौ अपि आदेशरूपेण प्राप्नुतः । एताभ्याम् उचितस्य आदेशस्य चयनं कर्तुम् अत्र उच्चारणकालस्य साधर्म्यम् स्वीक्रियते । तत्र आकारः दीर्घसंज्ञकः वर्णः अस्ति, अतः तस्य स्थाने मात्रासाधर्म्यात् दीर्घ-ऊकारः एव आदेशरूपेण विधीयते । अनेन अमूभ्याम् इति दीर्घघटितं रूपं सिद्ध्यति । प्रक्रिया इयम् —

अदस् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः]

→ अदअ + भ्याम् [त्यदादीनामः 7.2.102 इति अकारादेशः]

→ अद + भ्याम् [अतो गुणे 6.1.97 इति पररूपैकादेशः]

→ अदा + भ्याम् [सुपि च 7.3.102 इति अङ्गस्य दीर्घः]

→ अमू + भ्याम् [ अदसोऽसेर्दादु दो मः 8.2.80 इत्यनेन दकारस्य मकारः, आकारस्य तत्सदृशः दीर्घः ऊकारः]

→ अमूभ्याम्

यत्र ह्रस्व-वर्णस्य स्थाने उवर्णादेशः प्राप्नोति, तत्र मात्रासादृश्यात् ह्रस्व-उकारः आदेशरूपेण विधीयते । यथा -

अदस् + ङे [चतुर्थ्येकचवनस्य प्रत्ययः]

→ अदअ + ङे [त्यदादीनामः 7.2.102 इति अकारादेशः]

→ अद + ङे [अतो गुणे 6.1.97 इति पररूपैकादेशः]

→ अद + स्मै [सर्वनाम्नः स्मै 7.1.14 इति स्मै-आदेशः]

→ अमु + स्मै [ अदसोऽसेर्दादु दो मः 8.2.80 इत्यनेन दकारस्य मकारः, दकारात् परस्य वर्णस्य (अकारस्य) तत्सदृशः ह्रस्वः उकारः]

→ अमुष्मै [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

अनेन प्रकारेण स्थान-अर्थ-गुण-प्रमाण-साधर्म्यस्य आधारे उचिततमस्य आदेशस्य निर्णयः सम्भवति ।

अनेकविधे आनन्तर्ये स्थानसाधर्म्यम् एव ग्रहीतव्यम्

प्रकृतसूत्रे पूर्वसूत्रात् स्थाने इति शब्दः 'उच्चारणप्रसङ्गः' अस्मिन् अर्थे अनृवृत्तिरूपेण स्वीक्रियते । प्रकृतसूत्रे अपि स्थाने इति शब्दः पाठितः अस्ति । अस्य अर्थः तु उच्चारणस्थानम् इति स्वीक्रियते । इत्युक्ते, यत्र अनेकाः आदेशाः सम्भवन्ति, तत्र प्रारम्भे उच्चारणस्थानस्य साधर्म्यम् एव द्रष्टव्यम्, तस्यु आधारेण सदृशतमः आदेशः लभ्यते चेत् अन्य-साधर्म्यानाम् चिन्तनम् नैव करणीयम् — इति अत्र आशयः अस्ति । अतएव, उपरिनिर्दिष्टे मेद्यति इति उदाहरणे इकारस्य स्थाने यदा गुणसंज्ञकवर्णस्य विधानं भवति, तदा तत्र अकार-एकार-ओकाराः आदेशरूपेण प्राप्नुवन्ति । अत्र अकारस्य इकारेण सह प्रमाणसाधर्म्यम् विद्यते, परन्तु एकारस्य इकारेण सह उच्चारणस्थानसाधर्म्यं विद्यते । अस्यां स्थितौ उच्चारणस्थानसाधर्म्यस्य एव चिन्तनं भवति, अन्यसाधर्म्यस्य न । अतः तस्मिन् उदाहरणे इकारस्य स्थाने एकारादेशः एव आदेशरूपेण विधीयते । एतम् विषयम् एव उपलक्ष्य परिभाषेन्दुशेखरे <ऽयत्र अनेकविधमान्तर्यम्, तत्र स्थानतः आन्तर्यं बलीयःऽ> इति परिभाषा पाठिता लभ्यते । तत्र नागेशेन एतेषाम चतुर्णाम् अपि भेदानां उदाहरणानि दत्तानि सन्ति । प्रकृतसूत्रस्य भाष्ये अपि एतेषाम् विवरणम् लभ्यते ।

Balamanorama

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


स्थानेऽन्तरतमः - स्थानेऽन्तरतमः । 'स्थानं प्रसङ्ग' इत्युक्तम् । अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः । तदाह — प्रसङ्गे सतीत्यादिना । एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः । अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम् । गुणशब्देन प्रयत्नः । प्रमाणशब्देन एकद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा — दध्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकारः । अर्थतो यथा — तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति । गुणतो यथा — वाग्घरिः । अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान् । तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात् । ककारस्तु न भवति, तस्य आआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात् । तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि आआसाऽघोषविवारप्रयत्नभेदात् । तथा तृतीयो ।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण आआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात् । अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात् । अतिशयितो ह्रन्तरोऽन्तरतमः । अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात् । खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात् । गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात् । प्रमाणतो यथा — ॒अदसोऽसोर्दादुदोमः॑ इति । ह्रस्वस्य उकारो दीर्घस्य ऊकारः । नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह — यत्रेति । तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात् । नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम् । एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात् । अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तं च विपरिणम्यते । अनुवर्त्त्यमानस्चायंस्थान॑शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात् । 'अन्तरतम' इत्यपि तेन संबध्यते । ततश्च 'स्थानेनाऽन्तरतम' इति वाक्यान्तरं संपद्यते । सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः । ततश्चयत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय॑ इति (सिद्धं) भवति ।

Padamanjari

Up

index: 1.1.50 sutra: स्थानेऽन्तरतमः


यद्ययं स्वतन्त्रो विधिः स्याद्, अत्रापि प्राप्नोति - दघि, मघु । अस्तु; न कश्चिदन्य आदेशः प्रतिनिर्द्दिश्यते, तत्रान्तर्यतः स एव तस्य भविष्यति, न; तस्याप्यन्य इत्यनवस्थाप्रसङ्गात् । प्रयोजनमन्तरेण हि प्रवर्तमानमसकृदपि प्रवर्तते । ततश्च सर्वस्य निवृत्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । अपि च बिसं मुसलमित्यादौ यदा समुदायस्य समुदायस्तदा सकारमात्रस्यानादेशत्वात् षत्वाप्रसङ्गेऽपि सकारमात्रस्य सकार इति षत्वं प्राप्नोति । अतः परिभाषाप्रकरणात् परिभाषेयं यत्र स्थानषष्ठी तत्रोपतिष्ठते । तेन विधिवाक्यानामनेन सूत्रेणैकवाक्यत्वाद् विधानकाल एवान्तरतम आदेशो विधीयत इत्याह - स्थाने प्राप्यमाणानामिति । अत्रैवशब्दाप्रयोगात् प्राप्यमाणानामिति वचनच्च विशिष्टविधिरेवायम्, न नियमः । अर्थात्वनन्तरतमव्युदास इति दर्शितं भवति । अन्तरतम इत्यस्यार्थमाह - सदृशतम इति । कुतश्चेति । शब्दत्वस्य साधारणत्वात् प्रापतिस्विकविशेषस्य चासाधारणत्वात् प्रश्नः । वतण्डी चासौ युवतिरिति । विग्रहवाक्यम्, इतरदुदाहरणम् । अत्र वतण्डस्यापत्यं स्त्री 'वतण्डाच्च' 'लुक् स्त्रियाम्' इति यञो लुक्, शार्ङ्गरवादिपाठान्ङीन् । 'पएटायुवति' इति समासे सति पुंवत्कर्मधारयेति पुंशब्दो निर्द्दिश्यमानो वतण्डापत्यवाचिनो वतण्डशब्दस्यतदपत्यवाची वातण्ड।ल्शब्दो भवति । चकारस्येत्यादि । अल्पप्राणत्वादिकं सवर्णसंज्ञायामुक्तम् । अमुष्मै, अमूभ्यामिति । अदसश्चतुर्थ्येकवचने त्यदाद्यत्वम्, शर्वनाम्नः स्मै', भ्यामिशुपि च' इति दीर्घत्वम् । स्थान इति वर्तमान इति । पूर्वसूत्राद् । यद्यपि तत्र समस्तम्, तथापि स्वरितत्वानुषङ्गादनुवृत्तिरिविरुद्धा । पुनः स्थानेग्रहणमिति । प्रकृतेन हि स्थानशब्देन स्थाने प्राप्यमाणानामित्ययमर्थो लभ्यते, अयं तु ताल्वादिस्थानवचनो वाक्यभेदेन सम्बध्यते, स्थानैऽन्तरतमो भवति । यत्रानेकमान्तर्थं तत्र स्थानकृतान्तर्थमाश्रीयत इति वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे सादृश्यान्तरपरित्यागात् तमब्ग्रहणं व्यर्थमेव स्यात् । तमब्ग्रहणं किमिति । सुमदृश्यव्यवहारदर्शनात् तमब्ग्रहणमिति भावः । सोष्मणः, सोष्माण इत्यादि । ऊष्मशब्दोऽत्र गुणमात्रवचनः । इतिकरणो हेतौ । यस्मादूष्मगुणयुक्ताः, तस्मादूष्मगुणयुक्तस्य हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । 'शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः' इति शिक्षा । अत्रोष्मशब्दो गुणवचनः, सस्थानेनेति इत्थंभूतलक्षणे तृतीया । हशषसाः खच्छादीनां द्वितीयानां स्थाना यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः । फकारस्य सस्थान ऊष्मा नास्ति, तस्मातस्य विशेषत ऊष्मत्वं वक्तव्यम् । हकारेण चतुर्था इति, यथाहकार ऊष्मा एवं तेऽपीत्यर्थः । एवं नादवतो नादवन्त इतीत्यत्रापि हेत्वर्थो योज्यः । इह इष्टम्, उप्तम् - आन्तर्यतोऽर्द्धमात्रस्य व्यञ्जनस्यार्द्धमात्रेक् संप्रसारणं प्राप्नोति; इह च दध्यत्र, कुमार्यत्र, ब्रह्मबन्ध्वर्थम् - मात्रिकद्विमात्रिकत्रिमात्रिकाणामिकां मात्रिकद्विमात्रिकत्रिमात्रिका यणः प्राप्नुवन्त्यान्तर्यतः । नैव लोके वेदेऽर्द्धमात्र इगस्ति, नापि मात्रिको द्विमात्रिको वा यण्, योऽस्ति स भविष्यति । इहान्तरतमशब्दः सप्तम्यन्तोऽपि पठितो भाष्ये । 'स्थानेऽन्तरतम उरण् रपरः' इति संहितापाठोऽनित्यः' तत्र पदच्छेदे सप्तम्यन्तमपि सम्भवति । तत्र चायमर्थः-षष्ठीति वर्तते,अन्तरतमो य आदेशस्य स्थानी, तत्र षष्ठी, तस्यादेश इति 'अकः सवर्णे दीर्घः' इत्यादौ विधीयमानस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठ।लेपसंहारात् सिद्धमिष्ठम् । तथा 'वान्तो यि प्रत्यये' इत्यत्रैव इत्यनुवृतायाः षष्ठ।ल वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात् सिद्धम्, इतरथैज्मात्रस्य वान्तादेशः स्यात् । अत्र यक्षे दोषः -'इको यणचि' इति यणो येऽन्तरमा इकस्तत्र षष्ठीति दध्यत्रेत्यादावेव स्यात्, कुमार्थत्रेत्यादौ न स्यात् । तथा 'इको गुणवृद्धी' गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठीति इहैव स्याद्-नेता, लविता, नायकः, लावकः; चेता, स्तोता, चायकः, तावक इत्यत्र न स्यात् । एवं दोषवत्वादस्य पक्षस्य यथाव्याख्यातमेव साधीयः । 'वान्तो यि प्रत्यये' इत्यत्र परिहारं वक्ष्यति ॥