विशेषणं विशेष्येण बहुलम्

2-1-57 विशेषणं विशेष्येण बहुलम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.57 sutra: विशेषणं विशेष्येण बहुलम्


भेदकं विशेषणं, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनम् व्यवस्थार्थम्। क्वचिन् नित्यसमास एव, कृष्णसर्पः, लोहितशालिः। क्वचिन् न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः, नीलमुत्पलम्, नीलोत्पलम्। विशेषणम् इति किम्? तक्षकः सर्पः। विशेष्येण इति किम्? लोहितस्तक्षकः।

Siddhanta Kaumudi

Up

index: 2.1.57 sutra: विशेषणं विशेष्येण बहुलम्


भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.57 sutra: विशेषणं विशेष्येण बहुलम्


भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥

Balamanorama

Up

index: 2.1.57 sutra: विशेषणं विशेष्येण बहुलम्


विशेषणं विशेष्येण बहुलम् - विशेषणं विशेष्येण । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम् । व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह — भेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्य समर्पकेण समासः । प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः । नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात् । यथा-॒नीलोत्पलं॑ 'पाचकब्राआहृण' इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खञ्जकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-॒खञ्जपाचकः॑ 'पाचकखञ्ज' इति -इतिभाष्ये स्पष्टम् । तथा 'कैलासाद्रिः' 'मन्दराद्रिः'अयोध्यानगरी॑त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । 'शिंशपावृक्ष' इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह — बहुलग्रहणादिति ।

Padamanjari

Up

index: 2.1.57 sutra: विशेषणं विशेष्येण बहुलम्


भेदकमिति। असिश्च्छिनतीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति।'शिष्लृ शेषणे' विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोतरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमितकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-ठ्लुब्योगाप्रख्यानात्ऽ इति इह तर्हि कथम् ठथ जयाय नु मेरुमहीभृतःऽ इति, न मेरुर्महीभृत्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पतेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव'श्वेतं छागमालभेत' इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति॥ विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुतरपदस्य विशेषणत्वप्रतिपत्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोतरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि'पाठक्रमादथक्रमो बलायम्' इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्॥