मिदेर्गुणः

7-3-82 मिदेः गुणः शिति

Kashika

Up

index: 7.3.82 sutra: मिदेर्गुणः


मिदेरङ्गस्य इको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः, मेद्यन्ति। शिति इत्येव, मिद्यते।

Siddhanta Kaumudi

Up

index: 7.3.82 sutra: मिदेर्गुणः


मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ।{$ {!744 ञिष्विदा!} स्नेहनमोचनयोः$} । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ।{$ {!745 रुच!} दीप्तावभिप्रीतौ च$} । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट ।{$ {!746 घुट!} परिवर्तने$} । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ।{$ {!747 रुट!} {!748 लुट!} {!749 लुठ!} प्रतिघाते अरुटत्$} । अरोटिष्ट ।{$ {!750 शुभ!} दीप्तौ$} ।{$ {!751 क्षुभ!} संचलने$} ।{$ {!752 णभ!} {!753 तुभ!} हिंसायाम्$} । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च ।{$ {!754 स्रंसु!} {!755 ध्वंसु!} {!756 भ्रंसु!} अवस्रंसने$} । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ ।{$ {!757 स्रम्भु!} विश्वासे$} । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ।{$ {!758 वृतु!} वर्तने$} । वर्तते ॥

Balamanorama

Up

index: 7.3.82 sutra: मिदेर्गुणः


मिदेर्गुणः - ॒मिमिदे॑ इत्यत्र लिटःअसंयोगा॑दिति कित्त्वेऽपि गुणं शङ्कितुमाह — मिदेर्गुणः ।मिदे॑रित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते,ष्ठिवुक्लमुचमां शिति॑ इत्यतः शितीत्यनुवर्तते । श् चासाविच्चेति कर्मधारयः । तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते । तदाह — मिदेरित्यादिना । दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह — एश आदिशित्त्वाभावादिति । ञिष्विदेति । षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति । अभिप्रीतिः- प्रीतिविषयीभवनम् । दीप्तौ उदाहरत — रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति — हरये रोचते भक्तिरिति । भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः ।रुच्यर्थाना॑मिति संप्रदानत्वाच्चतुर्थी । क्षुभ संचलने इति । क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुर्णोपदेश नभते । आद्योऽभावे चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति — नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह — मा भूवन्नन्यके सर्वे इति ।नभन्ता॑मित्यस्य विवरणं — भा भूवन्निति । न भवन्तीत्यर्थः ।समे॑इत्यस्य विवरणं — सर्वे इति । निरुक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । रुआंसु ध्वंसु भ्रंसु इति । त्रयो नोपधा इति भावः । नारुआसदिति । 'नारुआंस' दित्यपपाठः । नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात् । रुआम्भुदातुरकारमध्यः । वृतु वर्तने इति । उदित् ऋदुपधः सेट्कः । वर्तते इति । शपि गुणे रपरत्वम् । ववृते इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि — वर्तिता ।

Padamanjari

Up

index: 7.3.82 sutra: मिदेर्गुणः


मेद्यतीति । श्यन् । मिद्यत इति । भावे यक् ॥