अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्

6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृप्रशास्तॄणाम् न उपधायाः सर्वनामस्थाने असम्बुद्धौ

Sampurna sutra

Up

अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणामङ्गस्य उपधायाः असम्बुद्धौ सर्वनामस्थाने दीर्घः

Neelesh Sanskrit Brief

Up

तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति ।

Neelesh English Brief

Up

The उपधा letter of the words अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, and प्रशातृ, and also of the words ending in a तृन् or तृच् प्रत्यय becomes दीर्घ in presence of a प्रत्यय that is also a सर्वनामस्थान, other than सम्बोधन-एकवचन.

Kashika

Up

अप् इत्येतस्य तृनन्तस्य स्वसृ नप्तृ नेष्टृ त्वष्टृ क्षत्तृ होतृ पोतृ प्रशास्तृ इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। अप् — आपः। बह्वाम्पि तडागानीति केचिदिच्छन्ति। तत्र <<समासान्तो विधिरनित्यः>> (परि० ८४) इति समासान्तो न क्रियते। नित्यमपि च नुममकृत्वा दीर्घत्वमिष्यते। तृन् — कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच् — कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ — स्वसा, स्वसारौ, स्वसारः। नप्तृ — नप्ता, नप्तारौ, नप्तारः। नेष्टृ — नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ — त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ — क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ — होता, होतारौ, होतारः। पोतृ — पोता, पोतारौ, पोतारः। प्रशास्तृ — प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादीनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवंभूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूदिति। पितरौ, पितरः। मातरौ, मातरः। असंबुद्धाविति किम्? हे कर्तः। हे स्वसः॥

Siddhanta Kaumudi

Up

अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ <{SK647}> सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥

Laghu Siddhanta Kaumudi

Up

अबादीनामुपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥

Neelesh Sanskrit Detailed

Up

अप् (= जलम्), तृच् (= तृच्-प्रत्ययान्तशब्दः), तृन् (= तृन्-प्रत्ययान्तशब्दः), स्वसृ ( = भगिनी), नप्तृ ( = पौत्रः / दौहित्रः), नेष्टृ ( = ऋत्विग्विशेषः), त्वष्टृ (= प्रजापतिः ), क्षत्तृ ( = सारथिः), होतृ (= ऋत्विग्), पोतृ (= ऋत्विग्विशेषः), प्रशास्तृ ( = राजा) एतेषां शब्दानां सर्वनामस्थानवाचके प्रत्यये परे अङ्गस्य उपधायाः दीर्घः भवति । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । कानिचन उदाहरणानि पश्यामः - 1) तृच्-प्रत्ययान्तशब्दः यथा 'कर्तृ' - अस्य प्रथमा-द्विवचनस्य रूपम् - कर्तृ + औ [प्रथमा-द्विवचनस्य औ-प्रत्ययः] → कर्तर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । उरण् रपरः इत्यनेन सः च रपरः] → कर्तार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इत्यनेन उपधादीर्घः] → कर्तारौ । 2) त्वष्टृ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] इति स्थिते - → त्वष्टर् + अस् <<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः] → त्वष्टारः [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इत्यनेन उपधादीर्घः] 3) स्वसृ + अम् [द्वितीयैकवचनस्य प्रत्ययः] इति स्थिते - → स्वसर् + अम् <<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः] → स्वसारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इत्यनेन उपधादीर्घः] 4) अप्-शब्दस्य प्रथमाबहुचनस्य रूपमप् + जस् → आपः इति भवति । इत्यत्रापि उपधादीर्घः <<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 अनेन सूत्रेण विधीयते । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - दातृ + सुँ [सम्बुद्धिः] = दातः । ज्ञातव्यम् - भाष्यकारेण उद्गातृ (= यज्ञेषु यः सामगायनं करोति सः) अयं शब्दः अपि अस्यामावल्याम् स्वीकृतः अस्ति । अतः अस्य शब्दस्य अपि सर्वनामस्थाने परे उपधादीर्घः भवति । यथा - उद्गातारौ, उद्गातारः ।

Balamanorama

Up

<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄ- प्रशास्तॄणाम्>> - अप्तृन् । 'नोपधायाः' इत्यत 'उपधाया' इत्यनुवर्तते ।सर्वनामस्थाने चासंबुद्धौ॑ इति चकारवर्जमनुवर्तते । तदाह — अबादीनामिति । अत्र अष्टाध्यायां तावत् 'तृन्' इति सूत्रेण, 'ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषुतृन्तृचौ शंसिक्षादादिभ्यः संज्ञायां चाऽनिटौ॑ 'बहुलमन्यत्रापि' इति सूत्राभ्यां तृन्तृचो विधाय,नप्तृनेष्ट्टत्वष्ट्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रेण नप्त्रादयो निपातिताः । ततश्च संज्ञाशब्दास्तृन्तृजन्ता औणादिका इति स्थितिः । तत्र तृजन्तत्वादेव सिद्धे नप्तार्दिग्रहणं व्यर्थमित्यत आह — नप्त्रादिग्रहणमिति । नियमशरीरमाह — उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्तृजन्तानां दीर्घ इति नियमेव तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यं, तस्यापि संज्ञाशब्दस्य शंसिक्षदादिगणप्रविष्टत्वेन ओणादिकत्वात् । अत्र मूले 'व्युत्पत्तिपक्षे' इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाऽभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाऽभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उद्गातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात्तस्य च नुप्त्रादिसप्तस्वनन्तर्भावात्कथं दीर्घ इत्यत आह — उद्गातृशब्दस्येति । 'ण्वुल्तृचौ' इति सूत्रस्थ भाष्ये तु 'अप्तृ' इत्येवास्तु, तृन्तृचोग्र्रहणं मास्त्विति प्रपञ्चितम् ।तृ॑न्निति भाष्ये तु तृन्विधौऋच्विक्षु चानुपसर्गस्ये॑ति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता । औणादिकतृजन्त एवायम् ।नयतेस्तृन् वक्तव्यः षुक्च॑ । नेष्टा ।त्विषेर्देवतायां तृन् वक्तव्यः । अकारश्चोपधाया अनिट्त्वं च॑ । त्वष्टा ।क्षदेश्च युक्ते तृन् वक्तव्यः॑ । क्षत्ता । इत्येवं होतृपोतृनेष्टृत्वष्टृक्षत्तृशब्दास्तृन्नन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिहग्रहणं प्रपञ्चार्थम् । नप्तृप्रशास्तृग्रहणमेवोक्तनियमार्थमित्यन्यत्र विस्तरः । क्रोष्टेति । क्रोष्टन् स् #इति स्थिते एकदेशाविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घः । हल्ङ्यादिना सुलोपः । नलोपः । यद्यपिसर्वनामस्थाने चे॑त्येवात्र दीर्घः सिध्यति तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्यः । क्रोष्टाराविति । क्रोष्टु-औ इति स्थिते तृज्वद्भावः । क्रोष्टु-आ इति स्थिते ।

Padamanjari

Up

आप इति । अप्शब्दस्य नित्यं बहुवचनान्तत्वाद् द्विवचनैकवचनयोरसम्भवः । बह्वाम्पीति । बहुव्रीहिः । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति तदन्तविधिरभ्युपगतः । किं पुनरत्रेष्टव्यम्, न तावद् ऋक्पूरब्धूः इति प्राप्तस्य समासान्तस्याभावः इत्याह - तत्रेति । यत्पुनरेष्टव्यं तद्दर्शयति - नित्यमपीति । कृताकृतप्रसङ्गित्वान्नित्यो नुम् । जनापवादानिति । न लोकाव्यय इत्यादिना तृन्योगे षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति । एतच्च तृन्नन्तत्वाभिव्यक्तये प्रयुक्तम् , एतेन कटस्येतिव्याख्यातम् । तुरिष्ठेमेयस्सु, तुश्च्छन्दसि इतिवत् सामान्यनिर्द्देशे कर्तव्ये, तृन्तृचोर्नेदेनोपादाने प्रयोजनं चिन्त्यम् । अव्युत्पत्तिपक्षे इति । नावश्यं व्युत्पत्तिकार्यं भवतीत्येतद् अतः कृकमिकंस इत्यत्र कंसग्रहणाल्लभ्यते, ज्ञापकादिति भावः । व्युत्पत्तिपक्ष इति । नमेस्तृचि मकारस्य पकारः - नप्ता, नयतेस्तृनि षुक् गुणश्च - नेष्टा, त्विषेरच्चोपधायाः - त्वाष्टा क्षदेस्तृन्यनिट्त्वम् - क्षता होता, पोता - तृनेव प्रपूर्वाच्छासेस्तृच्, अनिट्त्वं च - प्रशास्ता । एवम्भूतानामिति । एवम्भूतानामिति । अस्यैव विवरणम् - संज्ञाशब्दानामिति ॥