7-3-110 ऋतः ङिसर्वनामस्थानयोः गुणः
ऋतः अङ्गस्य ङि-सर्वनामस्थानयोः गुणः
ऋदन्तस्य अङ्गस्य ङि-प्रत्यये परे सर्वनामस्थानप्रत्यये च परे गुणादेशः भवति ।
The last letter of a ऋदन्त word is replaced by अर् in presence of - (a) ङि-प्रत्यय and (b) a प्रत्यय that is also a सर्वनामस्थान.
गुण इति वर्तते। ऋकारान्तस्याङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ — मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने — कर्तारौ, कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्॥
ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥
ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्ते -
ऋदन्तस्य अङ्गस्य (1) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, (2) सर्वनामस्थानप्रत्यये च परे - गुणादेशः - इत्युक्ते 'अर्' आदेशः भवति । यथा - 1) पितृ + औ [प्रथमाद्विवचनस्य प्रत्ययः] → पितर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इति गुणः] → पितरौ 2) दातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] → दातर् + इ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इति गुणः] → दातरि ज्ञातव्यम् - <<अदेङ्-गुणः>> 1.1.2 इत्यनेन अ-ए-ओ-वर्णानाम् गुणसंज्ञा विधीयते । वस्तुतः तु एतेषु कोऽपि वर्णः स्थानसाधर्म्येण ऋकारवत् नास्ति, परन्तु <<उरण् रपरः>> 1.1.51 अनया परिभाषया ऋकारस्य आदेशभूतः अकारः नित्यम् रेफेण सह (इत्युक्ते, 'अर्' इति) एव आगच्छति । अयं 'अर्' आदेशः स्थानसाधर्म्येण ऋकारवत् अस्ति - उभयोः उच्चारणार्थम् मूर्ध्नः प्रयोगः क्रियते । अतः ऋकारस्य गुणादेशरूपेण अर्-आदेशः भवति ।
<<ऋतो ङिसर्वनामस्थानयोः>> - ऋतो ङि । 'ह्रस्वस्य गुणः' इत्यतो॒गुण॑ इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह — ङाविति ।
तपरकरणं मुखसुखार्थमिति । ङिसर्वनामस्थानयोर्दीर्घान्तस्यासम्भवात् । धात्वनुकरणमपि न सम्भवति, ठृत इद्धातोःऽ इतीत्वविधानात् । कर्त णीत्यत्यादावपि नुमः पूर्वान्तत्वादसम्भवः ॥