4-1-108 वतण्डात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ् आङ्गिरसे
'तस्य गोत्रे अपत्यम्' (इति) वतण्डात् आङ्गिरसे यञ्
आङ्गिरसकुलवाची यः 'वतण्ड'शब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।
आङ्गिरस इत्येव। वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरस इति किम्? वातण्डः। किमर्थमिदं यावता गर्गादिष्वयं पठ्यते? शिवादिष्वप्ययं पठ्यते। तत्राङ्गिरसे। शिवाद्यणोऽपवादार्थं पुनर्वचनम्। अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात् प्रत्ययद्वयमपि भवति। वातण्ड्यः। वातण्डः॥
आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥
<<वतण्डाच्च>> - वतण्डाच्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम् ।
किमर्थमिति ।'वतण्डाल्लुक् स्त्रियाम्' इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति - शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥