8-4-61 उदः स्थास्तम्भोः पूर्वस्य पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः
उदः स्थास्तम्भोः पूर्वस्य सवर्णः
उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ-धातोः पूर्वसवर्णादेशः भवति ।
The स्था and स्तम्भ् are converted to पूर्वसवर्ण when they follow the upasarga उत् ।
सवर्ण इति वर्तते। उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्त्थाता। उत्त्थातुम्। उत्त्थातव्यम्। स्तम्भेः खल्वपि — उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोरिति किम्? उत्स्नाता॥ उदः पूर्वसवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम्॥ अग्ने दूरमुत्कन्द॥ रोगे चेति वक्तव्यम्॥ उत्कन्दको नाम रोगः। कन्दतेर्वा धात्वन्तरस्यैतद् रूपम्॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य <{SK44}> । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि <{SK71}> इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च <{SK121}> इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥
<<उदः स्थास्तम्भोः पूर्वस्य>> - उदः स्थास्तम्भोः ।अनुस्वारस्य ययि परसवर्णः॑ इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । 'उद' इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषयाउदःपरयो॑रिति लभ्यते । तदाह — उदः परयोरिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह — आदेः परस्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति ।ष्ठा गतिनिवृत्तौ॑ । भावे ल्युट् । उत्तम्भनमिति ।ष्टभि प्रतिष्टम्भे॑ भावे ल्युट् । 'स्तम्भु रोधने' इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः ।स्थास्तम्भो॑रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात् । ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः, ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् । आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — अत्राऽघोषस्येति ।अघोषस्ये॑त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात् । स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान् । तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद्-स्थानमिति स्थिते दकारस्यखरि चे॑ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवं उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः । तस्येति । सकारादेशस्य थकारस्येत्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह — लोपाभावेति । असिद्धत्वादिति ।खरि चे॑ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः । उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु 'न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः । तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तुदीर्घादाचार्याणा॑मित्युत्तरम् । अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरंझलाञ्जश् झशि॑, अभ्यासे चर्च॑,खरि च॑,वाऽवसाने॑,अणोऽप्रगृह्रास्यानुनासिकः॑, इति पञ्चसूत्रीपाठ इतिहलो यमा॑मिति सूत्रस्थभाष्यसंमतः सूत्रकमः । एवं चखरि चे॑ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
परसवर्ण इति समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बद्ध्यते । उत्थातेति । सकारस्य पूर्वसवर्णस्तकारः । अन्ये तु बाह्यप्रयत्नसाम्यात् थकारमिच्छन्ति । तत्र तखाराद्वयस्य श्रवणम् । न च पूर्वस्य चर्त्वम्; तत्र कर्तव्येऽस्य पूर्वसवर्णस्यासिद्वत्वात् । रोगे चेति वक्तव्यमिति । इदमविशेषेण च्छन्दसि, भाषायां च ॥