लुक् स्त्रियाम्

4-1-109 लुक् स्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ् आङ्गिरसे वतण्डात् च

Sampurna sutra

Up

index: 4.1.109 sutra: लुक् स्त्रियाम्


'तस्य आङ्गिरसे गोत्रे अपत्यम्' (इति) वतण्डात् स्त्रियाम् लुक्

Neelesh Sanskrit Brief

Up

index: 4.1.109 sutra: लुक् स्त्रियाम्


आङ्गिरसकुलवाची यः 'वतण्ड'शब्दः, तस्मात् विद्यमानस्य यञ्-प्रत्ययस्य स्त्रीलिङ्गे लुक् भवति ।

Kashika

Up

index: 4.1.109 sutra: लुक् स्त्रियाम्


आङ्गिरसे इत्येव। वतण्डशब्दादाङ्गिरस्यां स्त्रियां यप्रत्ययस्य लुक् भवति। लुकि कृते शार्ङ्गरवादिपाठान् ङीन् भवति। वतण्डी। आङ्गिरसे इति किम्? वातण्ड्यायनी। शिवाद्यणि तु वातण्डी।

Siddhanta Kaumudi

Up

index: 4.1.109 sutra: लुक् स्त्रियाम्


वतण्डाच्च-<{SK1111}> इति विहितस्य लुक् स्यात् स्त्रियाम् । शार्ङ्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥

Padamanjari

Up

index: 4.1.109 sutra: लुक् स्त्रियाम्


वातण्ड।लयनीति । लोहितादिलक्षणः ष्फः । वातण्डीति । ऋषित्वात् ष्यञ्न भविष्यति ॥