3-1-69 दिवादिभ्यः श्यन् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
कर्त्तरि सार्वधातुके दिवादिभ्यः धातोः परः श्यन् प्रत्ययः
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
सार्वधातुके कर्तरि प्रत्यये परे दिवादिगणस्य धातोः परः श्यन्-प्रत्ययः विधीयते ।
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
A verb belonging to the दिवादिगण gets the विकरणप्रत्यय 'श्यन्' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
दिवित्येवमादिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति। शपोऽपवादः। नकारः स्वरार्थः। शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति।
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
॥ अथ तिङन्तदिवादिप्रकरणम् ॥ ।{$ {!1107 दिवु!} क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु$} । झृषन्ताः परस्मैपदिनः ॥
शपोऽपवादः । हलि च <{SK354}> इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ।{$ {!1108 षिवु!} तन्तुसन्ताने$} । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् ।{$ {!1109 स्रिवु!} गतिशोषणयोः$} ।{$ {!1110 ष्ठिवु!} निरसने$} । केचिदिहेमं न पठन्ति ।{$ {!1111 ष्णुसु!} अदने$} । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस ।{$ {!1112 ष्णसु!} निरसने$} । स्नस्यति । सस्नाम ।{$ {!1113 क्नसु!} ह्वरणदीप्त्योः$} । ह्वरणं कौटिल्यम् । चक्नास ।{$ {!1114 व्युष!} दाहे$} । वुव्योष ।{$ {!1115 प्लुष!} दाहे$} ।{$ {!1116 नृती!} गात्रविक्षेपे$} । नृत्यति । ननर्त ॥
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
॥ {$ {! 1 दिवु !} क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु $} ॥ शपोऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं ॥ {$ {! 2 षिवु !} तन्तुसन्ताने $} ॥ {$ {! 3 नृती !} गात्रविक्षेपे $} ॥ नृत्यति। ननर्त। नर्तिता॥
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3.4.113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3.4.69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।
कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे दिवादिगणस्य धातोः परः 'श्यन्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे नकारस्य हलन्त्यम् 1.3.3 तथा शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा भवति, ततः तयोः तस्य लोपः 1.3.9 इत्यनेन लोपः भवति । अतः केवलम् 'य' इति अवशिष्यते ।
यथा -
1) नृत्-इति दिवादिगणस्य धातुः । 'तिप्' इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्यये परे 'नृत् + ति' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति, अतः 'नृत्यति' इति रूपं सिद्ध्यति ।
2) क्रुध्-इति दिवादिगणस्य धातुः । 'शतृ' इति सार्वधातुकप्रत्यये परे 'क्रुध् + शतृ' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति । 'क्रुध्य + अत्' इति स्थिते अतो गुणे 6.1.97 अनेन सूत्रेण यकारात्-परस्य अकारस्य तथा 'अत्' इत्यस्य अकारस्य एकः पररूप-एकादेशः अकारः भवति, अतः 'क्रुध्यत्' इति प्रातिपदिकम् सिद्ध्यति ।
ज्ञातव्यम् - कर्तरि शप् 3.1.68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । दिवादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्यन्-प्रत्ययः भवति ।
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
दिवादिभ्यः श्यन् - दिवादिभ्यः ।कर्तरि श॑बित्यतः कर्तरिति,सार्वधातुके य॑गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह — शपोऽपवाद इति । शकारनकारावितौ । दिव् यतीति स्थिते आह — हलि चेति दीर्घ इति । श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः । दीव्यतः दीव्यन्तीत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति — देवितेति । षिनुधातुरपि सेट् । षोपदेशः । दिवुधातुवदस्य रूपाणि.परिषीव्यतीति ।परिनिविभ्यः सेवे॑ति षत्वमिति भावः । परिषिषेवेति ।स्थादिष्वेवाभ्यासस्ये॑ति नियमस्तु न, तत्रप्राक्सिता॑दित्यनुवृत्तेरितिभावः ।सिवादीनां वाऽड्व्यवायेऽपी॑ति मत्वाह — न्यषेवीत् न्यसेवीदिति । रिउआवुधातुस्तु रेफवान् । ष्ठिवु निरसने इति ।सुब्दातुष्वक्कष्ठीवा॑मिति न सत्वम् । ष्ठीव्यतीत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि । ष्णसुधातुश्च षोपदेशः । नृती गात्रेति । 'श्वीदितः' इत्याद्यार्थमीदित्त्वम् । सेडयम् ।
index: 3.1.69 sutra: दिवादिभ्यः श्यन्
दिवादिभ्यः श्यन्॥'मृग अन्वेषणे' इति चुरादावदन्तेष्वात्मनेदी पठ।ल्ते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः॥