6-3-42 पुंवत् कर्मधारयजातीयदेशीयेषु उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् न
index: 6.3.42 sutra: पुंवत् कर्मधारयजातीयदेशीयेषु
कर्मधरये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोः भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। प्रतिषेधर्थोऽयमारम्भः। न कोपधायाः 6.3.37 इत्युक्तम्, तत्र अपि भवति। पाचकवृन्दारिका। पाचकजातीया। पाचकदेशीया। संज्ञापूरण्योश्च 6.3.38 इत्युक्तम्, तत्र अपि भवति। दत्तवृन्दारिका। दत्तजातीया। दत्तदेशीया। पूरण्याः पञ्चमवृन्दारिका। पञ्चमजातीया। पञ्चमदेशीया। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे 6.3.39 इत्युक्तम्, तत्र अपि भवति। स्रौघ्नजातीया। स्रौघ्नदेशीया। स्वाङ्गाच् च इतोऽमानिनि 6.3.40 इत्युक्तम्, तत्र अपि भवति। श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। जातेश्च 6.3.41 इत्युक्तम्, तत्र अपि भवति। कठवृन्दारिका। कठजातीया। कठदेशीया। भाषितपुंस्क्कातित्येव, खट्वावृन्दारिका। अनूगित्येव, ब्रह्मबन्धूवृन्दारिका। कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः। कुक्कुट्याः अण्डम् कुक्कुटाण्डम्। मृग्याः पदम् मृगपदम्। मृग्याः क्षीरम् मृगक्षीरम्। काक्याः शावः काकशावः। न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात्। स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जतिः सामान्येन विवक्षितः। पुंवद्भावात् ह्रस्वत्वम् खिद्घादिषु भवति विप्रतिषेधेन। खित् कालिम्मन्या। हरिणिम्मन्या। घादि पट्वितरा। पट्वितमा। पट्विरूपा। पट्विकल्पा। क पट्विका। मृद्विका। इह इडबिड्, दरद्, पृथु, उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्चेति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते। ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते। ऐडबिडवृन्दारिका। औशिजवृन्दारिका।
index: 6.3.42 sutra: पुंवत् कर्मधारयजातीयदेशीयेषु
कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥
index: 6.3.42 sutra: पुंवत् कर्मधारयजातीयदेशीयेषु
पुंवत् कर्मधारयजातीयदेशीयेषु - पुंवत्कर्मधारय ।स्त्रियाः पुंवद्भाषितपुंस्कादनू॑ङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशेऽधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह — कर्मधारये इति ।तथाभूत॑मित्यनन्तरंस्त्रीवाचक॑मिति शेषः ।भाषितपुंस्कादनू॑ङित्येतत् 'स्त्रियाः पुंवत्' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारयेस्त्रियाः पुंव॑दित्यनेन सिद्धं पुंवत्त्वं, जातीयदेशीययोस्तुतसिलादिष्वाकृत्वसुचः॑ इत्यनेन सिद्धमित्यत आह — पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः ।सन्महदि॑त्यादिना समासः । नवानां पूरणी नवमी ।तस्य पूरणे डट्॒नान्तादसंख्यादेर्मट् । टित्त्वान्ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पुंवत्त्वे 'आन्महतः' इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी-चतुर्दशी । डट । 'नस्तद्धिते' इति टिलोपः । टित्त्वान्ङीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः । ॒पुंवत्कर्मधारय॑ इत्यस्य प्रयोजनान्तरमाह — तथा कोपधादेरिति । 'न कोरधायाः' 'संज्ञीपूरण्योश्च'वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे॑ 'स्वाङ्गाच्चेतः'जातेश्चे॑ति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या पञ्चमभार्येति दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्रसंज्ञापूरण्योश्चे॑ति प्रतिषेधः प्राप्तः । रुआऔग्घ्नभार्येति । रुआऔग्घ्नी चासौ भार्या चेति कर्मधारयः । अत्रवृद्धिनिमित्तस्य चे॑ति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेसी चासौ भार्या चेति कर्मधारयः । अत्र 'स्वाङ्गाच्चेत' इति निषेधः प्राप्तः । ब्राआहृणभार्येति । ब्राआहृणी चासौ भार्या चेति कर्मधारयः । अत्रजातेश्चे॑ति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति — एवं पाचकजातीया पाचकदेशीयेति । 'प्रकारवचने' इति जातीयर् । 'ईषदसमाप्तौ' इति दैशीयर् । उभयत्रापि 'तसिलादिषु' इति पुंवत्त्वस्य 'न कोपधायाः' इति निषेधः । प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया । पञ्चमजातीया, पञ्चमदेशीया । रुआऔघ्नजातीया, रुआऔघ्नदेशीया । सुकेशजातीया, सुकेषदेशीया । ब्राआहृणजातीया, ब्राआहृणदेशीया । तदेवं पुंवत्कर्मधारये॑ति सूत्रं निरूप्यपोटायुवती॑ति सूत्रस्य क्रमेणोदाहरणान्याह — इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणेति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः= अल्पः, स चासौ अग्निश्चेति विग्रहः । उदइआत्कतिपयमिति । 'तक्रं ह्रुदइआत्' इत्यमरः । कतिपयं च तदुदइआच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः बेहद्नर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः ।तरुणवत्से॑त्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्ता=अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । अध्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः ।धूर्तोऽक्षदेव॑त्यमरः विट इत्यन्ये । नचकुत्सितानि कुत्सनैः॑ इत्यनेन सिद्धिः शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितदम् ।
index: 6.3.42 sutra: पुंवत् कर्मधारयजातीयदेशीयेषु
ननु कर्मधारये स्त्रियाः पुंवत् इत्यादिना सिद्धः पुंवद्भावः जातीयदेशीययोरपि तसिलादिष्विति, किमर्थोऽयमारम्भः इत्यत आह - प्रतिषिद्धार्थोऽयमिति । प्रतिषिद्धोऽपि पुंवद्भावो यथा स्यादित्येवमर्थमित्यर्थः । प्रतिषेधार्थोऽयमिति पाठे प्रतिषेधाविषयः प्रतिषेधशब्देनोक्तः । निवृत्तिवचनो वार्थशब्दः । कुक्कुट।लदीनामित्यादि । अस्त्र्यर्थेमसमानाधिकरणार्थं वचनम् । न वेत्यादि । उपसंख्यानं प्रत्याचष्टे । न वा वक्तव्यम्, किं कारणम् स्त्रीपूर्वपदस्याविवक्षितत्वात् । नात्र स्त्रीत्वावसायः आरभ्यमाणेऽपि पुंवद्भावे समाश्रयणीयः, अनारम्भऽपि तथा भविष्यति । यदि तर्हि स्त्रीलिङ्गेन समासो न भविष्यति । यद्यपि तावदत्रैतच्छक्यते वक्तुम्, इह तु कथं मृग्या क्षीरं मृगक्षीरमिति, नहि पुंसः क्षीरेण सम्बन्धोऽस्ति अत्रापि जात्यन्तरनिवृत्तिपरत्वाच्चोदनायाः स्त्रीत्वमाकिञ्चित्करत्वादविवक्षितम् । यत्र तु लिङ्ग, विशेष उपकारकस्तत्रासौ विवक्षित एव यथा - अडामूत्रेण पर्युक्षितं दातव्यमिति । पूर्वपदार्थोऽत्र जातिरिति । कुक्कुटाण्डाजौ पूर्वपदार्थो जातिः स च समामान्येन स्त्रीत्वादिविशेषरहितेन रुपेण विवक्षित इत्यर्थः । खिद्घादिष्विति । तत्र खिति विप्रतिषेधः स्त्रियाः पुंवत् इत्यत्रैवोदाहृतः । घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरुपा, नर्तकिकल्पा, यत्र पुंवद्भावः प्रतिषिध्यते न कोपधायाः इति - तसिलादिष्विति । पुंद्भावस्यावकाशः यद् ङ्यन्तं न भवति - दर्शनीयतरेत्यादि । पट्वितरेत्यादावुभयप्रसङ्गे विप्रतिषेधः । केऽणो ह्रस्वो भवतीत्यावकाशः - नर्तकिका, पुंवद्भावस्यावकारः - दरदोऽपत्यं स्त्री, द्व्यञ्मगध इत्यण्, तस्य अतश्च लुक्, ततः प्रागिवात्कः, तसिलादिष्विति पुंवद्भावाद्दारदशब्दः, प्रत्ययस्थात् इतीत्वं दारिदिका । ननु च परिगणितास्तसिलादयः न च कप्रत्ययस्तेषु समस्ति एवं तर्हि विप्रतिषेधादेव कप्रत्ययोऽपि तत्राभ्युपगम्यत इति अनुमीयते, पट्विका मृट्विकेत्यादावुभयप्रसङ्गे परत्वाद् ह्रस्वः, सर्वत्र चात्र सकृदित्याश्रयणाद् पुंवद्भावाभावः । अनूङिति यदुक्तं तस्य प्रयोजनं दर्शयति - इहेत्यादि । तद्राजप्रत्ययस्येति । ये द्व्यचस्तेषु द्व्यञ्मगध इत्यण्, शेषेषु जनपदशब्दात् इत्यञ् , पृथ तैति थकारान्तः ॥ घरुपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ 6।3 - 43 ॥ एचेलादीनां वृत्ति विषये कुत्सनवचनत्वातैः कुसितानि कुत्सनैः इति समासः । ङ्य इत्यत्र ईयाश्च्छन्दसि बहुलम् इत्यादिवदागमः प्राप्तः, सौत्रत्वान्न कृतः ॥ दतातरेति । ननु च स्वाङ्गाच्चेतः इत्यतः ईतः इत्यनुवर्तिष्यते । एवमपि प्रामणीतरः - अत्रापि प्राप्नोति स्त्रियामिति वर्तते । एवमपि प्रमणीतरा - अत्रापि प्राप्नोति स्त्रियाम इति वर्तते, स्त्रीया ईतः स्त्रीवाचिन ईकार स्येत्यर्थः, ग्रामणीशब्दे त्वनर्थक ईकारः । शेषप्रवलृप्त्यर्थं तर्हि ङीब्ग्रहणम्, क्रियमाणे हि ङीब्ग्रहणे ङ्योऽनेकाचः इति श्रुतत्वातदपेक्षः शेषो लभ्यते - अङीब् या नदी ङ्यन्तं च यदेकाजिति । अन्तरणापि ङीब्ग्रहणं प्रवलृप्तः शेषः, कथम् ईत इति वर्तते, अनीच्च या नदी ईदन्तं च यदेकाजिति । तदेतन्ङीग्रहणं तिष्ठतु तावत् ॥