तृज्वत् क्रोष्टुः

7-1-95 तृज्वत्क्रोष्टुः सर्वनामस्थाने असम्बुद्धौ

Sampurna sutra

Up

असम्बुद्धौ सर्वनामस्थाने क्रोष्टुः तृच्-वत्

Neelesh Sanskrit Brief

Up

असम्बुद्धिवाचके सर्वनामस्थाने परे क्रोष्टु-शब्दः तृच्-वत् भवति ।

Neelesh English Brief

Up

The word क्रोष्टु behaves like a तृच्-प्रत्ययान्त word when followed by a सर्वनामस्थान not belonging to सम्बोधनैकवचनम्.

Kashika

Up

क्रोष्टुशब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थानेऽसंबुद्धौ परतः तृज्वद् भवति। तृजन्तस्य यद् रूपं तदस्य भवतीत्यर्थः। रूपातिदेशोऽयम्। प्रत्यासत्तेश्च क्रुशेरेव तृजन्तस्य यद् रूपं तदतिदिश्यते। तत् च क्रोष्टृ इत्येतदन्तोदात्तम्। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः। क्रोष्टारम्, क्रोष्टारौ। सर्वनामस्थान इत्येव — क्रोष्टून्। असंबुद्धावित्येव — हे क्रोष्टो॥

Siddhanta Kaumudi

Up

क्रोष्टुशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः सम्बोधनस्य सुँ-प्रत्ययं विहाय अन्येषु सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । यथा - 1) क्रोष्टु + सुँ [प्रथमैकवचनस्य प्रत्ययः] → क्रोष्टृ + सुँ [ <<तृज्वत् क्रोष्टुः>> 7.1.95 इति अङ्गस्य तृज्-वत् भावः] → क्रोष्ट् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसाम् च>> 7.1.94 इति अनङ्-आदेशः] → क्रोष्टान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।] → क्रोष्टान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → क्रोष्टा [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारस्य लोपः] 2) क्रोष्टु + औ [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → क्रोष्टृ + औ [ <<तृज्वत् क्रोष्टुः>> 7.1.95 इति अङ्गस्य तृज्-वत् भावः] → क्रोष्टर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → क्रोष्टार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 अनेन अङ्गस्य उपधायाः दीर्घः] → क्रोष्टारौ 3) क्रोष्टु + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → क्रोष्टृ + जस् [ <<तृज्वत् क्रोष्टुः>> 7.1.95 इति अङ्गस्य तृज्-वत् भावः] → क्रोष्टर् + अस् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → क्रोष्टारस् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 अनेन अङ्गस्य उपधायाः दीर्घः] → क्रोष्टारः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 4) <<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] क्रोष्टु + अम् [द्वितीयैकवचनस्य प्रत्ययः] → क्रोष्टृ + अम् [<<तृज्वत् क्रोष्टुः>> 7.1.95 इति अङ्गस्य तृज्-वत् भावः ] → क्रोष्टर् + अम् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → क्रोष्टारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 अनेन अङ्गस्य उपधायाः दीर्घः] सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति - क्रोष्टु + सुँ [सम्बोधनैकवचनम्] → क्रोष्टो सुँ [<<ह्रस्वस्य गुणः>> 7.3.108 इति उकारस्य गुणः ओकारः] → क्रोष्टो [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः ] ज्ञातव्यम् - अनेन सूत्रेण तृच्-प्रत्ययान्तशब्दानां रूपाणि क्रोष्टु-शब्दे आरोपितानि सन्ति, अतः इदम् 'अतिदेशसूत्रम्' अस्ति । अतिदेशः सप्त-प्रकारस्य वर्तते - कार्यातिदेशः, रूपातिदेशः, निमित्तातिदेशः, अर्थातिदेशः, शास्त्रातिदेशः, तादात्म्यादिदेशः तथा व्यपदेशातिदेशः । एतेषु अयम् 'रूपातिदेशः' अस्ति ।

Balamanorama

Up

<<तृज्वत् क्रोष्टुः>> - तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेषं दर्शयितुमाह — तृज्वत्क्रोष्टुः । प्रत्ययग्रहणपरिभाषया 'तृच्' इति तृजन्तं गृह्रते ।तेन तुल्य॑मिति तृतीयान्ताद्वतिः ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इति 'सख्युरसंबुद्धौ' इत्यतो॒ऽसंबुद्धाविति॑ चानुवर्तते । तदाह — क्रोष्टुस्तृजन्तेनेत्यादिना ।कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः । व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते॑ । इति व्यतिदेशाः सप्त, तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते, तच्च न 'कर्तृ' 'भर्तृ' इत्यादि तृजन्तं रूपं, किंतु 'क्रोष्टु' इत्येव तृजन्तरूपमतिदिश्यते । क्रुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्चेत्यभिप्रेत्य फलितमाह — क्रोष्टुशब्दस्य स्थाने इति । निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रधर्शयिष्यामः । क्रोष्टृ स् इति स्थिते ।

Padamanjari

Up

क्रोष्टुअशब्दस्तुन्प्रत्ययान्त इति । क्रुश आह्वाने, सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन् । संज्ञाशब्द इति । तुन्प्रत्ययस्य संज्ञार्थे विधानात् । जम्बुकस्य चेयं संज्ञा । वस्तुस्वरुपकथनमेतत् । अत्रानन्तरं तस्येति पठितव्यम् क्रोष्टुअरिति सूत्रे षष्ठीनिर्देशात् । तृज्वद्बवतीति । तृच इव तृज्वत् । तत्र तस्येव इति षष्ठीसमर्थाद्वतिः । तदेत्सर्वमुतरग्रन्थे स्पष्टीकृतम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । प्रत्ययग्रहणपरिभाषया तृजन्तस्येति लभ्यते । अतिदेशोऽनेकप्रकारः - निमित व्यापदेश - तादात्म्य - शास्त्र - कार्य - स्वरुपविषयः । तत्रेहादितस्त्रयाणामसम्भावादनतिदेशः, शास्त्रकार्यातिदेशयोश्चायं विशेषः । शास्त्रातिदेशे तेनतेन शास्त्रेण कार्याणि भवन्ति, कार्यातिदेशे त्वतिदेशवाक्येनैवेति तत्र विप्रतिषेधे फलविशेषः । तद्यथा - कर्मवत्कर्मणा इत्यत्र शास्त्रातिदेशे कर्मकर्तरि भावकर्मणोः इत्येतद्वाधित्वा स्वाश्रयं कर्तुत्वमाश्रित्य शेषात्कर्तरि परस्मैपदप्रसङ्गः, कार्यातिदेशे त्वात्मनेपदमेव परत्वाद्भवतीति । इह तु नैवं विशेषः सम्भवतीति तयोरभेदमाश्रित्य विचारः प्रवतिंतो महाभाष्ये - किं पुनरयं शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः प्राप्नोति, प्राधान्यात्त्उ रुपातिदेशप्रसङ्गस्तदर्थत्वादतिदेशान्तरणाम् । तत्राद्ये पक्षे आहत्य तृचि यच्छास्त्रं तद्वातिदिश्यते अनाहत्य वा यदि तृच्छब्दवच्छास्त्रमतिदिश्यते तत आहत्येति पक्षः, ताथ तृच्छब्दे ऋकार एव विवक्षितः, चकारः स्वरार्थः, तकारस्त्वप्रसिद्धाशङ्कानिवृत्यर्थः ऋज्वत् इत्युच्यमाने अप्रसिद्धाश्रयोऽतिदेशः शङ्क्यत, ऋक्प्) इत्यक्शब्दनिबन्धनस्य वा समासान्तस्यातिदेशः शङ्क्येत, तस्मातजन्ते यदृकारप्रयुक्तं शास्त्रं कार्यं वा तदतिदेशेनाहत्येति पक्षः । तत्राहत्येति पक्षे अप्तृन्तृच् इति दीर्घत्वमेकमतिदिष्ट्ंअ स्यादनङ्गुणरपरत्वान्यनतिदिष्टानि - अनङ् ऋदुशनस्पुरुदं सोऽनेहसां च, ऋतो ङिसर्वनामस्थानयोः, उरण् रपरः इति, नह्यएतानि तृच्संशब्दनेन विधीयन्ते । ननु च दीर्घत्वेऽतिदिष्टेऽनङदीन्यप्यतिदिष्टान्येव भवन्ति, कथम् दीर्घविधौ उपधायाः इति वर्तते, अचश्चेति चोपतिष्ठते, ततश्च तृजन्तस्येव तुन्नन्तस्यापि दीर्घो भवतीत्युक्ते - थौपधाया अचो दीर्घो भवतीत्युक्तं भवति, न चाकृतेष्वनङदिषु तुन्नन्तस्योपधा दीर्घभाविनी सम्भवति । जसि गुणावादेशयोः सम्भवतीति चेत् न ह्यएकमुदाहरणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात्, अंप्तृन् इत्यत्रैव क्रोष्टुअग्रहणं कुर्यात् । नन्वेवम् स्त्रियां च, विभाषा तृतीयादिष्वचि इत्येवमर्थं पुनः तृजावतक्रोष्टुअः इति वक्तव्यं स्यादिति गौरवं स्यात् स्यादेतत् अचि र ऋतः इत्यस्यानन्तरम् क्रोष्टुअः स्त्रियाम् विभाषा तृतीयादिष्वचि इति रादेशार्थं वक्ष्यामीति नास्ति गौरवमिति । एवमपि क्रोष्टुअः, क्रोष्टरि, पञ्चक्रोष्टुअभी रथैरिति न सिद्ध्यति, नापि उदातयणो हल्पूर्वात् इति स्वरः, तुन्नन्तस्याद्यौदातत्वातदेवं जसि दीर्घातिदेशेऽपि नातिदेशाश्रणं व्यर्थमिति न तत्सामर्थ्यादनङदीनामाक्षेपतः सिद्धिः - इत्याहत्यपक्षो दुष्ट एव । अथानाहत्यपक्षः, अनङदीन्यतिदिष्टानि दीर्घत्वमनतिदिष्टम्, न हि तदृत इत्येवं विधीयते । अथ तृजीतिसमुदाय एव विवक्षितः, न त्वृकारः, न चाहत्यपक्ष आश्रीयते, किं तर्हि तृचि यद् दृष्ट्ंअ यत्किञ्चन निबन्धनं तस्य सर्वस्यातिदेशः एवमप्यङ्गप्रकरणादङ्गाधिकार एव विहितं यत् शास्त्रं कार्यं तदेवातिदिश्यत, न विप्रकृष्टमनाङ्गम् । यथाचि रवद्भावेन वृद्ध्यादीन्येव भवन्ति, न हनिणिङदेशः, ततश्च रपरत्वमनतिदिष्ट्ंअ स्यात् । रपरत्वमप्याङ्गम्, कार्यकालं संज्ञापरिभाषम्, ऋतो ङ् सिर्वनामस्थानयोः गुणो भवति, उपस्थितमिदं एभवति - उरण् रपरः इति । स्त्रियां च इत्यत्र तर्हि क्रोष्ट्रीत्यत्रानाङ्गयोरीकारयणोरतिदेशो न स्यात् वचनाद्भविष्यति, न तृजन्तस्य स्त्रियामाङ्गं किञ्चिदस्ति । स्त्रियामप्याङ्गं किञ्चिदस्ति - पञ्चभिः कर्तुभिः क्रीतो रथः पञ्चकर्ता रथः, हे पञ्चकर्त, पञ्चकर्तरीति स्त्रीलिङ्गे कर्तृशब्दे ङसिम्बुद्ध्योर्दृष्टस्य गुणस्यातिदेशः स्त्रियां च इत्यज्ञ सम्भवति न हि सम्बुद्धौ तृज्वत्कोष्टुअः इत्यनेन सिद्धिः, असम्बुद्धौ इत्यधिकारात् । ङै विभाषा तृतीयादिषविचि इति विकल्पः स्यात् । स्यादेतत् - स्त्रियां च इत्यत्र न किञचिन्निमितमुपादीयते, ततश्च प्रागेव विभक्त्युत्पतेः स्त्रियां वर्तत इत्येवं तृजन्ते दृष्टस्यातिदेशः, न च तदाङ्गं सम्भवतीति अनाङ्गस्याप्यतिदेश इति एवमपि पञ्चभिः क्रोष्ट्रभिः क्रीतै रेथैः पञ्चक्रोष्ट्ःअभी रथैरित्यत्र न कथञ्चन तृजनतरुपप्रादुर्भावः सम्भवति । तथा विभाषा तृतीयादिष्वचि इत्यत्रापि क्रोष्टरीति आङ्गस्य गुणस्यातिदेशसम्भवात् क्रोष्ट्रा, क्रोष्टुअरिति यण्शास्त्रमुत्वशास्त्रं चानाङ्गं नातिदिश्यते, नापि स्वरः । ननु तन्नापि तृतीयादिग्रहण सामर्थ्यादनाङ्गमप्यतिदिश्येत, अन्यथा विभाषा ङै इत्येव ब्रूयात् नैतदस्ति अभावातिदेशार्थं तृतीयादिग्रहणं स्यात्, वतिनिर्द्देशेष्वभावातिदेशस्यापि दृष्टत्वात्, यथा - मरुभूमिवदस्मिन्ग्रामे जलमिति । शास्त्रेऽपि तृतीयादिषु भाषितपुंसक्म् - इत्यत्र नुम्ह्रस्वयोरभावोऽतिदिश्यते । यदा हि प्रत्यासतेराङ्गमेवातिदेश्यमिति स्थितम्, तदा न सर्वासु तृतीयादिषु भावातिदेशः सम्भवतीति यस्य शास्त्रस्य भावस्तृजन्ते दृष्टः, तुन्नन्तेऽपि तस्य भावोऽतिदिश्यते । यस्य त्वभावः, तृजन्तेऽपि तस्याभावोऽतिदेश्यः स्यात् । तदेवं शास्त्रातिदेशास्य बहुच्छिद्रत्वाद्रूपातिदेश एवायमाश्रयणीयः । तदाह रुपातिदेशोऽयमिति । यद्यवम्, यस्य कस्यचितृजन्तस्य रुपमतिदिश्यते - पक्ता, वक्तेति तत्राह - प्रत्यासतेरिति । अथैतस्मिन् रुपातिदेशे प्रयोगसमवायि यद्रूपम् - क्रोष्टा, क्रोष्टारौ, पञ्चक्रोष्ट्ःअभी रथैः, क्रोष्ट्रा, क्रोष्टुअः, क्रोष्टरीत्येवम् - सावाकारन्तं द्विवचनादावारन्तम्, स्त्रियां क्वचिद्रेफान्तं क्वचिदकारान्तम्, तृतीयादौ रेफान्तम्, ङसिङ्सोरुकारान्तम्, ङवरन्तमिति तदतिदिश्यते आहोस्विच्छास्त्रीयं यद्रूपम् ण्वुल्तृचौ, तृज्वत्क्रोष्टुअः इत्युपदेशवाक्येऽतिदेशवाक्ये च श्रुतं तदतिदिश्यते तत्राद्ये पक्षे उदातयणो हल्पूर्वात् इति स्वरो न सिद्ध्यति, न हि क्रोष्ट्रेत्यादावृकारावस्था कदाचिद्दृष्टा, यतोऽयमुदातयणः स्यात् । तस्माद् द्वितीयः पक्ष आश्रणीयः । तदाह - तच्च क्रोष्ट्ःअ इत्येतदिति । नन्वत्रापि पक्षे उपदेशवाक्ये, अतिदेशवाक्ये च तृशब्दस्योदातस्योच्चारणाभावादुच्चारितस्य वा गुणानामभेदकत्वेनाकिञ्चित्करत्वात् स्वरस्यातिदेशो न स्यात् सत्यम् चकारग्रहणसामर्थ्यातस्याप्यतिदेशो भविष्यति । तदाह - अन्तोदातमपि । यद्वा - मा भूत्स्वरस्यातिदेशः, तृजन्तरुपेऽतिदिष्टे तृज्बुध्या यथा दीर्घादीनि स्वेनस्वेन शास्त्रेण भवन्ति, स्वरोऽप्येवमेव भविष्यति । वतिनिर्द्देशाच्चायमतिदेश आश्रितः । यदि वतिनिर्देशमकृत्वा स्थान्यादेशभावं एवाश्रीयते, न किञ्चिदनिष्टम् तथा तु न कृतमित्येव ॥