शार्ङ्गरवाद्यञो ङीन्

4-1-73 शार्ङ्गरवादि अञः ङीन् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति। शार्ङ्गरवी। कापटवी। अञन्तेभ्यः — बैदी। और्वी। जातिग्रहणं चेहानुवर्तते। तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः। बैदस्य स्त्री बैदी॥ शार्ङ्गरव। कापटव। गौगुलव। ब्राह्मण। गौतम। एतेऽणन्ताः। कामण्डलेय। ब्राह्मकृतेय। आनिचेय। आनिधेय। आशोकेय। एते ढगन्ताः। वात्स्यायन। मौञ्जायन। एतौ फगन्तौ जातिः। कैकसेयो ढगन्तः। काव्यशैव्यौ ञ्यङन्तौ। एहि, पर्येहि। कृदिकारान्तौ। आश्मरथ्यो यञन्तः। औदपानः। उदपानशब्दः शुण्डिकाद्यणन्तः ४.३.७६ प्रयोजयति। अराल चण्डाल। वतण्ड। जातिः। भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् (ग०सू० ५२)। नृनरयोर्वृद्धिश्च (ग०सू० ५३)। अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते॥

Siddhanta Kaumudi

Up

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । (गणसूत्रम् -) नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नारी ॥

Laghu Siddhanta Kaumudi

Up

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात्। शार्ङ्गरवी। बैदी। ब्राह्मणी। <<नृनरयोर्वृद्धिश्च>> (वार्त्तिकम्)। नारी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शार्ङ्गरवाद्यञो ङीन्>> - शाङ्र्गरवाद्यञो ङीन् । शाङ्र्गरवादीति लुप्तपञ्चमीकम् । 'अञ' इति षष्ठी । 'अत' इत्यनुवृत्त पञ्चम्यन्ते अन्वेति । जातेरित्यनुवृत्तमता विशेष्यते । तदन्तविधिः । तदाह — शाङ्र्गरवादेरित्यादिना । शङ्र्गरवीति । शृङ्गरोरपत्यं स्त्रीत्यर्ते अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणःगोत्र च चरणैः सहे॑ति जातित्वान्ङीषि प्राप्ते ङीन् । स्वरे विशेषः । वैदीति । विदस्यापत्यं स्त्रीत्यर्थः ।अनृष्यानन्तर्ये विदादिभ्योऽञ् । गोत्रत्वेन जातित्वान्ङीषि प्राप्ते ङीन् । अञा अकारस्य विशेषणान्नेह-शूरसेनी ।जनपदशब्दा॑दित्यपत्येऽञ् ।अतश्चे॑ति तस्य लुक् । अत्र जातिलक्षणङीषेव न तु ङीन्, अञो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाऽभावात् । नृनरयोर्वृद्धिश्चेति । चकारात् ङीन् । नारीति । नृनरशब्दयोरुभयोरुदाहरणम् । तत्र नृशब्दात् 'ऋन्नेभ्यः' इति ङीपि प्राप्ते ङीन्, ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणङीषस्तु नृशब्दान्न प्रसक्तिः, तत्र 'अत' इत्यनुवृत्तेः । नरशब्दात्तु ङीनि नकारादकारस्य वृद्धिः । ननु परमपियस्येति चे॑ति लोपं बाधित्वाऽन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिः स्यात् । न च कृतायामपि वृद्धौयस्येति चे॑त्यकारलोपः स्यादिति वाच्यं, वृद्धिविधिसामर्थ्यादेव तस्य लोपाऽभावासिद्धेरिति चेदुच्यते-नृनरयोरित्यत्र 'नर्' इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः-अः-नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः । नचैवमपि वानरीशब्देऽतिप्रसङ्ग इति वाच्यम्, अर्थवत एव ग्रहणात् । न च नृशब्दान्ङीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यं, नरत्वजातिवाचिनो नरशब्दात्स्त्रियां जातिलक्षणङीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तुनृनरयोर्वृद्धिश्चे॑ति गणसूत्रं नारब्धव्यमेव ।तदस्य धम्र्य॑मित्यनुवृत्तौऋतोऽञि॑ति सूत्रेणनरस्य चे ति वक्तव्य॑मिति वार्तिकेन च नुर्धम्या नरस्य धम्र्येत्यर्ते नृशब्दान्नरशब्दाच्च अञि ततःटिड्ढाण॑ञिति ङीपि नारीति सिद्धेः ।ञ्नित्यादिर्नित्य॑मिति प्रकृतेराद्युदात्तत्वे ङीपः पित्त्वादनुदात्तत्वम् । ङीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाऽभावात् । नचैवं सति मनुष्यधम्र्यत्वेनैव बोधः स्यान्न तु नरत्वेनेति वाच्यं, योग्यतया हि तद्धम्र्या नरत्वाजातिविशिष्टैव बुध्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्यदिगादिभ्यो य॑दिति भवार्थकतया सिद्धत्वात्वसेस्तव्यत्कर्तरि णिच्चे॑ति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथंचिदन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम् ।

Padamanjari

Up

एतेऽणन्त इति । शृङ्गरु, कपटुअ, गुग्गुलु, ब्रह्मन् - इत्येतेभ्यः प्राग्दीव्यतोऽण्, गोतमशब्दादृष्यण्,, गौरादिष्वप्ययं पठितः । एते ढगन्ता इति । बाहुल्यादेवमुक्तम् । कणण्डलुशब्दाच्चतुष्पाद्भ्यो ढञ्, इतरेभ्यस्तु शुभ्रादिलक्षणो ढक् । एतौ फगन्ताविति । वात्स्यशब्दाद् गर्गादियञन्ताद्यौउनि'यञिञोश्च' इति फक् । ननु न स्त्रियां युवसंज्ञा,'गोत्राद्यौउन्यस्त्रियाम्' इति वचनात्, गोत्रे च ठेको गोत्रेऽ इति नियमः ? एवं तर्हि वात्स्यायनशब्दस्यास्मिन् गणे पाठसामर्थ्यात्स्त्रियां युवसंज्ञा भविष्यति, गोत्र एव वा प्रत्ययद्वयम् । मुञ्जशब्दो नडादिः । जातिरिति । गोत्रलक्षणा । ढगन्त इति । कीकसाशब्दः शुभ्रादिः । ञ्यङ्न्ताविति ।'वृद्धेत्कोसलाजादाञ्ञ्यङ्' इति कवि-शिविभ्यां ञ्यङ्,'यङ्श्चाप्' अत्र प्राप्नोति । एहि, पर्येहीति । ठीह चेष्टायाम्ऽ आङ्पूर्वात्पर्याङ्पूर्वाच्च'सर्वधातुभ्य इन्' इतीन् प्रत्ययः, अश्मरथशब्दो गर्गादिः, उदपानशब्दः शुण्डिकादिः, उत्सादिश्च, तत्राह - शुण्डिकाद्यणन्तः प्रयोजयतीति । अन्ते तु ङीपो ङीनो वा नास्ति विशेषः । जातिरिति । अराल -चण्डालयोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डशब्दस्य गोत्रत्वात् । वतण्डस्यापत्यं स्त्री'वतण्डाच्च' इति यञ्,'लुक् स्त्रियाम्' इति तस्य लुक् । भोगवद्गोरिमतोरिति । मत्वन्तत्वात् ठुगितश्चऽ इति ङीपि प्राप्ते वचनम् । ननु भोगशब्दो घञन्तः, गौरिशब्दः ठत इञ्ऽ इतीञन्तः, तौ ञित्स्वरेणाद्यौदातौ, ताभ्यां मतुप्, पित्वादनुदातः, ततश्च न ङीब्ङीनोरत्रास्ति विशेषः ? तत्राह - घादिषु नित्यमिति । उगिल्लक्षणे ङीपि सति'नद्याः शेषस्यान्यतरस्याम्' , ठुगितश्चऽ इति विकल्पेन ह्रस्वत्वं स्यात्, ङीनि तु सति'घरूपकल्प' इति नित्यं सम्भवति । कथं भवति, यावता उगितः परा या नदी तस्या विकल्पो विहितः, ङीनपि चोगितः परा नदी, बोगवद्गौरिमतोरुगित्वात् ? नैष दोषः; ठुगितश्चऽ इति इत्यर्थेऽयं चशब्दः, उगित इत्येवमुगित्संशब्दनेन या नदी विहिता न चानेन विहितो ङीनेवं विहिता नदी भवति । यथा तु'युवोरनाकौ' इत्यत्र भाष्यम्, तथोगितः परा या नदीत्येतदेव स्थितम् । संज्ञाया अन्यत्र हीबेव भवति ह्रस्वश्च विकल्पितः । नृनरयोर्वृद्धिश्चेति । नृशब्दादृन्नेभ्यो ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । वृद्धिश्चेति, वक्ष्यामीति च अन्यतरस्य ग्रहणेऽपि नारीतीष्ट्ंअ सिद्धम्, अन्यतरस्यानिष्टनिवृत्यर्थं तु द्वयोरुपादानम् । तत्र नरशब्देऽन्त्यस्य वृद्धौ सत्यां यस्येतिलोपादानर्थक्यमिति यस्येति लोपस्तावद्भवति, तत्र कृते रेफस्य वृद्धिः प्राप्नोति, का ? अविशेष्ट्पर्यायेण सर्वैव ? नैष दोषः;'स्थाने' न्तरतमःऽ इत्यत्रान्तरतमे स्थाने षष्ठीत्यपि पक्षो व्याख्यातः, ततो नृनरयोरिति यैषा षष्ठी सा वृद्धेरन्तरतमे नृनरावयवे स्थानिन्यनुसंह्रियते । यत्र च षष्ठी तत्रादेश इत्यकारस्यैव भविष्यति । अत्र पुत्रशब्दं केचित्पठन्ति, न स केवलः स्त्रियां वर्तत इति तदन्तस्य समासस्य ग्रहणम् । तत्रापि बहुपुत्रा, अतिपुत्त्रेत्यादावनुपसर्जनाधिकारान्न भवति । क्व तर्हि भवति ? पुत्रप्रधाने । ननु पुत्रप्रधानं समासे सैव पुंल्लिङ्गता ? सत्यम् ;'सूतोग्रराजभोजमेरुभ्यो दुहितुः पुत्रड् वा' इति वातिककारेण यत्र पुत्रडादेशो विहितस्तान्युदाहरणानि । सूतपुत्री, राजपुत्रीति - अत्र स्वभावात्पुत्रशब्दो दुहितृशब्देन समानार्थः, न पुत्रडादेश इति पठतामभिप्रायः । अन्ये तु'प्रद्योतपुत्री शैलपुत्रीति वार्तिकविषयादन्यदेव ङीन उदाहरणम्, पुत्रडादेशस्तु ङीपि स्वरार्थः' इति मन्यन्ते, नात्राप्तभाषितमस्ति ॥