वदव्रजहलन्तस्याचः

7-2-3 वदव्रजहलन्तस्य अचः सिचि वृद्धिः परस्मैपदेषु

Kashika

Up

index: 7.2.3 sutra: वदव्रजहलन्तस्याचः


वदव्रजोः हलन्तानां च अङ्गानामचः स्थाने वृद्धिर्भवति सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानामपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणमन्तरेण अपि सिध्यति। कथम्? वदिव्रज्योः इत्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यदचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर्भवति। तदेतद् धल्ग्रहणम् हल्समुदायपरिग्रहार्थम्। इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत्। अन्यथा हि येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनाम् पूर्वत्र असिद्धम् 8.2.1 इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यम् सौढामित्रिः इति।

Siddhanta Kaumudi

Up

index: 7.2.3 sutra: वदव्रजहलन्तस्याचः


वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.3 sutra: वदव्रजहलन्तस्याचः


एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ {$ {! 11 कटे !} वर्षावरणयोः $}॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥

Balamanorama

Up

index: 7.2.3 sutra: वदव्रजहलन्तस्याचः


वदव्रजहलन्तस्याचः - अत्र वृद्धिमाशङ्कितुमाह— वदव्रज। वद व्रज हलन्त एषां समाहाद्वन्द्वात् षष्ठ्येकवचनम्। अङ्गस्येत्यधिकृतम्। सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह— वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदव्राजीदित्यत्र अतो हलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्।

Padamanjari

Up

index: 7.2.3 sutra: वदव्रजहलन्तस्याचः


विकल्पबाधनार्थमिति । अतो हलादेर्लघोः इति विकल्पो वक्ष्यते । नेटि इति प्रतिषेधे प्राप्त इति तु नोक्तम् विकल्पस्यैव वस्तुतः प्राप्तत्वात् । अत्रेत्यादि । वदव्रज्योः इत्येको योगः, अचः इति द्वितीयः तत्राङ्गेनाज्विशेष्यत इति - अङ्गस्य योऽच् यत्र तत्र स्थितस्तस्येति , तेन हलन्तस्य सिद्धा वृद्धिरिति भावः । किं पुनः कारणमङ्गेनाज्विशेष्यते, न पुनरचाऽङ्गस्येति असम्भवात् । अचिकीर्षीदित्यादौ अदन्तस्य तावत् नेटि इति प्रतिषेधः आकारन्तं तु सिचि न सम्भवति, यमरमनमातां सक्चेति सग्मविधानात् । सम्भवे वा नास्ति विशेषः सत्यां वा वृद्धावसत्यां वा । इगन्तस्य तु सिचि वृद्धिः इत्येव सिद्धा वृद्धिः । एजन्तमप्यात्वविधानान्नैव सम्भवति । अगवीदित्यत्र तु नेटि इति प्रतिषेधः । तदेवमङ्गेनाज्विशेष्यत इति सहृदयमभिधानम् । एवं प्रत्याख्याते हल्ग्रहणे, प्रयोजनमाह - तदेतदिति । किं पुनः कारणमन्तरेण हल्ग्रहणं हल्समुदायस्य परिग्रहो न सिद्ध्यति अत तथाअह - अन्यथा हीति । एतच्च यदा वृद्धिभागाजेव सिच्परत्वेन विशेष्यते, तदा वेदितव्यम् । अङ्गे तु विशेष्य माणे सर्वत्र सिध्यति । न चैवमचकासीदित्यादिष्वनेकाक्षु पूर्वस्याप्यचो वृद्धिप्रसङ्गः, नेटि इति प्रतिषेधात् । न चानेकाजनिडस्ति । न चापाक्षीदित्यादावटः प्रसङ्ग्ः, किं कारणम् लुङ् यिदङ्गं सिजन्तं तद्भक्तोऽडागमस्तद्ग्रहणेनैव गृह्यते न तु सिचि यदङ्गं तद्ग्रहणेन । यत्रापि सिचो लुक् क्रियते - अदातु, अधात् इति, तत्र सिच्परत्वाभावाद् वृद्धेरप्रसङ्गः । उदवोढामिति । वहेर्लुङ्, तसस्ताम्, सिच्, वह - स्तामिति स्थिते - वृद्धिश्च प्राप्नोति ढत्वादीनि च, आदिपदेन झलो झलि इति सिचो लोपः, झषस्तथोर्घोऽधः इति धत्वं ष्टुअत्वं ढलोप इत्येतेषां ग्रहणम् । तत्र ढत्वादीनामसिद्धत्वात्पूर्वं वृद्धिः क्रियते, पश्चात् ढलोपनिमितमोतवम् । अथ तस्य पुनर्वृद्धिः कस्मान्न भवति तत्राह - तत्र कृत इति । कृतत्वादिति । यद्यप्येकारस्य न कृता वृद्धिः तथापि प्रयोगेऽस्मिन् कृतेति भावः । यत्र त्विति । न ह्यएकारत्वनिबन्धनो वृद्धेरभावः, किन्तु कृतत्वनिबन्धन इति भावः । सोढा अभिभूता एअमित्रा येन स सोढामित्रः ॥