वदव्रजहलन्तस्याचः

7-2-3 वदव्रजहलन्तस्य अचः सिचि वृद्धिः परस्मैपदेषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वदव्रजोर्हलन्तानां चाङ्गानामचः स्थाने वृद्धिर्भवति, सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानाम् — अपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणमन्तरेणापि सिध्यति। कथम्? वदिव्रज्योरित्यत्र प्रथमयोगेऽत इति स्थानी अनुवर्तते। ततो यदच इति सूत्रं तत्राङ्गेनाज् विशेष्यते। अङ्गस्याचः सिचि परतो वृद्धिर्भवति। तदेतद् हल्ग्रहणं हल्समुदायपरिग्रहार्थम्। इहापि स्यात् — अराङ्क्षीत्। असाङ्क्षीत्। अन्यथा हि <<येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्>>इत्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनां <<पूर्वत्रासिद्धम्>>(८.२.१.)इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्यैव तत्र भवति, सोढामित्रस्यापत्यं सौढामित्रिरिति॥

Siddhanta Kaumudi

Up

वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ {$ {! 11 कटे !} वर्षावरणयोः $} (धातुपाठे <{01.0331}>)॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वदव्रजहलन्तस्याचः>> - अत्र वृद्धिमाशङ्कितुमाह— वदव्रज। वद व्रज हलन्त एषां समाहाद्वन्द्वात् षष्ठ्येकवचनम्। अङ्गस्येत्यधिकृतम्। सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह— वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदव्राजीदित्यत्र अतो हलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्।

Padamanjari

Up

विकल्पबाधनार्थमिति । अतो हलादेर्लघोः इति विकल्पो वक्ष्यते । नेटि इति प्रतिषेधे प्राप्त इति तु नोक्तम् विकल्पस्यैव वस्तुतः प्राप्तत्वात् । अत्रेत्यादि । वदव्रज्योः इत्येको योगः, अचः इति द्वितीयः तत्राङ्गेनाज्विशेष्यत इति - अङ्गस्य योऽच् यत्र तत्र स्थितस्तस्येति , तेन हलन्तस्य सिद्धा वृद्धिरिति भावः । किं पुनः कारणमङ्गेनाज्विशेष्यते, न पुनरचाऽङ्गस्येति असम्भवात् । अचिकीर्षीदित्यादौ अदन्तस्य तावत् नेटि इति प्रतिषेधः आकारन्तं तु सिचि न सम्भवति, यमरमनमातां सक्चेति सग्मविधानात् । सम्भवे वा नास्ति विशेषः सत्यां वा वृद्धावसत्यां वा । इगन्तस्य तु सिचि वृद्धिः इत्येव सिद्धा वृद्धिः । एजन्तमप्यात्वविधानान्नैव सम्भवति । अगवीदित्यत्र तु नेटि इति प्रतिषेधः । तदेवमङ्गेनाज्विशेष्यत इति सहृदयमभिधानम् । एवं प्रत्याख्याते हल्ग्रहणे, प्रयोजनमाह - तदेतदिति । किं पुनः कारणमन्तरेण हल्ग्रहणं हल्समुदायस्य परिग्रहो न सिद्ध्यति अत तथाअह - अन्यथा हीति । एतच्च यदा वृद्धिभागाजेव सिच्परत्वेन विशेष्यते, तदा वेदितव्यम् । अङ्गे तु विशेष्य माणे सर्वत्र सिध्यति । न चैवमचकासीदित्यादिष्वनेकाक्षु पूर्वस्याप्यचो वृद्धिप्रसङ्गः, नेटि इति प्रतिषेधात् । न चानेकाजनिडस्ति । न चापाक्षीदित्यादावटः प्रसङ्ग्ः, किं कारणम् लुङ् यिदङ्गं सिजन्तं तद्भक्तोऽडागमस्तद्ग्रहणेनैव गृह्यते न तु सिचि यदङ्गं तद्ग्रहणेन । यत्रापि सिचो लुक् क्रियते - अदातु, अधात् इति, तत्र सिच्परत्वाभावाद् वृद्धेरप्रसङ्गः । उदवोढामिति । वहेर्लुङ्, तसस्ताम्, सिच्, वह - स्तामिति स्थिते - वृद्धिश्च प्राप्नोति ढत्वादीनि च, आदिपदेन झलो झलि इति सिचो लोपः, झषस्तथोर्घोऽधः इति धत्वं ष्टुअत्वं ढलोप इत्येतेषां ग्रहणम् । तत्र ढत्वादीनामसिद्धत्वात्पूर्वं वृद्धिः क्रियते, पश्चात् ढलोपनिमितमोतवम् । अथ तस्य पुनर्वृद्धिः कस्मान्न भवति तत्राह - तत्र कृत इति । कृतत्वादिति । यद्यप्येकारस्य न कृता वृद्धिः तथापि प्रयोगेऽस्मिन् कृतेति भावः । यत्र त्विति । न ह्यएकारत्वनिबन्धनो वृद्धेरभावः, किन्तु कृतत्वनिबन्धन इति भावः । सोढा अभिभूता एअमित्रा येन स सोढामित्रः ॥