एङ्ह्रस्वात् सम्बुद्धेः

6-1-69 एङ्ह्रस्वात् सम्बुद्धेः हल्

Sampurna sutra

Up

एङ्-ह्रस्वात् सम्बुद्धेः हल् लुप्यते ।

Neelesh Sanskrit Brief

Up

एङन्तात् / ह्रस्वान्तात् शब्दात् विहितस्य सम्बोधनैकवचनप्रत्ययस्य हल्-वर्णः लुप्यते ।

Neelesh English Brief

Up

The हल् letter that belongs to a सम्बुद्धिप्रत्यय attached to एङन्त or ह्रस्वान्त word is removed.

Kashika

Up

लोप इति वर्तते, हलिति च। अपृक्त मिति नाधिक्रियते। तथा च पूर्वसूत्रे पुनरपृक्त ग्रहणं कृतम्। एङन्तात् प्रातिपदिकाद् ह्रस्वान्तात् च परो हल् लुप्यते स चेत् संबुद्धेर्भवति। एङन्तात् — हे अग्ने। हे वायो। ह्रस्वान्तात् — हे देवदत्त। हे नदि। हे वधु। हे कुण्ड। कुण्डशब्दाद् <<अतोऽम्>>७.१.२४ इत्यम्। <<अमि पूर्वः>> ६.१.१०७ इति पूर्वत्वे कृते हल्मात्रस्य मकारस्य लोपः। हे कतरदित्यत्र डिदयमद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावाद् नास्ति संबुद्धिलोपः। एङ्ग्रहणं क्रियते संबुद्धिगुणबलीयस्त्वात्॥

Siddhanta Kaumudi

Up

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥

Laghu Siddhanta Kaumudi

Up

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

Neelesh Sanskrit Detailed

Up

एकारान्तम् / ओकारान्तम् / ह्रस्वस्वरान्तम् यत् शब्दस्वरूपम्, तस्मात् विहितस्य सम्बोधन-एकवचनस्य हल्-वर्णस्य प्रकृतसूत्रेण लोपः भवति । <<एकवचनं संबुद्धिः>> 2.3.49 इति सूत्रेण सम्बोधनस्य एकवचनस्य प्रत्ययस्य सम्बुद्धिः इति संज्ञा दीयते । तस्याः एव अस्मिन् सूत्रे प्रयोगः कृतः अस्ति । उदाहरणानि एतानि — 1. एकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — इकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<ह्रस्वस्य गुणः>> 7.3.108 इत्यनेन गुणादेशे (एकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति — मुनि + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → मुनि + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9] → मुने + स् [<<ह्रस्वस्य गुणः>> 7.3.108] → मुने [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः] एवमेव, आकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<सम्बुद्धौ च>> 7.3.106 इत्यनेन एकारादेशे कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति — माला + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → माला + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9] → माले + स् [<<सम्बुद्धौ च>> 7.3.106] → माले [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः] 2. ओकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — उकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे <<ह्रस्वस्य गुणः>> 7.3.108 इत्यनेन गुणादेशे (ओकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति — धेनु + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → धेनु + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9] → धेनो + स् [<<ह्रस्वस्य गुणः>> 7.3.108] → धेनो [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति ओकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः] 3. ह्रस्वस्वरात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — अस्य उदाहरणानां क्रमेण परिगणनम् एतादृशम् — 1. अकारान्तपुंलिङ्गशब्दानाम् सम्बोधनैकवचनस्य रूपम् बाल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] बाल + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9] → बाल [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति ह्रस्वस्वरात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः] 2. अकारान्तनपुंसकलिङ्गशब्दानां सम्बोधनैकवचनस्य रूपम् फल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → फल + अम् [<<अतोऽम्>> 7.1.24 इति सुँ-प्रत्ययस्य अम्-आदेशः] → फलम् [<<अमि पूर्वः>> 6.1.107 इति पूर्वरूपैकादेशः] → फल [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सम्बुद्धिप्रत्ययस्य केवलम् हल्-वर्णः (मकारः) लुप्यते । 3. दीर्घ-ईकारान्तशब्दानाम्, दीर्घ-उकारान्तशब्दानाम् सम्बोधनैकवचनस्य रूपम् नदी / वधू + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → नदी / वधू + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2, <<तस्य लोपः>> 1.3.9] → नदि / वधु + स् [<<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इति ह्रस्वः] → नदि / वधु [<<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इति सुँ-प्रत्ययस्य लोपः] सूत्रप्रयोगस्य स्थलानि प्रकृतसूत्रस्य प्रयोगः अधोदत्तेषु स्थलेषु भवति 1. अकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानाम् च सम्बोधन-एकवचनस्य रूपसिद्धिः । 2. आकारान्त-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः । 3. इकारान्त-उकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः । एतेषाम् सर्वेषाम् उदाहरणानि उपरि निर्दिष्टानि सन्ति । कतर-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियाविशेषः सर्वनामसंज्ञकस्य कतर-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः न भवति । तत्र प्रक्रिया एतादृशी वर्तते — कतर + सुँ [सम्बोधनैकवचनस्य प्रत्ययः । <<एकवचनं सम्बुद्धिः>> 2.3.49 इति सम्बुद्धिसंज्ञा ।] → कतर + अद्ड् [<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> 7.1.25 इति सुँ-प्रत्ययस्य अदड्-आदेशः ।] → कतर + अद् [डकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः ।] → कतर् + अद् [प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इति अकारलोपः] → कतरद् [सम्बुद्ध्यैकवचनस्य सुँ-प्रत्ययः यद्यपि मूलरूपेण अकारान्तात् शब्दात् विहितः अस्ति, तथापि अत्र अद् इति प्रत्ययः हलन्तात् शब्दात् परः विद्यते । अतः अस्यां स्थितौ एङन्तस्य / ह्रस्वान्तस्य शब्दस्य अभावात् अत्र हल्-वर्णस्य (दकारस्य) लोपः न प्रवर्तते ।] अस्मिन्नेव सन्दर्भे भाष्यकारः ब्रूते — विहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति । अस्मिन् सूत्रे विद्यमानः ह्रस्वात् इति शब्दः यस्मात् ह्रस्वात् सम्बुद्धिप्रत्ययः विहितः अस्मिन् अर्थे स्वीकरणीयः इति अत्र भाष्यस्य आशयः वर्तते । अयमेव अर्थः सिद्धान्तकौमुद्याम् अङ्गशब्दस्य ग्रहणेन स्पष्टीकृतः अस्ति — एङन्तात् ह्रस्वन्तात् च अङ्गात् हल् लुप्यते, सम्बुद्धेः चेत् । सम्बुद्ध्याम् आक्षिप्तस्य अङ्गस्य एङ्-ह्रस्वाभ्याम् विशेषणात् न इह — हे कतरत् कुल इति । सिद्धान्तकौमुदीकारः अस्मिन् सूत्रे अङ्गात् इति शब्दम् आक्षिपति, येन कतर् + अद् इत्यस्यां स्थितौ ह्रस्वान्तस्य अङ्गस्य अभावात् प्रकृतसूत्रम् नैव प्रवर्तते ।

Balamanorama

Up

<<एङ्ह्रस्वात् सम्बुद्धेः>> - एङ्ह्रस्वात् ।एङ्ह्रस्वा॑दित्यङ्गविशेषणं, तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते, तच्चाङ्गादित्यत्रान्वेति -अङ्गात् परं ह॑सिति ।लोपो व्यो॑रित्यतो 'लोप' इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यते इति लोपः । कर्मणि घञ् ।संबुद्धे॑रित्यवयवषष्ठी-हलित्यत्रान्वेति । ततस्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं यत् संबुद्ध्यवयवभूतंतल्लुप्यते इत्यर्थः फलति । तदाह — एङन्तादित्यादिना । ननु एङ्ह्रस्वादित्यस्याङ्गधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एङो ह्रस्वाच्च परं संबुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह-सम्बुद्ध्यक्षिप्तस्येत्यादि । संबुद्धेः प्रत्ययत्वात्तत्प्रकृतेरङ्गत्वमर्थाल्लब्धम् । तस्य च एङा ह्रस्वेन च विशेषितत्वात्तदन्तविधौ एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं हल्लुप्यत इत्यर्थलाभादिह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरत्कुलेतीति । कतरशब्दस्य नपुंसकत्वस्फोरणाय कुलशब्दः । कतरशब्दान्नपुंसकलिङ्गात्संबुद्धिः सुः ।अद्डादेशः । डकार इत् । डित्त्वसामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः 'वाऽवसान#ए' इति चर्त्वे कतरदिति रूपम् । यदि एङ्ह्रस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात्, तदा कतरदित्यत्र तकारस्य हलो ह्रस्वादकारात् परत्वात्संबुद्ध्यवयवत्वाच्च लोपः प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोषः । अत्र हि टिलोपानन्तरं कतरिति रेफान्तमङ्गम् । तत्तु न ह्रस्वान्तम् । यत्तु तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्ग्रहणानुवृत्तिव्र्यर्था, एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्य संबुद्धेर्लोपः स्यादित्येव व्याख्यायाताम् । अस्तु वा हलनुवृत्तिः , तथापिएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परा या संबुद्धिस्तदवयवो हल्लुप्यते॑ इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानाति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दाप्रक्रियावासरे मूल एव स्पष्टीभविष्यति । हे हरे हे विष्णो इति । हरिशब्दाद्विष्णुशब्दाच्च संबुद्धिः सुः । 'ह्रस्वस्य गुण' इति गुणः । हे हरेस्, हे विष्णोसिति स्थिते, ह्रस्वात्परत्वाऽभावात्सुलोपो न स्यादत एङ्ग्रहणमित्यर्थः । ननु गुणात्पूर्वं हे हरि स्, हे विष्णु सित्यस्यामेव दशायां ह्रस्वात्परत्वादेव सुलोपसंभवादेङ्ग्रग्रहणं व्यर्थमित्यत आह — अत्रेति । संबुद्धिलोपापेक्षयाऽयं गुणः परः, नित्यश्च, अकृतेऽपि संबुद्धिलोपे तत्प्रवृत्तेः, कृते ।ञपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तेः, कृतेऽपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते, अतः संबुद्धिलोपात्प्रागेव ह्रस्वस्य गुणे कृते सति ह्रस्वात्परत्वा.ञभावात्सोर्लोपो न स्यात् । अत एङ्ग्रहणमित्यर्थः । अथ द्वितीया विभक्तिः । राम अमिति स्थिते, 'न विभक्तौ तुस्मा' इति मकारस्य नेत्त्वम् ।

Padamanjari

Up

अत्र यदि हल्ग्रहणं नानुवर्तेत, तत एङ्ह्रस्वाभ्यां सम्बुद्धिरेव विशेषणीया -एङ्न्ताद् ह्रस्वान्ताच्च परस्याः सम्बुद्धेर्लोप इति, ततश्च हे कुण्डेत्यत्र न स्यात्। कथम्? कुण्डासु इति स्थिते लोपश्च प्राप्नोत्यम्भावश्च, तत्र लोपः शब्दान्तरप्राप्त्याऽनित्याः, स हि कृतेऽम्भावे ठादेः परस्यऽ इत्यमोऽकारस्य प्राप्नोति, अकृते तु सकारस्य अम्भावस्तु लोपे कृतेऽत्यन्ताप्राप्त्याऽनित्यः- इत्युभयोरनित्ययोः परत्वादम्भावे कृतेऽमि पूर्वस्य प्राप्नोति लोपश्च। तत्रामि पूर्वत्वे कृते व्यपवर्गाभावादुभयत् आश्रणणेऽन्तादिवद्भावाभावाच्च लोपो न प्राप्नोति, लोपे च कृतेऽमोऽभावादमिपूर्वत्वं न प्राप्नोतीत्युभयोरनित्ययोः परत्वादमि पूर्वत्वे कृते लोपो न स्यात्, तस्मादनुवर्त्यं हल्ग्रहणम्। तदाह-हलिति चेति।'वर्तते' इत्यपेक्षते। अपृक्तमिति नाधिक्रियत इति। यद्यधिक्रियेत, हे कुण्कडेत्यत्र न स्यात्; अपृक्तसंज्ञाया अभावात्। कथं पुनर्ज्ञायते -नायमधिक्रियत इति? तत्राऽऽह -तथा चेति। अनुवर्तमानेऽपि हल्ग्रहणे यद्येङ्ह्रस्वाभ्यां सम्बुद्धिर्विशेष्येत, तया हल् विशेष्येत -एङ्न्ताद् ह्रस्वान्ताच्च परा या सम्बुद्धिस्तस्या हल्लुप्यते इति, ततः हे कुण्डेत्यत्र न स्यात् पूर्वोक्तादेव हेतोः। अत एङ्ह्रस्वाभ्यां सम्बुद्ध्या च हलेव विशेषणीय इति मत्वाऽऽह -एङ्न्तात्प्रातिपदिकादित्यादि। सम्बुद्ध्याक्षिप्तप्रतिपदिकमेङ्ह्रस्वाभ्यां विशेष्यत इति तदन्तविधिलाभः। अत्र पक्षे कुण्डेत्यत्रामि पूर्वत्वस्य पूर्वं प्रत्यन्तवद्भावाद् ह्रस्वान्तात्परो हल्भवति। वस्तुतश्च सम्बुद्धेरिति लोपः सिद्धयति। अच्छब्द इति। एतच्च तत्रैव व्याख्यास्यते। ह्रस्वाभावादिति। ननु चादडेवाकारो ह्रस्वः, ततः परो हल् भवति, सम्बुद्धेश्च सम्बन्धीति लोपः स्यादेव, सम्बुद्धौतु विशेष्यमाणायां प्रकृत्यकारस्य लोपे ह्रस्वात्प्रा सम्बुद्धिर्न भवतीति लोपाप्रसङ्गः? उच्यते;'सम्बुद्ध्याक्षिप्तं प्रातिपदिकमेङ्ह्रस्वाभ्यां विशेष्यते' इत्युक्तम्, तेन कुण्कडेत्यत्र न भविष्यति; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् प्रकृतिग्रहणेन ग्रहणात्। हे कतरदित्यत्र च न भविष्यति; टिलोपे कृते प्रकृतेरह्रस्वान्तत्वात्। सम्बुद्धिगुणबलीयस्त्वादिति। अन्यथा अग्निअसु इति स्थिते सम्बुद्धिगुणश्च प्राप्नोति, ह्रस्वादिति लोपश्च; तत्र नित्यात्वात्परत्वाच्च सम्बुद्धिगुणे कृतेऽह्रस्वान्तत्वान्न भवेत्। ननु च विहितविशेषणं विज्ञास्यते -ह्रस्वान्ताद्विहिता या सम्बुद्धिरिति? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति ? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति? एवमपि हे नदि, हे यवागु, हे कुमारीत्यत्र न स्यात्, न चात्र ङ्यन्तत्वाल्लोपो लभ्यते, दीर्घग्रहणात्। एवं तर्ह्युभयं विज्ञास्यते -विहितविशेषणम्, परविशेषणं च; तेनाग्ने, कुमारीत्यादौ सर्वत्र भविष्यति? तत्र सकृच्छ्4%अतस्य ह्रस्वग्रहणस्योभयविशेषणत्वमेव तावद् दुर्लभम्। अथापि लभ्यते? एवमपि हे कतरदित्यत्र यद्यपि टिलोपे कृते सम्बुद्धेर्ह्र स्वपरत्वाभावः, तथापि ह्रस्वान्ताद्विहिता सम्बुद्धिरिति स्यादेव लोपः। तस्मादेङ्ग्रहणं कर्तव्यम्। वयं तु ब्रूमः -ये स्वभावत एङ्न्तास्तदर्थमप्येङ्ग्रहणं कर्तव्यमिति। तद्यथाहेशब्दमतिक्रान्तो ब्राह्मणोऽतिहेः, तस्य सम्बोधनं हे अतिहे; अनुकृतः पचतेशब्दो येन तस्य सम्बोधनं हेऽनुकृतपचते; विहित ईरेप्रत्ययो येन स विहितेरेः पाणिनिः, तस्य सम्बोधनम् -हे विहितेरे इत्यादि। अत्र संग्रहश्लोकः - सम्बुद्धिर्ह्र स्वभेद्या यदि हि न च भवेन्नादिवन्नान्तवत्स्याद्, दोषोऽसौ हल्निवृतावपि लुपि भवतोऽम् पूर्वरूपे परत्वात्। ह्रस्वान्ताल्लुब्विधिः स्याद्धल इति कतरड्डित्वतो नो हलो लुप्, ह्रस्वश्रुत्या न शक्यः परविहितविधिर्नातिहेऽतोऽप्यकार्येऽङ् ॥ लोपनं लुप्, लोप इत्यर्थः ॥