च्लेः सिच्

3-1-44 च्लेः सिच् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि

Sampurna sutra

Up

index: 3.1.44 sutra: च्लेः सिच्


च्लेः सिच्

Neelesh Sanskrit Brief

Up

index: 3.1.44 sutra: च्लेः सिच्


च्लि-विकरणस्य सिच्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.1.44 sutra: च्लेः सिच्


The च्लि विकरण is converted to सिच्.

Kashika

Up

index: 3.1.44 sutra: च्लेः सिच्


च्लेः सिजादेशो भवति। इकार उच्चारणार्थः, चकारः स्वरार्थः। अकार्षीत्। अहार्षीत्। आगमानुदात्तत्वं हि प्रत्ययस्वरम् इव चित्स्वरमपि बधेत इति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते। स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः। अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। अकार्षीत्, अक्राक्षीत्, अकृक्षत्। अत्राप्सीत्, आतार्प्सीत्, अतृपत्। अद्राप्सीत्, अदार्प्सीत्, अदृपत्।

Siddhanta Kaumudi

Up

index: 3.1.44 sutra: च्लेः सिच्


इचावितौ ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.44 sutra: च्लेः सिच्


इचावितौ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.44 sutra: च्लेः सिच्


लुङ्लकारस्य विषये च्लि लुङि 3.1.43 इत्यनेन 'च्लि' इति विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य अनेन सूत्रेण सिच्-आदेशः विधीयते । 'सिच्' इत्यत्र इकारचकारौ इत्संज्ञकौ स्तः, अतः तयोः लोपः भवति, सकार एव अवशिष्यते ।

यथा, पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -

पठ् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ पठ् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']

→ पठ् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]

→ अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ पठ् + स् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ पठ् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ पठ् + इट् स् + त् [आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते 7.3.96 इति ईट्-आगमः]

→ अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः 7.2.7 इति वैकल्पिकवृद्धिः]

→ अ पठ्/पाठ् + इ + ई + त् [इट ईटि 8.2.28 इति सकारलोपः]

→ अपठीत् / अपाठीत् [ <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

[ <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ]

ज्ञातव्यम् - अनेन सूत्रेण 'औत्सर्गिकरूपेण' च्लि-इत्यस्य सिच्-आदेशः विधीयते । अस्य अपवादरूपेण भिन्नैः सूत्रैः क्स/चङ्/अङ्/चिण् एते प्रत्ययाः च्लि-प्रत्ययस्य आदेशरूपेण आगच्छति । एतेषां कस्यापि प्रसक्तिः नास्ति चेत् वर्तमानसूत्रेण 'सिच्' प्रत्ययः विधीयते ।

Balamanorama

Up

index: 3.1.44 sutra: च्लेः सिच्


च्लेः सिच् - च्लेः सिच् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्यतु अमंस्तेत्यत्रअनिदितां हल उपधाया॑ इत्युपधालोपस्याऽप्रवृत्तिः प्रयोजनम् ।

Padamanjari

Up

index: 3.1.44 sutra: च्लेः सिच्


च्लेः सिच्॥ इकार उच्चारणार्थ इति। न त्वनुबन्धः। यद्येवम्, असंस्तेत्यत्र सिजन्तस्याङ्गस्यात्मनेपदं ङ्तिमपेक्ष्य ठनिदिताम्ऽ इति नलोपः प्रपानोति? ज्ञापकात्सिद्धम्, यदयम्,'हनः सिच्' इति हन्तेः परस्य सिचः कित्वं शास्ति, तज् ज्ञापयति - न सिजन्तस्योपधालोपो भवतीति। यथा चैतज्ज्ञापकं तथा तत्रैवोक्तमिति तत्रैवावधार्यम्। चकारः स्वरार्थः इति। अन्तोदातार्थः। ननु सिचोऽनच्कत्वात् कथं चकाराः स्वरार्थः, इति कृते साच्को भवति? एवमपि प्रत्ययस्वरेण सिद्धम्। न सिद्ध्यति, नाप्राप्ते स्वरान्तरे विधीयमानमागमानुदातत्वं प्रत्ययस्वरं बाधेन? एवं तर्हि च्लेश्चित्वात्स्थानिवद्भावाच्चित्स्वरो भविष्यति, तत्राह - आगमानुदातत्वं हीति। चित्स्वरमपि बाधेतेति। स्थानिवद्भावकृतम्। ननु च यदि मा हि लावीदित्यत्रागमानुदातत्वं स्यात्, च्लेश्चिक्तरणमनर्थकं स्यात्? एवं मन्यते - च्लेश्चकारो मन्त्रेघसादिसूत्रे सामान्यग्रहणे चरितार्थः; अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः, ततश्च ठामःऽ इत्यत्र निरनुबन्धकस्य लेरसम्भवाल्लेरिति नानुवर्तेत, ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु कृतेषु पश्चाल्लुकि कारयामित्यस्य प्रत्ययलक्षणेन तिङ्न्तत्वाद् देवदतः कारयाञ्चकारेति तस्य च निघातः, तस्माच्चानिघातः स्यात्। तस्मादाम इत्यत्र लेरित्यनुवर्तनीयम्। तस्य च तत्रानुवृत्तिः पूर्वत्रसामान्यग्रहणे सत्युपपद्यते। तस्माच्च्लेश्चकारस्य चरितार्थत्वात्स्थानिवद्भावात्प्राप्तं चित्स्वरमपि बाधेतेति सम्भावने लिङ्, सम्भाव्येत बाधनमित्यर्थः। अनुबन्धान्तरेणापि सामान्यग्रहणसिद्धे चकारानुरोधेन चित्स्वर एव भविष्यतीति शक्यते वक्तुमिति भावः। स्पृशभृशेति।'स्पृश स्पर्शने' 'मृश आमर्शने' 'कृष विलेखने' - इत्येतेभ्यः क्से आप्ते'तृप प्रीणने' 'द्दप हर्षविमोचनयोः' - आभ्यां पुषादित्वादङ् प्रिप्ते सिजपि पक्षेऽभ्यनुज्ञायते। अस्पृक्षदिति। व्रश्चादिषत्वे'षढोः कः सि' कत्वम्। कास्प्राक्षीदिति। ठनुदातस्य चर्दुपधस्य चऽ इति पक्षे अमागमः, ऋकारस्य यण,'वदव्रज' इत्यादिनाकारस्य वृद्धिः, अमभावपक्षे ऋकारस्यैव वृद्धिः। एवमुतरत्रापि॥