अस्तिसिचोऽपृक्ते

7-3-96 अस्तिसिचोः अपृक्ते सार्वधातुके हलि ईट्

Sampurna sutra

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


अस्तिसिचः अङ्गात् अपृक्ते सार्वधातुके हलि ईट्

Neelesh Sanskrit Brief

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


A सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) gets an 'ईट्' आगम when it follows either the अस् धातु or the सिच्-प्रत्यय.

Kashika

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


अस्तेरङ्गात् सिजन्ताच् च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः आसीत्। आसीः। सिजन्तात् अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्ते इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन इह न भवति, आत्थ, अभूतिति।

Siddhanta Kaumudi

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥

Neelesh Sanskrit Detailed

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः -

  1. किम् नाम अपृक्तम्? अपृक्त एकाल्प्रत्ययः 1.2.41 - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।

  2. किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् 3.4.113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।

  3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ 1.1.46 इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।

  4. किम् नाम सिच्? च्लेः सिच् 3.1.44 इत्यनेन लुङ्लकारस्य प्रत्यये परे 'च्लि' इत्यस्य विकरणप्रत्ययस्य 'सिच्' आदेशः भवति ।

अतः अनेन सूत्रेण किमुच्यते?

अस्-धातोः अङ्गात् परम् , तथा सिच्-प्रत्ययान्त-अङ्गात् परम् यदि कश्चन एकव्यञ्जननिर्मितः सार्वधातुकप्रत्ययः अस्ति, तर्हि तस्य प्रत्ययस्य ईट्-आगमः भवति ।

यथा -

1) अस्-धातोः लङ्लकारस्य प्रथमपुरुष-एकवचनस्य 'आसीत्' इत्यस्य रूपसिद्धिम् पश्यामः -

अस् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ आट् + अस् + ल् [आडजादीनाम् 6.4.72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]

→ आ + अस् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]

→ आ + अस् + शप् + ति [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]

→ आ + अस् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् ।]

→ आस् + ति [ आटश्च 6.1.90 इति वृद्धि-एकादेशः]

→ आस् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ आस् + ईट् + त् [अस्तिसिचोऽपृक्ते 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ।]

→ आसीत् [हलन्त्यम् 1.3.3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति तस्य लोपः। वर्णमेलनम् ।]

अनेनैव प्रकारेण अस्-धातोः मध्यमपुरुषैकवचनस्य 'आसीः' इति रूपमपि सिद्ध्यति ।

2) कृ-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य 'अकार्षीत्' इत्यस्य रूपसिद्धिं पश्यामः -

कृ + लुङ् [लुङ् 3.2.110 इति लुङ्]

कृ + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']

→ कृ + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।

→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]

→ अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + कृ + स् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]

→ अ + कृ + स् + त् [ इतश्च 3.4.100 इति इकारलोपः]

→ अ + कृ + स् + ई + त् [अस्तिसिचोऽपृक्ते 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ]

→ अ + कार् + स् + ई + त् [सिचि वृद्धिः परस्मैपदेषु 7.2.1 इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]

→ अ + कार् + ष् + ई + त् [आदेशप्रत्यययोः 8.3.59 इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)]

→ अकार्षीत् ।

अनेनैव प्रकारेण कृ-धातोः मध्यमपुरुषैकवचनस्य 'अकार्षीः' इति रूपमपि सिद्ध्यति ।

Balamanorama

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


अस्तिसिचोऽपृक्ते - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया 'अस्तिसिचः' इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिचेति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः ।

Padamanjari

Up

index: 7.3.96 sutra: अस्तिसिचोऽपृक्ते


ठपृक्तेऽ इति षष्ठ।ल्र्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । ठस् भुविऽ, शपो लुक्, तिप ईट् । अलावीदिति । लुङ्, ठिट ईटि इति सिचो लोपः । आहिभुवोरीट्प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति ।'व्रुवः पञ्चानाम्' इत्यादिना सिपस्थल्, ब्रुव आहादेशः, ठाहस्थःऽ इति हकारस्य थत्वम्, तस्य'खरि च' इति चर्त्वम् - तकारः । अभूदिति । लुङ्, ठस्तेर्भूःऽ'गातिस्था' इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे ठाहस्थःऽ इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात् - झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ॥