लुङि च

2-4-43 लुङि च आर्धधातुके हनः वध

Kashika

Up

index: 2.4.43 sutra: लुङि च


लुङि च परतः हनो वध इत्ययमादेशो भवति। अवधीत्, अवधीष्टाम्, अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लुङि विकल्पो यथा स्याल् लिङि मा भूत्।

Siddhanta Kaumudi

Up

index: 2.4.43 sutra: लुङि च


वधादेशोऽदन्तः । आर्धधातुके <{SK2300}> इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः <{SK2308}> । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः <{SK359}> इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः <{SK2284}> इति न वृद्धिः । अवधीत् ॥ अथ चत्वारः स्वरितेतः ॥{$ {!1013 द्विष!} अप्रीतौ$} । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.4.43 sutra: लुङि च


वधादेशोऽदन्तः । आर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् । 'अतो हलादेः' इटि वृद्धौ प्राप्तायाम् -