7-4-53 यीवर्णयोः दीधीवेव्योः सि लोपः
index: 7.4.53 sutra: यीवर्णयोर्दीधीवेव्योः
यकारादौ इवर्णादौ च परतो दीधीवेव्योः लोपो भवति। यकारादौ आदीध्य गतः। आवेव्य गतः आदीध्यते। आवेव्यते। इवर्णादौ आदीधिता। आवेविता। लिङि आदीधीत। आवेवीत। यीवर्णयोः इति किम्? आदीध्यनम्। आवेव्यनम्।
index: 7.4.53 sutra: यीवर्णयोर्दीधीवेव्योः
एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे । इति लोपं बाधित्वा नित्यात्वाट्टेरेत्वम् । दीध्ये । दीधीवैवीटाम् <{SK2190}> इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते ।{$ {!1077 वेवीङ्!} वेतिना तुल्ये$} । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥ अथ त्रयः परस्मैपदिनः ॥{$ {!1078 षस!} {!1079 षस्ति!} स्वप्ने$} । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । पूर्वत्रासिद्धम् <{SK12}> इति सलेपस्यासिद्धत्वात् अतो हेः <{SK2202}> इति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् । सन्ति । इदित्वान्नुमि कृते संस्तः इति स्थिते स्कोः-<{SK380}> इति सलोपे झरो झरि सवर्णे <{SK71}> इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोः-<{SK380}> इति लोपाभावात् । संस्ति । संस्तः इत्येके ।{$ {!1080 वश!} कान्तौ$} । कान्तिरिच्छा । वष्टि । उष्टः । उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्ढि । अवट् । अवड् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् ।{$ {!1081 चर्करीतं!} च (गणसूत्रम् -) $}॥ यङ्लुगन्तमदादौ बोध्यम् ॥{$ {!1082 ह्नुङ्!} अपनयने$} । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट । इत्यदादयः । इति तिङन्तादादिप्रकरणम् ।
index: 7.4.53 sutra: यीवर्णयोर्दीधीवेव्योः
यीवर्णयोर्दीधीवेव्योः - यीवर्णयोर्दीधीवेव्योः । यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी । 'यि' इत्यत्र इकार उच्चारणार्थः ।तासस्त्यो॑रित्यतो लोप इत्यनुवर्तते ।अलोऽन्त्यस्ये॑त्यन्त्यस्य॑ लोपः । तदाह - एतयोरित्यादि । 'आदीध्यगतः'आवेव्य गतः॑ । अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरणं वक्ष्यते । इति लोपमिति । लट इडादेशे दीधी इ इत्यत्रयीवर्णयो॑रिति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरित्त्वमित्यर्थः । कृते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाऽभावान्न लोप इति भावः । गुणनिषेध इति । दीधी — आमिति स्थितेसार्वधातुकार्धधातुकयो॑रिति प्राप्तस्य निषेध इत्यर्थः । दीधितेति । इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः । दीधीताम् दीध्याताम् दीध्यताम् । दीधीष्व दीध्याथाम् । दीधीध्वम् । दीध्यै दीध्यावहैदीध्यामहै । अदीधीत अदीध्यातामदीध्यत । अदीधीथाः अदीध्याथामदीधीद्वम् । अदीधि दीधीवहि अदीधीमहि । दीधीत् दीधीयाताम् । दीधिषीष्ट दीधिषीयास्ताम् । दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवीङ वेतिना तुल्ये इति । दीधीवद्रूपाणि । इति जक्षित्यादयः ।षस षस्ति स्वप्ने इति । षोपदेशावेतौ । द्वितीय इदित् । तत्र षसधातोरुदाहरति — सस्तीति । ससन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वा आह — सेसतुरिति । सेसुः । ससिथ सेसथुः सेस । ससास — ससस सेसव सेसिम । ससिता । ससिष्यति । सस्तु — सस्तात् सस्ताम् ससन्तु । सस् हि इति स्थिते हेर्धिभावे 'धि चे' ति सलोपं मत्वाह — सधीति । तत्रधि इत्यस्य स्थानिवत्त्वेन हित्वात्अतो हे॑रिति लुकमाशङ्क्याह - पूर्वत्रेति । सस्तात् सस्तम् सस्त । ससानि ससाव ससाम । लङ्याह — असदिति । असस् त इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थितेसिपि धातो॑रिति रुर्वा । पक्षे दः । हल्ङ्यादिलोपः । तदाह — असः असदिति । असस्तमसस्त । अससमसस्व असस्म । लिङ्याह — सस्यादिति । सस्याताम् । सस्यास्तामित्यादि । लुङ्याह — असासीदिति ।अतो हलादे॑रिति वृद्धिविकल्प इति भावः । अससिष्यत् । अत षस्तिधातोरुदाहरति — सन्तीति । इद#इत्त्वान्नुम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारे संस् त् तीति स्थिते,स्को॑रिति सलोपे,परसवर्णे,झरो झरी॑ति प्रथममतकारस्य लोपविकल्पे , एकतं द्वितं वा रूपमिति भावः । संस्तन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि संस्त् सि इति स्थितेस्को॑रिति सलोपे अनुस्वारस्य परसवर्णो नकारः । सवर्णपरत्वाऽभावात्झरो झरी॑ति तकारलोपे न । सन्त्सि सन्थः सन्थ । संस्त्मि संस्त्वः संस्त्मः । ससंस्त ससंस्ततुः । ससंस्तिथ । ससंस्तिव ससंस्तिम । संस्तिष्यति । सन्तु — सन्तात् सन्ताम् संस्तन्तु । संस्त् हि इति स्थिते हेर्धिभावेस्को॑रिति सलोपे परसवर्णे सन्त् धि इति स्थितेझरो झरी॑ति तकारस्य लोपः । सन्धि । लोपाऽभावे तकारस्य जश्त्वे सन्द्धि — सन्तात् सन्तम् सन्त । संस्तानि संस्ताव संस्ताम । लङस्तिपि असंस्त् त् इति स्थिते हल्ङ्यादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे — असन् । असन्तामसंस्तन् । असन् असन्तमसन्त । असंस्तमसंस्त्व असंस्त्म । संस्त्यात् । असंस्तीत् । असंस्तिष्यत् । मतान्तरमाह -बहूनामिति । इत्याश्रित्येति । तथा च प्रकृते लटस्तिपि संस्त् तीति स्थिते झलि परे अनुस्वारसकारतकाराणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात्स्को॑रिति लोपाऽभावात् संस्तीत्याद्यूह्रमित्यर्थः । वश कान्ताविति । कान्तिरिच्छा । सेट् । वष्टीति ।व्रश्चे॑ति शसय् षत्वे तकारस्य ष्टुत्वेन टः । उष्ट इति । ङिति 'ग्रहिज्या' इति संप्रसारणे रूपमिति बावः । उवाशेति । लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊशतुरिति । परत्वाद्ग्रहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः । उवशिथ ऊशथुः ऊश । उवाश — उवश ऊशिव ऊशिम । वशितेति । अनेन सेट्त्वं द्योतितम् । वशिष्यति । उष्टामिति । उशन्त्वत्यपि ज्ञेयम् । उड्ढीति । वश् हि इति स्थिते धिबावे अपित्त्वेन ङित्त्वाद्ग्रहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः । वशानि वशाव वशाम । लङ्याह — अवडिति । हल्ङ्यादिलोपे शस्य षः, षस्य डः, तस्य चर्त्वविकल्प इति भावः । औशन्निति । अवट् औष्टम् औष्ट । अवशमिति । पित्त्वान्न संप्रसारणमिति भावः । औआ औश्म । वध्याशीर्लिङो उश्यादिति सिद्धवत्कृत्य आह — उश्यातामुश्यास्तामिति । अवशीत् अव्राशीत् । अवशिष्यत् । तदेवं दीधीह् वेवीङ् षस षस्ति वश एते पञ्च धातवस्छान्दसा एवेति माधवादयः । तत्रदीधीवेवीटा॑मिति सूत्रेदीधीवेव्योश्छन्दोविषयत्वा॑दिति भाष्यम् । 'जक्षित्यादयः ष' डिति सूत्रेषसिवशी छानदसा॑विति भाष्यम् । एतद्भाष्यादेव षस्तिधातोर्नाऽत्र पाठ इति प्रतीयते । अत एव 'षस शास्ति स्वप्ने' इति पाठमभ्युपगमस्य स्तिपा निर्देशेन शास एवाथभेदात्पुनः पाठ इति कैयट आह । अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम्,वष्टि भागुरिरल्लोपंजयाय सेनान्यमुशन्ति देवाः॑ इत्यादिप्रयोगदर्शनादित्यास्तां तावत् । चर्करीतं चेति । धातुपाठे गणसूत्रमिदम् ।चर्करीत॑मिति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा । तदाह — यङ्लुगन्तमदादाविति । तेन यङ्लुगन्ताच्छबेव विकरणः, तस्य लुक्, न तु श्यनादि विकरणान्तरम् । 'परस्मपैदिन' इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव । ह्नुङ् अपनयने इति । अनिडयम् । ह्नुते इति । ह्नुवाते ह्नुवते इत्यादि । जुह्नुवे इति । जुह्नुवाते जुह्नुविरे । क्रादिनियमादिट् । जुह्नुविषे । जुह्नुविवहे । ह्नोता । ह्नोष्यते । ह्नुताम् । ह्नुष्व । ह्नवै ह्नवावहै । अह्नुत । इति सिद्धवत्कृत्य विधिलिङ्याह — ह्नुवीतेति आशीर्लिङ्याह — ह्नोषीष्टेति । लुह्राह — अह्नोष्टेति । इति बालमनोरमायां लुग्विकरणम् ।
index: 7.4.53 sutra: यीवर्णयोर्दीधीवेव्योः
यकारे इकार उच्चारणार्थः । लोपो भवतीति । हकारस्त्वनन्तरोऽप्यस्वरितत्वान्नानुवर्तते । आदीध्येति । ल्यप् । आदीध्यक इति । यक् । आदीधितेति । तृच्, इट् । आदीध्यनमिति । ल्युट्,'दीधीवेवीटाम्' इति गुणप्रतिषेधः । इहादीधयतेर्वुल् - आदीध्यक इति । श्रूयमाण एव णौ ण्वुल् । उत्पतेः प्रागेव प्राप्तोऽपि लोपो न भवति; वर्णग्रहणात् । किं वर्णग्रहणमतिरिच्यत इत्यतो न भवति ? नेत्याह । अक्षरार्थ एवायम्, कथम् ?'वर्ण वर्मने' चुरादिः, वर्ण्यते उपलभ्यत इति वर्णः, वर्णश्चासाविश्चेति विशेषणसमासे विशेषणस्य निपातनात् परनिपातः ॥