अतो हलादेर्लघोः

7-2-7 अतः हलादेः लघोः सिचि वृद्धिः परस्मैपदेषु न एटि विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हलादेरङ्गस्य लघोरकारस्येडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अत इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत् इत्यत्रात इत्यस्मिन्नसति स्थानिनिर्देशार्थमच इत्येतदनुवर्तयितव्यम्। तत्राज्लक्षणा वृद्धिरिग्लक्षणा न भवतीति <<क्ङिति च>> १.१.५ इति प्रतिषेधो न स्यात्। हलादेरिति किम्? मा भवानशीत्। मा भवानटीत्। लघोरिति किम्? अतक्षीत्। अरक्षीत्। अथेह कस्माद् न भवति अचकासीदिति? <<येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्>> इति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति। अथ पुनरेकेन वर्णेन व्यवधानमाश्रीयते न पुनरनेकेनेति कल्पने शक्यमकर्तुं लघोरिति, अतक्षीदित्यत्रानेकेन व्यवधानमिति न भविष्यति। तत् क्रियते विस्पष्टार्थम्। इटीत्येव — अपाक्षीत्॥

Siddhanta Kaumudi

Up

हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥

Laghu Siddhanta Kaumudi

Up

हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ {$ {! 7 णद !} (धातुपाठे <{01.0056}>) अव्यक्ते शब्दे $} ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अतो हलादेर्लघोः>> - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । 'अत उपाधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि ।

Padamanjari

Up

न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङ्त्वे सिति खिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः । अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योतरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियणुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णितीति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृतेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् । अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ॥