7-2-7 अतः हलादेः लघोः सिचि वृद्धिः परस्मैपदेषु न एटि विभाषा
index: 7.2.7 sutra: अतो हलादेर्लघोः
हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अतः इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत्, इत्यत्र अतः इत्यस्मिन्नसति स्थानिनिर्देशार्थमचः इत्येतदनुवर्तयितव्यम्। तत्र अज्लक्षणा वृद्धिरिग्लक्षणा न भवतीति क्ङिति च 7.2.118 इति प्रतिषेधो न स्यात्। हलादेरिति किम्? म भवानशीत्। मा भवानटीत्। लघोः इति किम्? अतक्षीत्। अरक्षीत्। अथ इह कस्मान् न भवति अचकासीतिति? येन नाव्यवधानम् तेन व्यवहितेऽपि वचनप्रामाण्यातिति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानम् इति वृद्धिर्न भवति। अथ पुनरेकेन वर्णेन व्यवधानमश्रीयते न पुनरनेकेन इति कल्पने शक्यमकर्तुं लघोः इति, अतक्षीदित्यत्र अनेकेन व्यवधानम् इति न भविष्यति? तत् क्रियते विस्पष्टार्थम्। इटि इत्येव, अपाक्षीत्।
index: 7.2.7 sutra: अतो हलादेर्लघोः
हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥
index: 7.2.7 sutra: अतो हलादेर्लघोः
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ {$ {! 7 णद !} अव्यक्ते शब्दे $} ॥
index: 7.2.7 sutra: अतो हलादेर्लघोः
अतो हलादेर्लघोः - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । 'अत उपाधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि ।
index: 7.2.7 sutra: अतो हलादेर्लघोः
न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङ्त्वे सिति खिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः । अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योतरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियणुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णितीति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृतेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् । अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ॥